________________
10
ॐ45454
उद्देशक
'इति' एतदहं ब्रवीमि यत्प्रागुक्तं यच्च वक्ष्ये तत्सर्व भगवदन्तिके साक्षात् श्रुत्वेति शस्त्रपरिज्ञायां प्रशमोद्देशकः समाप्तः॥
उक्तः प्रथमोद्देशकः साम्प्रतं द्वितीयः प्रस्तूयते-अस्य चायमभिसम्बन्धः-प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसा-181 |धितम् , इदानीं तस्यैवेकेन्द्रियादिपृथिव्याद्यस्तित्वप्रतिपिपादयिषयाऽऽह-यदिवा प्राक् परिज्ञातकर्मत्वं मुनित्वकारणमुपादेशि, यः पुनरपरिज्ञातकर्मत्वान्मुनिर्न भवति-विरतिं न प्रतिपद्यते स पृथिव्यादिषु बम्भ्रमीति, अथ क एते पृथिव्यादय इत्यतस्तद्विशेषास्तित्वज्ञापनार्थमिदमुपक्रम्यत इति । अनेनाभिसम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपे पृथिव्युद्देशक इति, तत्रोद्देशकस्य निक्षेपादेरन्यत्र प्रतिपादितत्वान्नेह प्रदर्श्यते, पृथिव्यास्तु यन्निक्षेपादि सम्भवति तन्नियुक्तिकृद्दर्शयितुमाह
पुदवीए निकखेवो परूवणालक्खणं परीमाणं । उवभोगो सत्थं वेयणा य वहणा निवित्तीय ॥६८।। प्राग् जीवोद्देशके जीवस्य प्ररूपणा किं न कृतेत्येतच नाशङ्कनीयं, यतो जीवसामान्यस्य विशेषाधारत्वात् विशेषस्य च पृथिव्यादिरूपत्वात् सामान्यजीवस्य चोपभोगादेरसम्भवात् पृथिव्यादिचर्चयैव तस्य चिन्तितत्वादिति । तत्र पृथिव्या. नामादिनिक्षेपो वक्तव्यः, प्ररूपणा-सूक्ष्मवादरादिभेदा, लक्षणं-साकारानाकारोपयोगकाययोगादिक, परिमाण-संवर्तितलोकप्रतरासंख्येयभागमात्रादिकम् , उपभोगः-शयनासनचक्रमणादिकः, शस्त्र-स्नेहाम्लक्षारादि, वेदना-स्वशरीराव्यक्तचेतनानुरूपा सुखदुःखानुभवस्वभावा, वधः-कृतकारितानुमतिभिरुपमईनादिकः, निवृत्तिः-अप्रमत्तस्य मनोवाक्कायगु
स्याऽनुपमर्दादिकेति समासार्थः । व्यासार्थ तु नियुक्तिकृद्यथाक्रममाहश्रीआचा- नामंठवणापुढवी दवपुढवी य भावपुढवी य । एसो खलु पुढवीए निक्खवो चउविहो होइ ॥११॥ अध्ययन राङ्गवृत्तिः स्पष्टा, नामस्थापने क्षुण्णत्वादनादृत्याह(शी०) व्वं सरीरभविओ भावेण य होइ पुढविजीवो उ । जो पुढविनामगोयं कम्मं वेएइ सो जीवो ॥७॥
त द्रव्यपृथिवी आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु पृथिवीपदार्थज्ञस्य शरीरं ॥२८॥
जीवापेतं तथा पृथिवीपदार्थज्ञत्वेन भव्यो-बालादिस्ताभ्यां विनिर्मुक्तो द्रव्यपृथिवीजीवः-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, भावपृथिवीजीवः पुनर्यः पृथिवीनामादिकर्मोदीणे वेदयति । गतं निक्षेपद्वारं, साम्प्रतं प्ररूपणाद्वारम्
दुविहा य पुढविजीवा मुहुमा तह पायरा य लोगंमि । सुहुमा य सव्वलोए दो चेव य थायरविहाणा ॥७॥ NI पृथिवीजीचा द्विविधाः-सूक्ष्मा वादराश्च, सूक्ष्मनामकर्मोदयात् सूक्ष्माः, बादरनामकर्मोदयात्तु बादराः, कर्मोदयजनिते एवैषां सूक्ष्मबादरत्वे न त्वापेक्षिके बदरामलकयोरिव ।। तत्र सूक्ष्माः समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत् सर्वलोकव्यापिनः, बादरास्तु मूलभेदाद्विविधा इत्याह
दुविहा बायरपुढवी समासओ सहपुढवि खरपुढवी । सण्हा य पंचवण्णा अवरा छत्तीसइविहाणा ॥७२॥ ___ 'समासत:' संक्षेपाद्विविधा वादरपृथिवी-श्लक्ष्णबादरपृथिवी खरबादरपृथिवी च, तत्र श्लक्ष्णबादरपृथिवी कृष्णनीललोहितपीतशुक्लभेदात्पश्चधा, इह च गुणभेदाद्गणिभेदोऽन्युपगन्तव्यः, खरबादरपृथिव्यास्त्वन्येऽपि पत्रिंशद्विशेषभेदाः IR२८॥ सम्भवन्तीति ॥ तानाह. पुढवी य सकरा वालुगा य उवले सिला य लोणूसे । अय तंब तउअसीसग रुप्प सुवणे य वइरे य॥७३॥ हरियाले हिंगुलए मणोसिला सासगंजण पवाले। अन्भपडलम्भवालुअ बायरकाए मणिविहाणा ॥ ७४॥ गोमेज्जए य रुयगे अंको फलिहे य लोहियक्खे य । मरगय मसारगल्ले भुयमोयग इंदनीले य॥७॥ चंदप्पह बेरुलिए जलकते चेव सूरकन्ते य । एए खरपुढवीए नामं छत्तीसयं होइ ॥ ७६ ॥
अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्दश भेदाः परिगृहीताः, द्वितीयगाथया त्वष्टौ हरितालादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारश्चन्द्रकान्तादयः । अत्र च पूर्वगाथाद्वयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, उत्त
रगाथाद्वयन मणिभेदाः प्रदर्शिताः, एताः स्पष्टा इति कृत्वा न विवृताः॥ एवं सूक्ष्मबादरभेदान् प्रतिपाद्य पुनर्वर्णादितभेदेन पृथिवीभेदान् दर्शयितुमाह__वण्णरसगंधफासे जोणिप्प हा भवंति संखेजा। णेगाइ सहस्साई इंति विहाणमि इकिके ॥ ७७ ॥
तत्र वर्णाः शुक्लादयः पञ्च रसास्तिक्तादयः पञ्च गन्धौ सुरभिदुरभी स्पर्शाः मृदुकर्कशादयः अष्टौ, तत्र वर्णादिके एकैकस्मिन् 'योनिप्रमुखा' योनिप्रभृतयः संख्यया भेद भवन्ति, संख्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह-अनेकानि सहस्राणि एकैकस्मिन् वर्णादिके 'विधाने' भेदे भवन्ति, योनितो गुणतश्च भेदानामिति । एतच्च सप्तयोनिलक्षप्रमाणत्वात
१ चंदण गेश्य हंसग भुयमोय मसारगल्ले य प्र.
४
१.4-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org