________________
श्रीआचाराङ्गवृत्तिः
(शी० )
॥ ३८ ॥
श्रीआचा
राङ्गवृत्तिः
(शी०)
॥ ३९ ॥
26
कर्म समारभमाणो हिनस्ति, पृथिवीकायसमारम्भेण च पृथिव्येव शस्त्रं स्वकायादेः पृथिव्या वा शस्त्रं हलकुद्दालादि तत्समारभते, पृथिवीशस्त्रं समारभमाणश्चान्याननेकरूपान् 'प्राणिनो' द्वीन्द्रियादीन्विविधं हिनस्तीति । स्यादारेका, ये हि न पश्यन्ति न शृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ग्रहीतव्यम् ?, अमुष्यार्थस्य प्रसिजये दृष्टान्तमाह - ' से बेमी' त्यादि, सोऽहं पृष्टो भवता पृथिवीकायवेदनां ब्रवीमि अथवा 'से' इति तच्छब्दार्थे वर्त्तते, यत्त्वया पृष्टस्तदहं ब्रवीमि अपिशब्दो यथानामशब्दार्थे, यथा नाम कश्चिज्जात्यन्धो वधिरो मूकः कुष्ठी पङ्गः अनभिनिर्वृत्तपाण्याद्यवयवविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयाद्धिताहितप्राप्तिपरिहारविमुखोऽतिकरुणां दशां प्राप्तः, तमेवंविधमन्धादिगुणोपेतं कश्चित्कुन्ताग्रेण 'अम्भे' इति आभिन्द्यात् तथाऽपरः कश्चिदन्धमाच्छिन्द्यात्, स च भिद्यमा| नाद्यवस्थायां न पश्यति न शृणोति मूकत्वान्नोचे रारटीति, किमेतावता तस्य वेदनाऽभावो जीवाभावो वा शक्यो विज्ञातुम् ?, एवं पृथिवीजीवा अप्यव्यक्तचेतना जात्यन्धबधिरमूकपङ्गादिगुणोपेतपुरुषवदिति, यथा वा पञ्चेन्द्रियाणां | परिस्पष्टचेतनानां 'अप्पेगे पायमन्भे' इति यथा नाम कश्चित्पादमाभिन्द्यादाच्छिन्द्याद्वेत्येवं गुल्फादिष्वप्यायोजनीयमिति दर्शयति, एवं जङ्घाजानूरुकटीनाभ्युदरपार्श्वपृष्ठउरोहृदय स्तनस्कन्धबाहुहस्ताङ्गलिन खग्रीवाहन कौष्ठ दन्तजिह्वातालुगलग|ण्डकर्णनासिकाशिभ्रूललाटशिरःप्रभृतिष्ववयवेषु भिद्यमानेषु छिद्यमानेषु वा वेदनोत्सत्तिर्लक्ष्यते, एवमेषामुत्कटमोहाज्ञानभाजां स्त्यानद्युदयाद व्यक्तचेतनानामव्यक्तैव वेदना भवतीति ग्राह्यम् । अत्रैव दृष्टान्तान्तरं दर्शयितुमाह- 'अप्पेगे
१ कार्य प्र.
संपमारए अप्पे उद्दवए यथा नाम कश्चित् 'सम्' एकीभावेन प्रकर्षेण प्राणानां मारणम्-अव्यक्तत्वापादनं कस्यचित् कुर्यात्, मूर्च्छामापादयेदित्यर्थः, तथाऽवस्थं च यथा नाम कश्चिदपद्रापयेत् प्राणेभ्यो व्यपरोपयेत् न चासौ तां वेदनां स्फुटमनुभवति, अस्ति चाव्यक्ता तस्यासौ वेदनेति, एवं पृथिवीजीवानामपि द्रष्टव्यमिति । पृथिवीकायिकानां जीवत्वं | प्रसाध्य तथा नानाविधशस्त्रसंपाते वेदनां चाविर्भाव्य अधुना तद्वधे बन्धं दर्शयितुमाह
एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवति, तं परिण्णाय मेहावी नेव सयं पुढविसत्थं समारंभेज्जा णेवपणेहिं पुढविसत्थं समारंभावेजा, णेवणे पुढविसत्थं समारंभंते समजाणेज्जा, जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति से हुमणी परिण्णातकम्मेत्ति बेमि ( सू० १७ ) इति द्वितीय उद्देशकः ॥
'अत्र' पृथिवीकाये 'श' द्रव्यभावभिन्नं, तत्र द्रव्यशस्त्रं स्वकायपरकायोभयरूपं, भावशस्त्रं त्वसंयमो दुष्प्रणिहितमनोवाक्कायलक्षणः, एतद्विविधमपि शस्त्रं समारभमाणस्येति 'एते' खननकृष्याद्यात्मकाः समारम्भाः बन्धहेतुत्वेन 'अपरिज्ञाता' अविदिता भवन्ति, एतद्विपरीतस्य परिज्ञाता भवन्तीति दर्शयितुमाह - 'एत्थे' त्यादि, 'अत्र' पृथिवीकाये द्विविधमपि शस्त्रम् 'असमारभमाणस्य' अव्यापारयत इति, 'एते' प्रागुक्ताः कर्मसमारम्भाः 'परिज्ञाता' विदिता भ
१ चेतनेति. २ प्रतिपादयन् ३ ०तीति.
वन्ति, अनेन च विरत्यधिकारः प्रतिपादितो भवतीति तामेव विरतिं स्वनामग्राहमाह - 'त' मित्यादि, तं पृथिवीकायसमारम्भे बन्धं परिज्ञाय असमारम्भे वाडबन्धमिति 'मेधावी' कुशलः एतत् कुर्यादिति दर्शयति-नैव पृथिवीशस्त्रं | द्रव्यभावभिन्नं समारभेत, नापि तद्विषयोऽन्यैः समारम्भः कारयितव्यः, न चान्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयात् इति, एवं मनोवाक्कायकर्मभिरतीतानागतकालयोरप्यायोजनीयमिति, ततश्चैवं कृतनिवृत्तिरसौ मुनिरिति व्यपदिश्यते, न शेष इति दर्शयन्नुपसञ्जिहीर्षुराह - 'यस्य' विदितपृथिवीजीववेदनास्वरूपस्य, 'एते' पृथिवीविषयाः कर्म्म| समारम्भाः खनन कृप्याद्यात्मकाः कर्मबन्धहेतुत्वेन परिज्ञाता भवन्ति ज्ञपरिज्ञया तथा प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, हुरवधारणे, स एव मुनिर्द्विविधयाऽपि परिज्ञया परिज्ञातं कर्म - सावद्यानुष्ठानमष्टप्रकारं वा कर्म येन स परिज्ञातकर्मा, नापरः शाक्यादिः, ब्रवीमि पूर्ववदिति शस्त्रपरिज्ञायां द्वितीय उद्देशकः समाप्तः ॥
गतः पृथिव्युद्देशकः, साम्प्रतमप्कायोद्देशकः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशके पृथिवीकायजीवाः प्रतिपादितास्तद्वधे बन्धो विरतिश्च, साम्प्रतं क्रमायातस्यापूकायस्य जीवत्वं तद्वधे बन्धो विरतिश्च प्रतिपाद्यते इति, अनेन सम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, तत्र नामनिष्पन्ने निक्षेपे अपकायोद्देशकः, तत्र पृथिवी काय जीवस्वरूपसमधिगतये यानि नव निक्षेपादीनि द्वाराण्युक्तानि, अपकायेऽपि तान्येव समानतयाऽतिदेष्टुकामः कानिचिद्विशेषाभिधित्सयोद्धर्तुकामश्च नियुक्तिकारो गाथामाह
आउस्सवि दाराई ताई जाई हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥ १०६ ॥
Jain Education International
For Private Personal Use Only
अध्ययनं १ उद्देशकः २
॥ ३८ ॥
अध्ययनं ? उद्देशकः २
॥ ३९ ॥
www.jainelibrary.org