________________
35
एवं च सत्यात्मवत्प्रसाधितमग्निलोकं यः प्रत्याचक्षीत सोऽतिसाहसिक आत्मानमभ्याख्याति-निराकरोति, यश्चात्माभ्याख्यानप्रवृत्तः स सदैवाग्निलोकमभ्याख्याति, सामान्यपूर्वकत्वाद्विशेषाणां, सति ह्यात्मसामान्ये पृथिव्याद्यात्मविभागः |सिद्ध्यति, नान्यथा, सामान्यस्य विशेषव्यापकत्वात् , व्यापकविनिवृत्तौ च व्याप्यस्याप्यवश्यंभाविनी विनिवृत्तिरिति-|| कृत्वा । एवमयमग्निलोकः सामान्यात्मवन्नाभ्याख्यातव्य इति प्रदर्शितम् , अधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विपयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह
जे दीहलोगसत्थस्स खेयपणे से असत्यस्स खेयपणे जे असत्थस्स खेयपणे से दीह
लोगसत्थस्स खेयपणे (सू०३२) 'य' इति मुमुक्षुदीर्घलोको-वनस्पतिर्यस्मादसौ कायस्थित्या परिमाणेन शरीरोच्छ्रयेण च शेषेकेन्द्रियेभ्यो दीर्घो वर्तते, तथाहि-कायस्थित्या तावत् 'वणस्सइकाइए णं भंते ? वणस्सइकाइएत्ति कालओ केवञ्चिरं होइ ?, गोयमा ! अणंतं कालं अणंताओ उस्सप्पिणिअवसप्पिणिओ खेत्तओ अणंता लोया असंखेज्जा पोग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आव. लियाए असंखेज्जइभागे' परिमाणतस्तु 'पर्दुप्पन्नवणस्सइकाइयाणं भंते ! केवतिकालस्स निल्लेवणा सिया?, गोयमा!
१ वनस्पतिकायो भदन्त ! वनस्पतिकाय इति कालतः कियचिरं भवति !, गौतम ! अनन्तं कालम् , अनन्ता उत्सर्पिण्यवसर्पिण्यः, क्षेत्रतोऽनन्ता लोकाः, असंख्येयाः पुद्गलपरावर्ताः, ते पुद्गलपरावर्ती आवलिकाया असोये भागे. २ प्रत्युत्पन्नवनस्पतिकायिकानां भदन्त! कियता कालेन निलेपना स्यात् १, गीतम!
प्रत्युत्पन्नवनस्पतिकायिकानां नास्ति निलेपना. श्रीआचा- पडुप्पन्नवणस्सइकाइयाणं नत्थि निल्लेवणा' तथा शरीरोच्छ्याच्च दीर्घो वनस्पतिः 'वणस्सइकाइयाणं भंते ! के महालिया अध्ययनं १ राङ्गवृत्तिः र सरीरोगाहणा पण्णत्ता ?, गोयमा! साइरेगं जोयणसहस्सं सरीरोगाहणा' न तथाऽन्येषामेकेन्द्रियाणाम् , अतः स्थित(शी०) मेतत्-सर्वथा दीर्घलोको वनस्पतिरिति, अस्य च शस्त्रमग्निः, यस्मात्स हि प्रवृद्धज्वालाकलापाकुलः सकलतरुगणप्रध्वं.
उद्देशकः४ सनाय प्रभवति, अतोऽसौ तदुत्सादकत्वाच्छस्त्रं, ननु च सर्वलोकप्रसिद्ध्या कस्मादग्निरेव नोक्तः?, किं वा प्रयोजनमुर-16 ॥५२॥
रीकृत्योक्तं दीर्घलोकशस्त्रमिति, अत्रोच्यते, प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत्कृतमिति, यस्मादयमुत्पाद्यमानो ज्वाल्यमानो वा हव्यवाहः समस्तभूतग्रामघाताय प्रवर्तते, वनस्पतिदाहप्रवृत्तस्तु बहुविधसत्त्वसंहतिविनाशकारी विशेपतः स्यात् , यतो वनस्पतौ कृमिपिपीलिकाभ्रमरकपोतश्वापदादयः सम्भवन्ति, तथा पृथिव्यपि तरुकोटरव्यवस्थिता स्यात्, आपोऽप्यवश्यायरूपाः, वायुरपीपच्चञ्चलस्वभावकोमलकिशलयानुसारी सम्भाव्यते, तदेवमग्निसमारम्भप्रवृत्तः एतावतो जीवान्नाशयति, अस्यार्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणमकरोत् सूत्रकार इति, तथा चोक्तम्-"जायतेयं न इच्छन्ति, पावगं जलइत्तए । तिक्खमन्नयरंसत्थं, सव्वओऽवि दुरासयं ॥ १ ॥ पाईणं पडिणं वावि, उ8 अणुदि|सामवि । अहे दाहिणओ वावि, दहे उत्तरओऽवि य ॥२॥ भूयाणमसमाधाओ, हववाहो न संसओ। तं पईवपयावठा, १ वनस्पतिकायिकानां भदन्त ! का महती शरीरावगाहना प्रज्ञप्ता !, गौतम ! सातिरेक योजनसहस्र शरीरावगाहना. २ जाततेजसं नेच्छन्ति पावकं ज्वल
X ॥५२॥ यितुम् । तीक्ष्णमन्यतरत् शत्रं सर्वतोऽपि दुराश्रयम् ॥ १॥ प्राचीनं प्रतीचीनं वापि ऊर्ध्वमनुदिक्ष्वपि । अधो दक्षिणतो वापि दहति उत्तरतोऽपि च ॥२॥ भूतानामेप आघातो हव्यवाहो न संशयः । तत् प्रदीपप्रतापाथै संयतः किश्चित्रारभेत ॥ ३ ॥ संजओ किंचि नारभे॥ ३ ॥" अथवा बादरतेजस्कायाः पर्याप्तकाः स्तोकाः, शेषाः पृथिव्यादयो जीवकाया बह्वः, भवस्थितिरपि त्रीण्यहोरात्राणि स्वल्पा इतरेषां पृथिव्यब्वायुवनस्पतीनां यथाक्रमं द्वाविंशतिसप्तत्रिदशवर्षसहस्रपरिमाणा दीर्घा अवसेया इति, अतो दीर्घलोकः-पृथिव्यादिस्तस्य शस्त्रम्-अग्निकायस्तस्य 'क्षेत्रज्ञो निपुणः अग्निकार्य वर्णादितो जानातीत्यर्थः, 'खेदज्ञो वा' खेदः-तद्व्यापारः सर्वसत्त्वानां दहनात्मकः पाकाधनेकशक्तिकलापोपचितः प्रवरमणिरिव जाज्वल्यमानो लब्धाग्निव्यपदेशः यतीनामनारम्भणीयः, तमेवंविधं खेदम्-अग्निव्यापार जानातीति खेदज्ञः, अतो य एव दीर्घलोकशस्त्रस्य खेदज्ञः स एव 'अशस्त्रस्य' सप्तदशभेदस्य संयमस्य खेदज्ञः, संयमो हि न कश्चिजीव व्यापादयति अतोऽशस्त्रम् , एवमनेन संयमेन सर्वसत्त्वाभयप्रदायिनाऽनुष्ठीयमानेनाग्निजीवविषयः समारम्भः शक्यः परिहतु पृथिव्यादिकायसमारम्भश्चेत्येवमसौ संयमे निपुणमतिर्भवति, ततश्च निपुणमतित्वाद्विदितपरमार्थोऽग्निसमारम्भाद्यावृत्य संयमानुष्ठाने प्रवर्त्तते । इदानीं गतप्रत्यागतलक्षणेनाविनाभावित्वप्रदर्शनार्थ विपर्ययेण सूत्रावयवपरामर्श करोति-'जे असत्थस्से' त्यादि, यश्चाशस्त्रे-संयमे निपुणः स खलु दीर्घलोकशस्त्रस्य-अग्नेः क्षेत्रज्ञः खेदज्ञो वा, संयमपूर्वकं ह्यग्निविषयखेदज्ञत्वम्, अग्निविषयखेदज्ञतापूर्वकं च संयमानुष्ठानम्, अन्यथा तदसम्भव एवेत्येतद्गतप्रत्यागतफलमाविर्भावित भवति ॥ कैः पुनरिदमेवमुपलब्धमित्यत आह-'वीरेही गादि, अथवा सद्वक्तप्रसिद्धौ सत्यां वाक्यप्रसिद्धिर्भवतीत्यत उपदिश्यते
वीरेहिं एयं अभिभूय दिटुं, संजएहिं सया जत्तेहिं सया अप्पमत्तेहिं (सू० ३३)
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org