SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः (शी० ) 1| 80 || 27 अकायस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्याः प्रतिपादितानीति, 'नानात्वं' भेदरूपं विधानपरिमाणोपभोगशस्त्रविषत्यं द्रष्टव्यं चशब्दालक्षणविषयं च तुशब्दोऽवधारणार्थः, एतद्गतमेव नानात्वं नान्यगतमिति ॥ तत्र विधानं - प्ररूपणा, तद्गतं नानात्वं प्रदर्शयितुमाह दुविहा उ आउजीवा सुहमा तह बायरा य लोगंमि । सुहमा य सव्वलोए पंचेव य बायरविहाणा ॥ १०७ ॥ स्पष्टा ॥ तत्र पश्च बादरविधानानि दर्शयितुमाह सुद्धोदए य उस्सा हिमे य महिया य हरतणू चेव । बायर आउविहाणा पंचविहा वणिया एए ॥। १०८ ।। 'शुद्धोदकं' तडागसमुद्रनदीहदावदादिगतमवश्यायादिरहितमिति, 'अवश्यायो' रजन्यां यस्त्रेहः पतति, हिमं तु शिशिरसमये शीतपुद्गलसम्पर्कज्जलमेव कठिनीभूतमिति, गर्भमासादिषु सायं प्रातर्वा धूमिकापातो महिकेत्युच्यते, वर्षाशरत्कालयोर्हरिताङ्कुरमस्तकस्थितो जलबिन्दुर्भूमिस्नेहसम्पर्कोद्भूतो हरतनुशब्देनाभिधीयते, एवमेते पञ्च वादराकायविधयो व्यावर्णिताः । ननु च प्रज्ञापनायां बादराप्कायभेदा बहवः परिपठिताः, तद्यथा - करकशीतोष्णक्षारक्षत्रकटुम्ललवणवरुणकालोद पुष्करक्षीरघृतेक्षुरसादयः, कथं पुनस्तेषामत्र सङ्ग्रहः १, उच्यते, करकस्तावत्कठिनत्वाद्धिमान्त:पाती, शेषास्तु स्पर्शरसस्थानवर्णमात्रभिन्नत्वान्न शुद्धोदकमतिवर्त्तन्ते यद्येवं प्रज्ञापनायां किमर्थोऽपरभेदानां पाठः ?, उच्यते, स्त्रीबालमन्दबुद्ध्यादिप्रतिपत्त्यर्थमिति, इहापि कस्मान्न तदर्थं पाठः ?, उच्यते, प्रज्ञापनाध्ययनमुपाङ्गत्वादार्प, तत्र | युक्तः सकलभेदोपन्यासः ख्याद्यनुग्रहाय निर्युक्तयस्तु सूत्रार्थं पिण्डीकुर्वन्त्यः प्रवर्तन्त इत्यदोषः । त एते वादरापूकायाः समासतो द्वेधाः- पर्याप्तका अपर्याप्तकाश्च तत्रापर्याटका वर्णादीनसम्प्राप्ताः, पर्याप्तकास्तु वर्णगन्धरसस्पर्शादेशैः सहस्राप्रशो भिद्यन्ते, ततश्च सङ्घयेयानि योनिप्रमुखानि शतसहस्राणि भवन्ति भेदानामित्यवगन्तव्यं, संवृतयोनयश्चैते, सा च योनिः सचित्ताचित्तमिश्रभेदात् त्रिधा, पुनश्च शीतोष्णोभयभेदात्रिविधैव एवं गण्यमानाः योनीनां सप्त लक्षा भवन्तीति ॥ प्ररूपणानन्तरं परिमाणद्वारमाह जे बायरपज्जता पयरस्स असंखभागमिता ते । सेसा तिन्निवि रासी वीसुं लोगा असंखिजा ॥ १०९ ॥ ये बाद कायपर्याप्त कास्ते संवर्त्तितलोकप्रतरासङ्घ येयभागप्रदेशराशिपरिमाणाः, शेषास्तु त्रयोऽपि राशयों 'विष्वकू' पृथगसङ्ख्य लोकाकाशप्रदेशराशिपरिमाणा इति, विशेषश्चायम् - बादरपृथिवीकायपर्याप्तकेभ्यो बादरापूकाय पर्याप्तका असङ्खयेयगुणाः बादरपृथ्वी कायापर्यामकेभ्यो बादराप्कायिकापर्याप्तका असंख्येयगुणाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः | सूक्ष्मात्काया पर्याप्तका विशेषाधिकाः सूक्ष्मपृथ्वीर : यपर्याप्तकेभ्यः सूक्ष्मापूकायपर्याप्ता विशेषाधिकाः ॥ साम्प्रतं परिमाणद्वारानन्तरं चशब्दसूचितं लक्षणद्वारमाह जह हथिस्स सरीरं कललाबत्थस्स अहुणोषवनस्स । होइ उद्गंडगस्स य एसुबमा सव्वजीवाणं ॥ ११० ॥ अथवा पर आक्षिपति नापकायो जीवः, तलक्षणायोगात् प्रश्रवणादिवदित्यस्य हेतोरसिद्धतोद्भावनार्थ दृष्टान्तद्वारेण | लक्षणमाह-जहेत्यादि, यथा हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं चेतनं च दृष्टम् एवमपूकायोऽपीति, यथा वा उदकप्रधानमण्डकमुदकाण्ड कम धुनोत्पन्नमित्यर्थः, तन्मध्यव्यवस्थितं रसमात्रमसञ्जातावयवमनभिव्यक्तचश्वादिप्रविभागं चेतनावद् दृष्टम् एषा एवोपमा अप्कायजीवानामपीति, हस्तिशरीरकललग्रहणं व महाकायत्वात्तद्बहु भवतीत्यतः सुखेन प्रतिपद्यते, अधुनोपपन्नग्रहणं सप्ताहपरिग्रहार्थ, यतः सप्ताहमेव कललं भवति, परतस्त्वर्बुदादि, अण्डकेऽप्युदकग्रहणमेवमर्थमेव, प्रयोगश्चायम् सचेतना आपः, शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभूतकललवत्, विशेषणोपादानात्मश्रवणादिव्युदासः, तथा सात्मकं तोयम्, अनुपहतद्रवत्वाद्, अण्डकमध्यस्थितकललवदिति, तथा आपो जीवशरीराणि, छेद्यत्वाद्भेद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वाद्भोग्यत्वात् प्रेयत्वाद्रसनीयत्वात् स्पर्शनीयत्वात् दृश्यत्वाद् द्रव्यत्वाद् एवं सर्वेऽपि शरीरधर्मा हेतुत्वेनोपन्यसनीयाः, गगनवर्जभूतधर्माश्च रूपवत्त्वाकारवस्वादयः, सर्व्वत्र चायं दृष्टान्तः - सास्नाविषाणादिसङ्घातवदिति, ननु च रूपवत्त्वाकारवत्त्वादयो भूतधर्माः परमाणुष्वपि दृष्टा इत्यनैकान्तिकता, नैतदेवं यदत्र छेद्यत्वादिहेतुत्वेनोपन्यस्तं तत्सर्वमिन्द्रियव्यवहारानुपाति, न च तथा परमाणवः, | अतः प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः, यदिवा नैवासौ विपक्षः, सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहितासहितत्वं तु विशेषः, उक्तं च - "तर्णवोऽणन्भातिविगार मुत्तजाइत्तओऽणिलंता उ । सत्यासत्यहयाओ निजीवसजीवरूवाओ ॥ १ ॥” एवं शरीरत्वे सिद्धे सति प्रमाणं - सचेतना हिमादयः कचित् अपूकायत्वाद्, इतरोदकवत् इति, तथा सचेतना आपः, क्वचित् खातभूमिस्वाभाविकसम्भवत्वाद्, दर्दुरवत्, अथवा सचेतना अन्तरिक्षोद्भवा १ तनवोऽष्वभ्रादिविकारा मूर्त्तजातित्वतः अनिलान्तास्तु । शस्नाशस्त्रद्दता निर्जीवसजीवरूपाः ॥ १ ॥ Jain Education International For Private Personal Use Only अध्ययनं १ उद्देशकः * ॥ ४० ॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy