________________
18
अध्ययनं १
श्रीआचा- श्रवेषु जीवितोपमर्दादिरूपेषु प्रवर्तन्ते, तथाऽस्यैव जीवितस्य परिवन्दनमाननपूजनार्थ हिंसादिषु प्रवर्तन्ते, तत्र 'परि राङ्गवृत्तिः बन्दनं' संस्तवः प्रशंसा तदर्थमाचेष्टते, तथाहि-अहं मयूरादिपिशिताशनादली तेजसा देदीप्यमानो देवकुमार इव (शी.) लोकानां प्रशंसास्पदं भविष्यामीति 'माननम्' अभ्युत्थानासनदानाञ्जलिप्रग्रहादिरूपं तदर्थ वा चेष्टमानः कर्माचि
नोति तथा पूजनं पूजा-द्रविणवस्त्रानपानसत्कारप्रणामसेवाविशेषरूपं तदर्थ च प्रवर्त्तमानः क्रियासु कर्माश्रवैरात्मानं ॥२६॥
सम्भावयति, तथाहि-वीरभोग्या वसुन्धरे'ति मत्वा पराक्रमते, दण्डभयाच्च सर्वा प्रजा बिभ्यतीति दण्डयति, इत्येवं राज्ञामन्येषामपि यथासम्भवमायोजनीयम् , अत्र च वन्दनादीनां द्वन्द्वसमासं कृत्वा तादयें चतुर्थी विधेया, परिव-| न्दनमाननपूजनाय जीवितस्य कर्माश्रवेषु प्रवर्त्तन्त इति समुदायार्थः । न केवलं परिवन्दनाद्यर्थमेव कर्मादत्ते, अन्यार्थमप्यादत्त इति दर्शयति-जातिश्च मरणं च मोचनं च जातिमरणमोचनमिति समाहारद्वन्द्वात्तादर्थे चतुर्थी, एतदर्थं च प्राणिनः क्रिया प्रवर्त्तमानाः कर्माददते, तत्र जात्यर्थ क्रौञ्चारिवन्दनादिकाः क्रिया विधत्ते, तथा यान् यान् कामान् ब्राह्मणादिभ्यो ददाति तांस्तानन्यजन्मनि पुनर्जातो भोक्ष्यते, तथा मनुनाऽप्युक्तम्-“वारिदस्तृप्तिमामोति, सुखमक्षयमन्नदः । तिलप्रदः प्रजामिष्टामायुष्कमभयप्रदः ॥ ११॥" अत्र चैकमेव सुभाषितम्-'अभयप्रदान'मिति तुषमध्ये कणिकावदिति, एवमादिकुमार्गोपदेशाद्धिसादौ प्रवृत्तिं विदधाति । तथा मरणार्थमपि पितृपिण्डदानादिषु क्रियासु प्रवतते , यदिवा ममानेन सम्बन्धी व्यापादितस्तस्य वैरनिर्यातनार्थ वधबन्धादौ प्रवर्त्तते, यदिवा मरणनिवृत्त्यर्थमात्मनो
१ कार्तिकेयः. दुगाधुपयाचितमजादिना वलिं विधत्ते यशोधर इव पिष्टमयकुक्कुटेन, तथा मुक्त्यर्थमज्ञानावृतचेतसः पञ्चाग्नितपोऽनुष्ठानादिकेषु प्राण्युपमईकारिषु प्रवर्त्तमानाः कर्माददते, यदिवा जातिमरणयोर्विमोचनाय हिंसादिकाः क्रियाः कुर्वते । 'जाइभरणभोयणाए'त्ति वा पाठान्तरं, तत्र भोजनार्थ कृष्यादिकर्मसु प्रवर्त्तमाना वसुधाजलज्वलनपवनवनस्पतिद्वित्रिचतुप्पञ्चेन्द्रियव्यापत्तये व्याप्रियन्त इति । तथा दुःखप्रतिघातमुररीकृत्यात्मपरित्राणार्थमारस्नानासेवन्ते, तथाहि-व्याधिवेदनात लावकपिशितमदिराद्यासेवन्ते, तथा वनस्पतिमूलत्वपत्रनिर्यासादिसिद्धशतपाकादितैलार्थमन्यादिसमारम्भेण पापं कुर्वन्ति स्वतः कारयन्त्यन्यैः कुर्वतोऽन्यान् समनुजानत इत्येवमतीतानागतकालयोरपि मनोवाकाययोगैः कर्मादानं विदधतीत्यायोजनीयम् । तथा दुःखप्रतिघातार्थमेव सुखोपत्त्यर्थ च कलत्रपुत्रगृहोपस्कराद्याददते, तल्लाभपालनार्थं च तासु तासु क्रियासु प्रवर्त्तमानाः पापकर्मासेवन्त इति. कच-"आदौ प्रतिष्ठाऽधिगमे प्रयासो, दारेषु पश्चागृहिणः सुतेषु । कर्तुं पुनस्तेषु गुणप्रकर्ष, चेष्टा तदुच्चैःपदलङ्घनाय ॥१॥” तदेवंभूतैः क्रियाविशेषैः कर्मोपादाय नानादिश्वनुसञ्चरन्ति अनकरूपासु च योनिषु सन्धावन्ति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयन्ति, इत्येतज्ज्ञात्वा क्रियाविशेषनिवृत्तिविधेयेति ॥ ११ ॥ एतावन्त एव च क्रियाविशेषा इति दर्शयितुमाह
एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति (सू०१२) _ 'एआवन्ती 'सव्यावन्तीति एतौ द्वौ शब्दौ मागधदेशीभाषाप्रसिद्ध्या एतावन्तः सर्वेऽपीत्येतत्पर्यायौ, एतावन्त एव
१ मोक्षाया प्र. श्रीआचा
सर्वस्मिन् 'लोके' धर्माधर्मास्तिकायावच्छिन्ने नभःखण्डे ये पूर्व प्रतिपादिताः 'कर्मसमारम्भाः' क्रियाविशेषाः, नैतेभ्योरावृत्तिः
|ऽधिकाः केचन सन्तीत्येवं परिज्ञातव्या भवन्ति, सर्वेषां पूर्वत्रोपादानादिति भावः तथाहि-आत्मपरोभयहिकामुष्मिका(शी०)
तीतानागतवर्तमानकालकृतकारितानुमतिभिरारम्भाः क्रियन्ते, ते च सर्वेऽपि प्रागुपात्ता यथासम्भवमायोज्या इति
॥ १२ ॥ एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमईकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदोपसंहारद्वारेण ॥२७॥ है विरतिं प्रतिपादयन्नाह
जस्सेते लोगसि कम्मसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे
(सू० १३) तिबेमि ॥ प्रमथोद्देशकः १॥ भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह-'यस्य' मुमुक्षोः 'एते' पूर्वोक्ताः 'कर्मसमारम्भाः' क्रियाविशेषाः कर्मणो वा-ज्ञानावरणीयाधष्टप्रकारस्य समारम्भा-उपादानहेतवस्ते च क्रियाविशेषा एव, परि-समन्तात् ज्ञाताः -परिच्छिन्नाः कर्मबन्धहेतुत्वेन भवन्ति, हुरवधारणे, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः स एव मुनिजपरिज्ञया परिज्ञातकर्मा प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकर्मबन्धहेतुभूतसमस्तमनोवाक्कायव्यापार इति, अनेन || च मोक्षाङ्गभूते ज्ञानक्रिये उपात्ते भवतो, न ह्याभ्यां विना मोक्षो भवति, यत उक्तम्-"ज्ञानक्रियाभ्यां मोक्ष" इति । इतिशब्द एतावानवमात्मपदार्थविचारः कर्मबन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इति प्रदर्शकः, यदिवा
4%AAAAAACAKACAAACHANKHORAKHNAACHARYANA
अध्ययन
उद्देशका
सर्वेऽपि प्रागुपात आत्मपरोभयहिकामणिभ्यो
तदुपमईकारिणा
॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org