________________
29
आ. सू. ८
श्रीआचा- राङ्गवृत्तिः (शी०)
॥४३॥
-'अमायं कुब्वमाणे'त्ति माया-सर्वत्र स्ववीर्यनिगूहनं, न माया अमाया तां कुर्वाणः, अनिगूहितबलवीर्यः संयमानुठाने पराक्रममाणोऽनगारो व्याख्यात इति, अनेन च तजातीयोपादानादशेषकषायापगमोऽपि द्रष्टव्य इति, उक्तं च -"सोही य उज्जुयभूयस्स, धम्मो सुद्धस्स चिढई"त्ति ॥ तदेवमसावुद्धृतसकलमायावल्लीवितानः किं कुर्यादित्याह
जाए सद्धाए निक्खंतो तमेव अणुपालिजा, वियहित्ता विसोत्तिय ( सूत्र० १९) यया श्रद्धया' प्रवर्द्धमानसंयमस्थानकण्डकरूपया 'निष्क्रान्तः' प्रव्रज्यां गृहीतवान् 'तामेव' श्रद्धामश्रान्तो यावज्जीवम् अनुपालयेद्' रक्षेदित्यर्थः, त्रज्याकाले च प्रायशः प्रवृद्धपरिणाम एव प्रव्रजति, पश्चात्तु संयमश्रेणी प्रतिपन्नो वर्द्धमानपरिणामो वा हीयमानपरिणामो वा अवस्थितपरिणामो वेति, तत्र वृद्धिकालो हानिकालो वा समयाद्युत्कर्षेणान्तमाहूर्तिकः, नातः परं सइक्लेशविशुद्ध्यद्धे भवतः, उक्तं च-"नान्तर्मुहूर्त्तकालमतिवृत्य शक्यं हि जगति सड्केष्टुम् । नापि विशोढुं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः ॥ १ ॥ उपयोगद्वयपरिवृत्तिः सा निर्हेतुका स्वभावत्वात् । आत्मप्रत्यक्षो हि स्वभावो व्यर्थाऽत्र हेतूक्तिः॥ २॥" अवस्थितकालश्च द्वयोवृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरष्टौ समयाः, तत ऊर्द्धमवश्यं पातात् , अयं च वृद्धिहान्यवस्थितरूपः परिणामः केवलिनां निश्चयेन गम्यो न छद्मस्थानामिति । यद्यपि च प्रमज्याभिगमोत्तरकालं श्रुतसागरमवगाहमानः संवेगवैराग्यभावनाभावितान्तरात्मा कश्चित्प्रवर्द्धमानमेव परिणाम ॥
१शोधिश्चर्जुभूतस्य धर्मः शुद्धस्य तिष्टति. २ पुव्वसंजोयं इति पा. भजते, तथा चोक्तम्-"जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुणी नवनवसंवेगस- अध्ययनं १ द्धाए ॥१॥" तथापि स्तोक एव तादृक् बहवश्च परिपतन्ति अतोऽभिधीयते 'तामेवानुपालयेदिति, कथं पुनः कृत्वा श्रद्धामनुपालयेदित्याह-विजहे'त्यादि, 'विहाय' परित्यज्य 'विस्रोतसिकां'शङ्का, सा च द्विधा-सर्वशङ्का देशशङ्का च, तत्र सर्वशङ्का किमस्ति आहतो मांझे नवेति, देशशङ्का तु किं विद्यन्ते अपकायादयो जीवाः, विशेष्य प्रवचनेऽभिहितत्वात् स्पष्टचेतनात्मलिङ्गाभावान्न विद्यन्ते इति वा, इत्येवमादिकामारेका विहाय सम्पूर्णाननगारगुणान् पालयेत् , यदिवा विस्रोतांसि द्रव्यभावभेदात् द्विधा-तत्र द्रव्यविस्रोतांसि नद्यादिस्रोतसां प्रतीपगमनानि, भावविस्रोतांसि तु मोक्षं प्रति सम्यग्दर्शनादिस्रोतसा प्रस्थितानां विरूपाणि, प्रतिकूलानि गमनानि भावविस्रोतांसि, तानि विहाय सम्पूर्णा-| नगारगुणभीग् भवति, श्रद्धां वाऽनुपालयेदिति, पाठान्तरं वा 'विजहित्ता पुव्वसंजोग' पूर्वसंयोगः-मातापित्रादिभिः, अस्य चोपलक्षणार्थत्वात्पश्चात्संयोगोऽपि श्वशुरादिकृतो ग्राह्यस्तं 'विहाय' त्यक्त्वा 'श्रद्धामनुपालयेदिति मीलनीयं ॥ तत्र यस्यायमुपदेशो दीयते यथा 'विहाय विस्रोतांसि तदनु श्रद्धानुपालनं कार्य' स एवाभिधीयते-न केवलं भवानेवापूर्वमिदमनुष्ठानमेवंविधं करिष्यति, किं त्वन्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाह___ पणया वीरा महावीहिं (सू० २०)
॥४३॥ १ यथा यथा श्रुतमवगाहतेऽतिशयरसप्रसरसंयुतमपूर्वम् । तथा तथा प्रहादते मुनिर्नवनवसंवेगश्रद्धया ॥१॥ २ मार्ग उत नेति प्र. 'प्रणताः' प्रहाः 'वीराः' परीषहोपसर्गकषायसेनाविजयात् वीथिः-पन्थाः महांश्चासौ वीधिश्च महावीथिः-सम्यग्दर्शनादिरूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषः प्रहतः, तं प्रति प्रह्वाः-वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषमहतोऽयं मार्ग इति प्रदर्श्य तजनितमार्गविसम्भो विनेयः संयमानुष्ठाने सुखेनैव प्रवर्त्तयिष्यते ॥ उपदेशान्तर-8 माह-लोकं चेत्यादि, अथवा यद्यपि भवतो मतिर्न क्रमतेऽप्कायजीवविषये, असंस्कृतत्वात् , तथापि भगवदाज्ञेयमिति श्रद्धातव्यमित्याह
लोगं च आणाए अभिसमेच्चा अकुओभयं (सू० २१) अत्राधिकृतत्वादकायलोको लोकशब्देनाभिधीयते, तमप्कायलोकं चशब्दादन्यांश्च पदार्थान् 'आज्ञया' मौनीन्द्रवचनेनाभिमुख्येन सम्यगित्वा-ज्ञात्वा, यथाऽप्कायादयो जीवाः, इत्येवमवगम्य न विद्यते कुतश्चिद्धेतोः-केनापि प्रकारेण जन्तूनां भयं यस्मात् सोऽयमकुतोभयः-संयमस्तमनुपालयेदिति सम्बन्धः, यद्वा 'अकुतोभयः' अप्कायलोको,X यतोऽसौ न कुतश्चिद्भयमिच्छति, मरणभीरुत्वात्, तमाज्ञयाऽभिसमेत्यानुपालयेद्-रक्षेदित्यर्थः ॥ अप्कायलोकमाज्ञया | अभिसमेत्य यत्कर्त्तव्यं तदाह
से बेमिणेव सयं लोगं अब्भाइक्खिज्जा व अत्ताणं अब्भाइकि जे लोयं अ
--RAMASSACANASAAMA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.