________________
श्रीआचाराङ्गवृत्तिः (शी० )
॥ २९ ॥
श्रीआचा राङ्गवृत्तिः
(शी० )
॥ ३० ॥
20
पृथिव्या एवं सम्भावनीयमिति । उक्तं च प्रज्ञापनायाम् - "तेत्थ णं जे ते पज्जत्तगा एएसि णं वण्णादेसेणं गंधादेसेणं | रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेज्जाई जोणिपमुहसय सहस्साई पज्जत्तयणिस्साए अपज्जत्तया वक्कमंति, तं जत्थेगो तत्थ नियमा असंखेज्जा, से त्तं खरबायरपुढविकाइया" इह च संवृतयोनयः पृथिवीकायिका उक्ताः, सा पुनः सचित्ता अचित्ता मिश्रा वा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति ॥ एतदेव भूयो निर्युक्तिकृत्
स्पष्टतरमाह
avita य इyिa गंधंमि रसंमि तह य फासंमि । नाणत्ती कायव्वा विहाणए होइ इक्किकं ॥ ७८ ॥ वर्णादिके एकैकस्मिन् 'विधाने' भेदे सहस्राग्रशो नानात्वं विधेयं, तथाहि - कृष्णो वर्ण इति सामान्यं तस्य च भ्र | मराङ्गार कोकिलगवलकज्जलादिषु प्रकर्षाप्रकर्षविशेषाद्भेदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलादिष्वप्यायोज्यं, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगाद्धूसर के सर कर्बुरादिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य वर्णादीनां प्रत्येकं प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्याः ॥ पुनरपि पर्याप्तकादिभेदादे
दमाह
जे बायरे विहाणा पचता तत्तिआ अपजता । सुहुमावि हुंति दुविहा पज्जत्ता चेव अपज्ञन्ता ॥ ७९ ॥
१ भावनीयमिति प्र. २ तत्र ये से पर्याप्तकाः एतेषां वर्णादेशेन गन्धमदेशेन रसादेशेन स्पर्शादेशेन सहस्राग्रशो विधानानि संख्येयानि योनिप्रमुखानि शतसहस्राणि पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति तद् यत्रैकस्तत्र नियमादसंख्येयाः इत्येते खरबादरपृथ्वीकायिकाः.
यानि बादरपृथिवीकाये 'विधानानि' भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि, अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानां यत एकपर्याप्तकाश्रयेणा संख्येया अपर्याप्तका भवन्ति, सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव, किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते यत्र चैकोऽपर्याप्त कस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः । पर्यानिस्तु 'आहारसरीरिन्दियऊसासव ओमणोऽहिनिव्वन्त्ती । होति जतो दलियाओ करणं पइ सा उ पज्जत्ती ॥ १ ॥' जन्तुरुपद्यमानः पुद्गलोपादानेन करणं निर्वर्त्तयति तेन च करणविशेषेणाहारमवगृह्य पृथग् खलरसादिभावेन परिणतिं नयति स तादृकरणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपि वाच्याः, तत्रैकेन्द्रियाणामाहारशरीरेन्द्रियोच्छ्वासाभिधानाश्चतस्रो भवन्ति, एताश्चान्तर्मुहूर्त्तेन जन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तको वाप्तपर्याप्तिस्तु पर्याप्तक इति, अत्र च पृथिव्यंव कायो येषामिति विग्रहः ॥ यथा सूक्ष्मबादरादयो भेदाः सिद्ध्यन्ति तथा प्रसिद्धभेदेनोदाहरणेन दर्शयितुमाह-
रुक्खाणं गुच्छाणं गुम्माण लयाण वल्लिवलयाणं । जह दीसह नाणसं पुढवीकाए तहा जाण ॥ ८० ॥ यथा वनस्पतेर्वृक्षादिभेदेन स्पष्टं नानात्वमुपलभ्यते, तथा पृथिवीकायिकेऽपि जानीहि तत्र वृक्षा:- चूतादयो गुच्छावृन्ताकीसल्लकीकपस्यादयः, गुल्मानि-नवमालिकाकोरण्टकादीनि, लताः - पुन्नागाशोकलताद्याः, वह्न्यः - त्रपुपीवालुङ्कीकोशातक्याद्याः, वलयानि - केतकीकदल्यादीनि ॥ पुनरपि वनस्पतिभेददृष्टान्तेन पृथिव्या भेदमाह-
१ आहारः शरीरमिन्द्रियाणि उच्छ्वासो वचः मनः (एषां ) अभिनिर्वृत्तिः । भवति यतो दलिकात् करणं प्रति सैव पर्याप्तिः ॥ १ ॥
ओसहि तण सेवाले पणगविहाणे य कंद मूले य । जह दीसह नाणसं पुढवीकाए तहा जाण ॥ ८१ ॥ यथा हि वनस्पतिकायस्य ओषध्यादिको भेद एवं पृथिव्या अपि द्रष्टव्यः, तत्र ओषध्यः - शाल्याचाः, तृणानि -दर्भा दीनि, सेवालं- जलोपरि मलरूपं, पनकः काष्ठादावुल्लीविशेषः पञ्चवर्णः कन्दः - सूरणकन्दादिः, मूलम् - उशीरादीति ॥ एते च सूक्ष्मत्वान्नैकद्व्यादिकाः समुपलभ्यन्ते, यत्संख्यास्तुपलम्भ्यन्ते तद्दर्शयितुमाह
इकस्स दुण्ह तिन्ह व संखिजाण व न पासिउं सका। दीसंति सरीरा पुढविजियाणं असंखाणं ॥ ८२ ॥ स्पष्टा ॥ कथं पुनरिदमवगन्तव्यम् ?, सन्ति प्रथिवीकायिका इति उच्यते, तदधिष्ठितशरीरोपलब्धेः अधिष्ठातरि प्रतीतिर्गवाश्वादाविव इति एतद्दर्शयितुमाह
एएहिँ सरीरे हिं पञ्चकखं ते परूविया हुंति । सेसा आणागिज्झा चक्खुफासं न जं इंति ॥ ८३ ॥
'एभिः' असंख्येयतयोपलभ्यमानैः पृथिवीशर्करादिभेदभिन्नैः शरीरैस्ते शरीरिणः शरीरद्वारेण 'प्रत्यक्षं' साक्षात् 'प्ररूपिताः ख्यापिता भवन्ति, शेषास्तु सूक्ष्मा आज्ञाग्राह्या एव द्रष्टव्याः, यतस्ते चक्षुःस्पर्श नागच्छन्ति, स्पर्शशब्दो विषयार्थः ॥ प्ररूपणाद्वारानन्तरं लक्षणद्वारमाह
उवओगजोग अज्झवसाणे मइसुय अचक्खुदंसे य । अट्ठविहोदयलेसा सन्नुस्सा से कसाया य ॥ ८४ ॥ तत्र पृथिवीकायादीना स्त्यानर्ध्याद्युदयाद्या च यावती चोपयोगशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगो लक्षणं, तथा योगः - कायाख्य एक एव औदारिकतन्मिश्रकार्म्मणात्मको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्यालम्बनाय
Jain Education International
For Private Personal Use Only
अध्ययनं१
उद्देशकः २
॥ २९ ॥
अध्ययनं १
उद्देशकः २
॥ ३० ॥
www.jainelibrary.org