________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ ४१ ॥
श्रीआचाराङ्गवृत्तिः
(शी ० )
॥ ४२ ॥
28
आपः, स्वाभाविकव्योमसम्भूतसम्पातित्वात्, मत्स्यवत्, अत एते एवंविधलक्षणभाक्त्वाज्जीवा भवन्त्यपूकायाः ॥ साम्प्रतमुपभोगद्वारमाह
पहाणे पिअणे तह घोअणे य भत्तकरणे अ सेए अ । आउस्स उ परिभोगो गमणागमणे य जीवाणं ॥ १११ ॥ स्नानपानधावनभक्तकरणसे कयानपात्रो डुपगमनागमनादिरुपभोगः ॥ ततश्च तत्परिभोगाभिलाषिणो जीवा एतानि कारणान्युद्दिश्याप्कायवधे प्रवर्त्तन्त इति प्रदर्शयितुमाह
एएहिं कारणेहिं हिंसंती आउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ ११२ ॥ 'एभिः' स्नानावगाहनादिकैः कारणैरुपस्थितैः विषय विषमोहितात्मानो निष्करुणा अपकायिकान् जीवान् 'हिंसन्ति ' व्यापादयन्ति, किमर्थमित्याह - 'सातं' सुखं तदात्मनः 'अन्वेषयन्तः' प्रार्थयन्तः हिताहितविचारशून्यमनसः कतिपयदिवस स्थायिरम्य यौवन दर्पाध्मातचेतसः सन्तः सद्विवेकरहिताः तथा विवेकिजनसंसर्गविकलाः 'परस्य ' अवादेर्जन्तुग'णस्य 'दुःखम् ' असातलक्षणं तद् 'उदीरयन्ति' असातावेदनीयमुत्पादयन्तीत्यर्थः उक्तं च- “एकं हि चक्षुरमलं सहजो | विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः ? ॥ १ ॥ इदानीं शस्त्रद्वारमुच्यते
उचिणगालणधोवणे य उवगरणमत्तभंडे य । वायरआउक्काए एवं तु समासओ सत्यं ॥ ११३ ॥ शस्त्रं द्रव्यभावभेदात् द्विधा - द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैत्र तत्र समासतो द्रव्यशस्त्रमिदम् - ऊ सेचनमुत्सेचनं - कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, 'गालनं' घनमसृणवस्त्रार्द्धान्तेन 'धावनं' वस्त्राद्युपकरण चर्मकोशकटाहादिभण्डकविषयम्, एवमादिकं बादराप्काये 'एतत्' पूर्वोक्तं 'समासतः' सामान्येन शस्त्रं, तुशब्दो विभागापेक्षया विशेषणार्थः ॥ विभागतस्त्विदम् -
किंची सकाय सत्यं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥ ११४ ॥ किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य किञ्चित्परकायशस्त्रं मृत्तिकास्नेहक्षारादि किञ्चिच्चोभयं उदकमिश्रा मृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाक्कायलक्षण इति ॥ शेषद्वाराणि पृथिवीकायवनेतव्यानि इति दर्शयितुमाह
सेसाई दाराई ताई जाई हवंति पुढवीए। एवं आउछेसे निज्जुत्ती किन्तिया एसा ( होइ ) ॥ ११५ ॥ 'शेषाणी' त्युक्तशेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि तान्येवात्रापि द्रष्टव्यानि यानि पृथिव्यां भवन्तीति, 'एवम्' उक्तप्रकारेणापकायो देशके 'निर्युक्तिः' निश्चयेनार्थघटना 'कीर्त्तिता' प्रदर्शिता भवतीति । साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्
Jain Education International
से बेमि जहा अणगारे उज्जुकडे नियायपडिवणे अमायं कुव्वमाणे त्रियाहिए (सू०१८ )
निकायं पवित्रे इति पा.
'से बेमीत्यादि अस्य चायमभिसम्बन्धः - इहानन्तरोदेश के परिसमाप्तिसूत्रे 'पृथिवीकायसमारम्भव्यावृत्तो मुनि' रित्युक्तं, न चैतावता सम्पूर्णो मुनिर्भवति, यथा च भवति तथा दर्शयति तथाऽऽदिसूत्रेणायं सम्बन्धः - सुधर्मस्वामी इदमाह श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितमन्यश्चेदमित्येवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद्वाच्यः । सेशब्दस्तच्छब्दार्थो, स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभागू भवति तदहं ब्रवीमि, अपिः समुच्चये, स यथा वाऽनगारो न भवति तथा च ब्रवीमि 'अणगारा मोति एगे पयवमाणे त्यादिनेति, न विद्यते अगारं - गृहमस्येत्यनगारः, इह च यत्यादिशब्दव्युदासेनानगारशब्दोपादानेनैतदाचष्टे -गृहपरित्यागः प्रधानं मुनित्वकारणं, तदाश्रयत्वात्सावद्यानुष्ठानस्य, निरवद्यानुष्ठायी च मुनिरिति दर्शयति- 'उज्जुकडे 'त्ति ऋजुः - अकुटिलः संयमो दुष्प्रणिहितमनोवाक्कायनिरोधः सर्वसत्त्वसंरक्षण प्रवृत्तत्वाद्दयैकरूपः, सर्वत्राकुटिलगतिरितियावत् यदिवा मोक्षस्थानगमनर्जु श्रेणिप्रतिपत्तिः सर्वसवरसंयमात्, कारणे कार्योपचारं कृत्वा संयम एव सप्तदशप्रकार ऋजुः तं करोतीति ऋजुकृत्, ऋजुकारीत्यर्थः । अनेन चेदमुक्तं भवति - अशेषसंयमानुष्ठायी सम्पूर्णोऽनगारः, एवंविधश्चेहम् भवतीति दर्शयति- 'नियागपडिवन्ने' त्ति, यजनं यागः नियतो निश्चितो वा यागो नियागो मोक्षमार्गः सङ्गतार्थत्वाद्धातोः सम्यग्ज्ञानदर्शनचारित्रात्मतया गतं सङ्गतमिति, तं नियागं- सम्यग्दर्शनज्ञानचारित्रात्मकं मोक्षमार्ग प्रतिपन्नो नियाग प्रतिपन्नः, पाठान्तरं वा 'निकायप्रतिपन्नो' निर्गतः कायः - औदारिकादिर्यस्माद्यस्मिन्वा सति स निकायो-मोक्षस्तं प्रतिपन्नो निकायप्रतिपन्नः, तत्कारणस्य सम्यग्दर्शनादेः स्वशक्त्याऽनुष्ठानात्, स्वशक्त्याऽनुष्ठानं चामायाविनो भवतीति दर्शयति
For Private Personal Use Only
अध्ययनं १
उद्देशकः द
॥ ४१ ॥
अध्ययन १
उद्देशकः ३
11 82 11
www.jainelibrary.org