________________
श्रीआचाराङ्गवृत्तिः
(शी०)
1180 11
श्रीआचा - राङ्गवृत्तिः (शी०)
॥ ४८ ॥
32
ततश्च कथमिव नादत्तादानं स्यात् ? न चान्यदीयस्यान्य. स्वामी दृष्टः परमार्थचिन्ताया, नन्वेवमशेषलोकप्रसिद्ध गोदानादिव्यवहारस्त्रुट्यति, त्रुट्यतु नामैवंविधः पापसम्बन्धः, तद्धि देयं यद्दुःखितं स्वयं न भवति दासीबलीवर्दादिवत्, न चान्येषां दुःखोसत्तेः कारणं हलखङ्गादिवत्, एतद्व्यतिरिक्तं दातृपरिगृहीत्रोरेकान्तत एवोपकारकं देयं प्रतिजानते जिनेन्द्रमतावलम्बिनः, उक्तं च- " यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्मकृते तद्भवेद्देयम् ॥ १ ॥” इति, तस्मादवस्थितमेतत्-तेषां तददत्तादानमपीति ॥ साम्प्रतमेतद्दोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण परः परिजिहीर्षुरराह
कप्पड़ णे कप्पइ पाउ, अदुवा विभूसाए ( २७ सू० )
अशो हतोदकारम्भिणो हि चोदिताः सन्त एवमाहुः यथा नैतत् स्वमनीषिकातः समारम्भयामो वयं, किं त्वागमे निर्जीवत्वेनानिषिद्धत्वात् 'कल्पते' युज्यते 'नः' अस्माकं 'पातुम्' अभ्यवहर्तुमिति, वीप्सया च नानाविधप्रयोजनविषय उपभोगोऽभ्यनुज्ञातो भवति, तथाहि -आजीविकभस्मस्नाय्यादयो वदन्ति पातुमस्माकं कल्पते न स्त्रातुं वारिणा, शाक्यपरिव्राजकादयस्तु स्नानपानावगाहनादि सर्व कल्पते इति प्रभाषन्ते, एतदेव स्वनामग्राहं दर्शयति-अथवोदकं विभूषार्थमनुज्ञातं नः समये, विभूषा - करचरणपायूपस्थमुखप्रक्षालनादिका वस्त्र भण्डकादिप्रक्षालनात्मिका वा, एवं स्नानादि| शौचानुष्ठायिनां नास्ति कश्चिद्दोष इति । एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धन्विमोह्य किं कुर्वन्तीत्याह
पुढो सत्थेहिं विहन्ति ( सू० २८ )
'पृथग्' विभिन्नलक्षणैः नानारूपैरुत्सेचनादिशस्त्रस्ते अनगारायमाणाः 'विउट्टन्ति' त्ति अप्कायजीवान् जीवनाद्व्यावर्त्तयन्ति - व्यपरोपयन्तीत्यर्थः, यदिवा पृथग्विभिन्नैः शस्त्रैरपूकायिकान्त्रिविधं कुट्टन्ति- छिन्दन्तीत्यर्थः, कुट्टेर्द्धातोः छेदनार्थत्वात् ॥ अधुनैषामागमानुसारिणामागमासारत्वप्रतिपादनायाह
एत्थवि तेसिं नो निकरणाए (सू० २९ )
'एतस्मिन्नपि' प्रस्तुते स्वागमानुसारेणाभ्युपगमे सति 'कल्प णे कप्पइ णे पाउं, अदुवा विभूसाए'त्ति एवंरूपस्तेपा मयमागमो यद्धलादपूकायपरिभोगे ते प्रवृत्ताः स स्याद्वादयुक्तिभिरभ्याहतः सन् 'नो निकरणाए ति नो निश्चयं कर्त्तु समर्थो भवति, न केवलं तेषां युक्तयो न निश्चयायालम्, अपि त्वागमोऽपीत्यपिशब्दः, कथं पुनस्तदागमो निश्चयाय नालमिति, अत्रोच्यते, त एवं प्रष्टव्याः कोऽयमागमो नाम ? यदादेशात्कल्पते भवतामपकायारम्भः, त आहुः- प्रतिवि - शिष्ठानुपुर्वीविन्यस्तवर्णपदवाक्यसङ्घात आप्तप्रणीत आगमः, नित्योऽकर्तृको वा ?, ततश्चैवमभ्युपगते यो येन प्रतिपन्न आशः स निराकर्त्तव्यः, अनाप्तोऽसौ अप्कायजीवापरिज्ञानात् तद्बधानुज्ञानाद्वा भवानिव जीवत्वं चापां प्राकू प्रसा धितमेव, ततस्तत्प्रणीतागमोऽपि सद्धर्म्मचोदनायामप्रमाणम्, अनाप्तप्रणीतत्वाद्, रथ्यापुरुषवाक्यवत्, अथ नित्योकर्तकः समयोऽभ्युपगम्यते ततो नित्यत्वं दुष्प्रतिपादं यतः शक्यते वक्तुं भवदभ्युपगतः समयः सकर्तृको वर्णपदवाक्यात्मकत्वात्, विधिप्रतिषेधात्मकत्वात् उभयसम्मतसकर्तृकग्रन्थसन्दर्भवदिति, अभ्युपगम्य वा ब्रूमः - अप्रमाणमसौ, नित्यत्वादाकाशवत् यच्च प्रमाणं तदनित्यं दृष्टं प्रत्यक्षादिवदिति, तथा विभूषासूत्रावयवेऽपि पृष्टा न प्रत्युत्तरदाने क्षमाः, यतियोग्यं स्नानं न भवति, कामाङ्गत्वात्, मण्डनवत्, कामाङ्गता च सर्वजनप्रसिद्धा, तथा चोक्तम्- "स्नानं मदद करं, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥ १ ॥” शौचार्थोऽपि दुष्कलो, वारिणा बाह्यमलापनयनमात्रत्वात् न ह्यन्तर्व्यवस्थितकर्ममलक्षालनसमर्थं वारि दृष्टं, तस्माच्छरीरवाङ्मनसामकुशलप्रवृत्तिनिरोधो भावशौचमेव कर्मक्षयायालं तच्च वारिसाध्यं न भवति, कुतः ?, अन्वयव्यतिरेकसमधिगम्यत्वात्सर्वभावानां, न हि मत्स्यादयः तत्र स्थिता मत्स्यादित्वकर्मक्षय भाकत्वेनाभ्युपगम्यन्ते, विना च वारिणा महर्षयो विचित्रतपोभिः कर्म्म क्षपयन्तीति, अतः स्थितमेतत् - तत्समयो न निश्चयाय प्रभवतीति ॥ तदेवं निःसपत्नमणं जीवत्वं प्रतिपाद्य तलावृत्तिनिवृत्तिविकल्प फलप्रदर्शनद्वारेणोपसंजिहीर्षुः सकलमुद्देशार्थमाह
"
Jain Education International
एत्थ सत्थं समारभमाणस्स इच्चेए आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी णेव सयं उदयसत्थं समारम्भेजा णेवण्णेहिं उदयसत्थं समारंभावेजा उदयसत्थं समारंभंतेऽवि
For Private Personal Use Only
अध्ययनं १
उद्देशका ३
॥ ४७ ॥
अध्ययनं १
उदेशकः ३
।। ४८ ।।
www.jainelibrary.org