________________
श्रीअचा
राङ्गवृत्तिः
(शी०)
॥ ४६ ॥
31
तदेवाबोधिलाभाय भवति, स एतत्सम्बुध्यमान आदानीयं सम्यग्दर्शनादि सम्यगुत्थाय - अभ्युपगम्य श्रुत्वा भगव तोsनगाराणां वाऽन्तिके इहैकेषां साधूनां यत् ज्ञातं भवति तद्दर्शयति- 'एषः ' अप्कायसमारम्भो ग्रन्थ एष खलु मोह एप खलु मार एष खलु नरक इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैः उदककर्मसमारम्भेणोदकशस्त्रं समारभमाणोऽन्याननेकरूपान् प्राणिनो विविधं हिनस्तीत्येतत्प्राग्वत् व्याख्येयं पुनरप्याह - 'से बेमी'त्यादि, सेशब्द आत्मनिर्देशे, सोऽहमेवमुपलब्धाने कापूकायतत्त्ववृत्तान्तो ब्रवीमि - 'सन्ति' विद्यन्ते प्राणिन उदकनिश्रिताः- पूतरकमत्स्यादयो यानुदकारम्भप्रवृत्तो हन्यादिति, अथवाऽपरः सम्बन्ध - प्रागुक्तमुदकशस्त्रं समारभमाणोऽन्यानप्यनेकरूपान् जन्तून् | विविधं हिनस्तीति, तत् कथमेतच्छक्यमभ्युपगन्तुमित्यत आह- 'सन्ति पाणा' इत्यादि पूर्ववत् कियन्तः पुनस्त इति दर्शयति- 'जीवा अणेगा पुनर्जीवोपादानमुदकाश्रितप्रभूतजीवभेदज्ञापनार्थ, ततश्चेदमुक्तं भवति एकैकस्मिन् जीवभेदे उदकाश्रिता 'अनेके' असंख्येयाः प्राणिनो भवन्ति, एवं चापकायविषयारम्भभाजः पुरुषास्ते तन्निश्रितप्रभूतसत्यव्यापत्तिकारिणो द्रष्टव्याः ॥ शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयति
इहं च खलु भो ! अणगाराणं उदयजीवा वियाहिया ( सू० २४ )
खशब्दोऽवधारणे 'इहैव' ज्ञातपुत्रीये प्रवचने द्वादश) ने गणिपिटके 'अनगाराणां' साधूनाम् 'उदकजीवा' उदकरूपा जीवाश्चशब्दात्तदाश्रिताश्च पूतरकछेदन कलोदणक भ्रमरक मत्स्यादयो जीवा व्याख्याताः, अवधारणफलं च नान्येषामुदकरूपा जीवाः प्रतिपादिताः ॥ यद्येवमुदकमेव जीवास्ततोऽवश्यं तत्परिभोगे सति प्राणातिपात भाजः साधव इति, अत्रोच्यते, नैतदेवं, यतो वयं त्रिविधमष्कायमाचक्ष्महे सचितं मिश्रमचित्तं च तत्र योऽचित्तोऽपकायस्तेनोपयोगविधिः साधूनां, नेतराभ्यां, कथं पुनरसौ भवत्यचित्तः ? किं स्वभावादेवाहोश्विच्छस्त्रसम्बन्धात् ?, उभयथाऽपीति, तत्र | यः स्वभावादेवा चित्तीभवति न बाह्यशस्त्रसम्पर्कात्, तमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, यतो नु श्रूयते भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटल सादिरहितो महाइदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणां तृड्वाधितानामपि पानाय नानुजज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति श्रुतज्ञानप्रामाण्यज्ञापनार्थ च, तथाहि - सामान्यश्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेवाचित्तमिति व्यवहरति जलं, न पुनर्निरिन्धनमेवेति, अतो यद्वाह्यशस्त्रसम्पर्कात् परिणामान्तरापन्नं वर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते, किं पुनस्तच्छस्त्रमि -
*
त्यत आह
सत्थं चेत्थं अणुवीइ पासा, पुढो सत्थं पवेइयं ( सू० २५ )
शस्यन्ते - हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं, तञ्चोत्सेचनगालनउपकरणधावनादि स्वकायादि च वर्णाद्यापत्तयो वा पूर्वावस्थाविलक्षणाः शस्त्रं, तथाहि - अग्निपुद्गलानुगतत्वादीषसिङ्गलं जलं भवत्युष्णं गन्धतोऽपि धूमगन्धि रसतो वि | रसं स्पर्शत उष्णं तच्चोद्वृत्तत्रिदण्डम्, एवंविधावस्थं यदि ततः कल्पते, नान्यथा, तथा कचवरकरीषगोमूत्रोषादीन्धनस|म्बन्धात् स्तोकमध्यबहुभेदात स्तोकं स्तोके प्रभिपतीत्यादि चतुर्भङ्गिकाभावना कार्या, एवमेतत् त्रिविधं शस्त्रं, चशब्दो |ऽवधारणार्थः, अन्यतमशस्त्रसम्पर्कविध्वस्तमेव ग्राह्यं, नान्यथेति, 'एत्थ'त्ति एतस्मिन् अपकाये प्रस्तुते 'अनुविचिन्त्य' विचार्य इदमस्य शस्त्रमित्येवं ग्राह्यं, 'पश्ये' त्यनेन शिष्यस्य चोदनेति । तदेवं नानाविधं शस्त्रमप्कायस्यास्तीति प्रतिपादितम्, एतदेव दर्शयति- 'पुढो सत्थं पवेदितं' 'पृथग्' विभिन्नमुत्सेचनादिकं शस्त्रं 'प्रवेदितम्' आख्यातं भगवता, पाठान्तरं वा 'पुढोsपासं पवेदितं' एवं पृथग्विभिन्नलक्षणेन शस्त्रेण परिणामितमुदकग्रहणमपाशं प्रवेदितम् - आख्यातं भगवता, अपाशः - अबन्धनं शस्त्रपरिणामितोदकग्रहण मबन्धनमाख्यातमितियावद् ॥ एवं तावत्साधून सचित्तमिश्राप्कायपरित्यागेनाचित्तपयसा परिभोगः प्रतिपादितः, ये पुनः शाक्यादयोऽपकायोपभोगप्रवृत्तास्ते नियमत एवाकायं विहिंसन्ति, तदाश्रितांश्चान्यानिति, तत्र न केवलं प्राणातिपातापत्तिरेव तेषां किमन्यदित्यत आह
अदुवा अदिन्नादाणं ( सू० २६ )
'अथवे 'ति पक्षान्तरोपन्यासद्वारेणाभ्युच्चयोपदर्शनार्थः, अशस्त्रोपहताप्कायोपभोगकारिणां न केवलं प्राणातिपातः, अपि त्वदत्तादानमपि तत्तेषां यतो यैरपूकायजन्तुभिर्यानि शरीराणि निर्वर्त्तितानि तैरदत्तानि ते तान्युपभुञ्जते, यथा कश्चित् पुमान् सचित्तशाक्यभिक्षुकशरीरकात् खण्डमुत्कृत्य गृह्णीयाद्, अदत्तं हि तस्य तत्, परपरिगृहीतत्वात्, परकीयगवाद्यादानवत्, एवं तानि शरीराण्यब्जीवपरिगृहीतानि गृह्णतोऽदत्तादानमवश्यम्भावि, स्वाम्यनुज्ञानाभावादिति, ननु यस्य तत्तडागकूपादि तेनानुज्ञातं सकृत्तस्य इति, ततश्च नादत्तादानं, स्वामिनाऽनुज्ञातत्वात् परानुज्ञातपश्वादिघातवत्, नन्वेतदपि साध्यावस्थमेवोपन्यस्तं यतः पशुरपि शरीरप्रदानविमुख एव भिन्नार्यमर्यादैरुच्चैरारटन्विशस्यते,
Jain Education International
For Private Personal Use Only
अध्ययनं १ उद्देशकः ३
॥ ४६ ॥
www.jainelibrary.org