________________
30
MARATHAMACROCHE
श्रीआचा
ब्भाइक्खइ से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अन्भाइ- अध्ययनं १ राङ्गवृत्तिः क्ख इ (सू० २२)
भाउद्देशकः३ (शी०)
सोऽहं ब्रवीमि, सेशब्दस्य युष्मदर्थत्वात्स्यां वा ब्रवीमि, न 'स्वयम्' आत्मना 'लोकः' अप्कायलोकोऽभ्याख्यातव्यः, ॥४४॥
अभ्याख्यानं नामासदभियोगः, यथाऽचौरं चौरमित्याह, इह तु जीवा न भवन्त्यापः, केवलमुपकरणमात्रं, घृततैलादिवत् , एषोऽसदभियोगः, हस्त्यादीनामपि जीवानामुपकरणत्वात् , स्यादारेका-नन्वेतदेवाभ्याख्यानं यदजीवानां जीदावत्वापादनं, नैतदस्ति, प्रसाधितमपां प्राक् सचेतनत्वं, यथा हि अस्य शरीरस्याहंप्रत्यादिभिर्हेतुभिरधिष्ठाताऽऽत्मा व्यति
रिक्तः प्राद प्रसाधित एवमप्कायोऽप्यव्यक्तचेतनया सचेतन इति प्राक् प्रसाधितः, न च प्रसाधितस्याभ्याख्यानं न्याय्यम् , अथापि स्याद् , आत्मनोऽपि शरीराधिष्ठातुरभ्याख्यानं कर्त्तव्यं, न च तक्रियमाणं घटामियतीति दर्शयति -'नेव अत्ताणं अभाइक्खेज्जा' नैव 'आत्मानं शरीराधिष्ठातारमहंप्रत्ययसिद्धं ज्ञानाभिन्नगुणं प्रत्यक्ष 'प्रत्याचक्षीत' अपडवीत, ननु चैतदेव कथमवसीयते-शरीराधिष्ठाताऽऽत्माऽस्तीति, उच्यते, विस्मरणशीलो देवानां प्रिय उक्तमपि भाणयति, तथाहि-आहृतमिदं शरीरं केनचिदभिसन्धिमता, कफरुधिराङ्गोपाङ्गादिपरिणतेः, अन्नादिवत्, तथोत्सृष्टमपि | केनचिदभिसन्धिमतैव, आहृतत्वात् , अन्नमलवदिति, तथा न ज्ञानोपलब्धिपूर्वकः परिस्पन्दो भ्रान्तिरूपः, परिस्पन्द
॥४४॥ त्वात् , त्वदीयवचनपरिस्पन्दवत्, तथा विद्यमानाधिष्ठातृव्यापारभाञ्जीन्द्रियाणि, करणत्वात् , दात्रादिवत्, एवं कुतकमार्गानुसारिहेतुमालोच्छेदः स्याद्वादपरशुना कार्यः, अत एवंविधोपपत्तिसमधिगतमात्मानं शुभाशुभफलभाज न प्रत्या चक्षीत, एवं च सति यो ह्यज्ञः कुतर्कतिमिरोपहतज्ञानचक्षुरपकायलोकमभ्याख्याति-प्रत्याचष्टे स सर्वप्रमाणसिद्धमात्मानमभ्याख्याति, यश्चात्मानमभ्याख्याति-नास्म्यहं, स सामर्थ्यादपूकायलोकमभ्याख्याति, यतो ह्यात्मनि पाण्याद्यवयवोपेतशरीराधिष्ठायिनि प्रस्पष्टलिङ्गेऽभ्याख्याते सत्यव्यक्तचेतनालिङ्गोऽपकायलोकस्तेन सुतरामभ्याख्यातः ॥ एवमनेकदोषोपपत्तिं विदित्वा नायमकायलोकोऽभ्याख्यातव्य इत्यालोच्य साधवो नाप्कायविषयमारम्भं कुवन्तीति, शाक्यादयस्त्वन्यथोपस्थिता इति दर्शयितुमाह
लजमाणा पुढो पास-अणगारा मो त्ति एगे पवयमाणा जमिणं विरुवरुवेहिं सत्थेहि उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे अणेगरूवे पाणे विहिंसइ । तत्थ खलु भगवता परिपणा पवेदिता । इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव उदयसत्थं समारभति अण्णेहिं वा उदयसत्थं समारंभावेति अण्णे उदयसत्थं समारंभंते समणुजाणति । तं से अहि
याए तं से अबोहीए । से तं संबुज्झमाणे आयाणीयं समुट्राय सोच्चा भगवओ अश्रीआचा- गगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु
अध्ययन राङ्गवृत्तिः
मारे एस खलु णरए, इच्चत्थं गड्डिए लोए जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्म(शी०)
उद्देशकः३ समारम्भेणं उदयसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ । से बेमि
संति पाणा उदयनिस्सिया जीवा अणेगे (सू० २३) 'लज्जमानाः' स्वकीयं प्रव्रज्याभासं कुर्वाणाः यदिवा सावद्यानुष्ठानेन लज्जमानाः-लज्जा कुर्वाणाः 'पृथग्'विभिन्नाः शाक्योटूककणभुककपिलादिशिष्याः, पश्यति शिष्यचोदना, अविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा-पश्य मृगो धावतीति, द्वितीयार्थे वा प्रथमा सुव्यत्ययेन द्रष्टव्या, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावद्यानुष्ठानरतान् पृथग्विभिन्नान् पश्य, किं तैरसदाचरितं ? येनैवं प्रदर्यन्त इति दर्शयति-अनगारा वयमित्येके शाक्यादयः प्रवदन्तो 'यदिदं' यदेतन, काका दर्शयति-'विरूपरूपैः' उत्सेचनाग्निविध्यापनादिशस्त्रैः स्वकायपरकायभेदभिन्नरुदककर्म समारभन्ते, उदककर्मसमारम्भेण च उदके शस्त्रं उदकमेव वा शस्त्रं समारभन्ते, तच्च समारभमाणोऽनेकरूपान्वन|स्पतिद्वीन्द्रियादीन्विविधं हिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथा अस्यैव जीवितव्यस्य परिवन्दनमाननपूजनार्थ जातिमरणमोचनार्थ दुःखप्रतिघातहेतुं यत् करोति तदर्शयति-स स्वयमेवोदकशस्त्रं समारभते अन्यैश्चोदक- ॥४५॥ शस्त्रं समारम्भयति अन्यांश्चोदकशखं समारभमाणान् समनुजानीते, तचोदकसमारम्भणं तस्याहिताय भवति, तथा
-
--
-
--
C ORAMANARTHANAMA
--
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org