________________
भा. सू. ९
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ४९ ॥
33
अण् ण समणुजाणेजा, जस्सेते उदयसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिणातकम्मे ( सू० ३० ) ति बेमि ॥ इति तृतीयोऽप्कायोद्देशकः ॥
'एतस्मिन् ' अपकाये 'शस्त्रं' द्रव्यभावरूपं समारभमाणस्येत्येते समारम्भा बन्धकारणत्वेनापरिज्ञाता भवन्ति, अत्रैवापकाये शस्त्रमसमारभमाणस्येत्येते आरम्भा ज्ञपरिज्ञया परिज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, तामेव प्रत्याख्यानपरिज्ञां विशेषतो ज्ञपरिज्ञापूर्विकां दर्शयति- 'तद्' उदकारम्भणं बन्धायेत्येवं परिज्ञाय मेधावी मर्या दाव्यवस्थितो नैव स्वयमुदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत् नैवान्यानुदकशस्त्रं समारभमाणान्समनुजानीयात्, यस्यैते उदकशस्त्रसमारम्भाः द्विधा परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति । ब्रवीमीति पूर्ववद् । इति शस्त्रपरिज्ञायां तृतीयोद्देशकः समाप्तः ॥
उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशके मुनित्वप्रतिपत्तये अपूकायः प्रतिपादितः, तदधुना तदर्थमेव क्रमायात स्तेजस्कायप्रतिपादनायायमुदेशकः समारभ्यते तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि तावद्यावन्नामनिष्पन्ने निक्षेपे तेजउद्देशक इति नाम, तत्र तेजसो निक्षेपादीनि द्वाराणि वाध्यानि, अत्र च पृथिवीविकल्पतुल्यत्वात् केषाञ्चिदतिदेशो द्वाराणामपरेषां तद्विलक्षणत्वात् अपोद्धार इत्येतत् द्वयमुररीकृत्य नियुक्तिकृद् गाथामाह
तेस्स दाराई ताई जाई हवंति पुढवीए । नाणसी उ विहाणे परिमाणुवभोगसत्थे य ॥ ११६ ॥
'तेजसोsपि' अग्नेरपि 'द्वाराणि' निक्षेपादीनि यानि पृथिव्याः समधिगमेऽभिहितानि तान्येव वाच्यानि, अपवादं दर्शयितुमाह- 'नानात्वं' भदो विधानपरिमाणोपभोगशस्त्रेषु, तुरवधारणे, विधानादिष्वेव च नानात्वं नान्यत्रेति, चशब्दालक्षणद्वारपरिग्रहः ॥ यथाप्रतिज्ञातनिर्वहणार्थमादिद्वारव्याचिख्यासयाऽऽह
दुविहा य तेजीवा सुहुमा तह बायरा य लोगंमि । सुहमा य सव्वलोए पंचैव य बायरविहाणा ॥ ११७ ॥ स्पष्टा ॥ वादरपञ्चभेदप्रतिपादनायाह
इंगाल अगणि अची जाला तह मुम्मुरे य बोद्धवे । बायरतेउविहाणा पंचविहा वणिया एए ॥ ११८ ॥ दग्धेन्धनो विगतधूमज्वालोऽङ्गारः-, इन्धनस्थः प्ठोषक्रियाविशिष्टरूपः तथा विद्युदुल्काऽशनिसङ्घर्षसमुत्थितः सूर्यमणिसंसृतादिरूपञ्चाग्निः, दाह्यप्रतिबद्धो ज्वालाविशेषोऽचिः, ज्वाला छिन्नमूलाऽनङ्गारप्रतिबद्धा, प्रविरलाग्निकणानुविद्धं भस्म मुर्मुरः, एते बादरा अग्निभेदाः पञ्च भवन्तीति ॥ एते च बादराग्नयः स्वस्थानाङ्गीकरणान्मनुष्यक्षेत्रेऽर्द्धतृतीयेषु | द्वीपसमुद्रेष्वव्याघातेन पञ्चदशसु कर्म्मभूमिषु व्याघाते सति पञ्चसु विदेहेषु नान्यत्र, उपपाताङ्गीकरणेन लोकासङ्घयेयभागवर्तिनः, तथा चागमः -- " उववाएणं दोसु उढकवाडेसु तिरियलोयतट्टे (हे) य" अस्यायमर्थः - अर्द्ध तृतीयद्वीपसमुद्रबाहल्ये पूर्वापरदिक्षणोत्तरस्वयम्भूरमणपर्यन्तायते ऊर्द्धाधोलोकप्रमाणे कपाटे तयोः प्रविष्टा बादराग्निषूद्यमानकास्तद्व्यपदेशं लभन्ते, तथा 'तिरियलोयतट्टे (हे ) य'त्ति तिर्यग्लोकस्थालके च व्यवस्थितो बादरानिषूत्पद्यमानो बादराग्निव्यपदेशभाग् भवति । अन्ये तु व्याचक्षते -तयोस्तिष्ठतीति तत्स्थः, तिर्यग्लोकश्चासौ तत्स्थश्च तिर्यग्लोकतत्स्थः, तत्र च स्थित | उत्पित्सुर्बादराग्निव्यपदेशमासादयति, अस्मिंश्च व्याख्याने कपाटान्तर्गत एव गृह्यत, स च द्वयोरूर्द्धकपाटयोरित्यनेनैवोपात्त इति तद्व्याख्यानाभिप्रायं न विद्मः । कपाटस्थापना चेयम् । समुद्घातेन सर्वलोकवर्त्तिनः, ते च पृथिव्यादयो मारणान्तिकसमुद्घातेन समवहता बादरानिषूत्पद्यमानास्तद्व्यपदेशभाजः सर्वलोकव्यापिनो भवन्ति, यत्र च बादराः पर्याष्टकास्तत्रैव बादरा अपर्याप्तकाः, तन्निश्रया तेषामुत्पद्यमानत्वात्, तदेवं सूक्ष्मा वादराञ्च पर्याप्तकापर्याप्तकभेदेन प्रत्येकं द्विधा भवन्ति, एते च वर्णगन्धरसस्पर्शादेशैः सहस्राग्रशो भिद्यमानाः सङ्क्षेचयोनिप्रमुखशतसहस्रभेदपरिमाणा भवन्ति, तत्रैषां संवृता योनिरुष्णा च सचित्ताचित्तमिश्रभेदात् त्रिधा, सप्त चैषां योनिलक्षा भवन्ति ॥ साम्प्रतं चशब्दसमुच्चितं लक्षणद्वारमाह
जह देहप्परिणामो रतिं खज्जोयगस्स सा उबमा । जरियस्स य जह उम्हा तओवमा ते जीवाणं ॥ ११९ ॥ 'यथेति दृष्टान्तोपन्यासार्थः 'देहपरिणामः' प्रतिविशिष्टा शरीरशक्ति: 'रात्रा' विति विशिष्टकालनिर्देशः 'खद्योतक' इति प्राणिविशेषपरिग्रहः, यथा तस्यासौ देहपरिणामो जीवप्रयोगनिर्वृत्तशक्तिराविश्चकास्ति, एवमङ्गारादीनामपि प्रति| विशिष्टा प्रकाशादिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भावितेति । यथा वा ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते, जीवाघिटितशरीरकानुपात्येव भवति, एषैवोपमाऽऽग्नेयजन्तूनां न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते, एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता मुक्तकग्रन्थोपपत्तिमुखेन प्रतिपादिता, सम्प्रति प्रयोगमारोप्यते अयमेवार्थः - जीवशरीराज्यारादयः, छेद्यत्वादिहेतुगणान्त्रितत्वात् सास्नाविषाणादिसङ्घातवत्, तथा आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः,
Jain Education International
For Private Personal Use Only
| अध्ययनं १
* उद्देशकः ४
॥ ४९ ॥
www.jainelibrary.org