SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 17 पनिपाताननुभवतीत्युक्तं भवति, स्पर्शभ्रहणं चेह सर्वसंसारान्तर्वर्तिजीवराशिसङ्ग्रहार्थ, स्पर्शनेन्द्रियस्य सर्वजीवव्यापित्वाद्, अत्रेदमपि वक्तव्यं-सर्वान्विरूपरूपान् रसगन्धरूपशब्दान् प्रतिसंवेदयतीति, विरूपरूपत्वं च स्पर्शानां कार्यभूतानां विचित्रकर्मोदयात्कारणभूताद्भवतीति वेदितव्यं, विचित्रकर्मोदयाच्चापरिज्ञातकर्मा संसारी स्पर्शादी|न्विरूपरूपांस्तेषु तेषु योन्यन्तरेषु विपाकतः परिसंवेदयतीति, आह च-"तैः कर्मभिः स जीवो विवशः संसारचक्रमुपयाति । द्रव्यक्षेत्राद्धाभावभिन्नमावर्त्तते बहुशः ॥ ॥ नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च । पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरीराणि ॥ ३ ॥ सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यक्षु भयक्षुत्तधा-18/ दिदुःखं सुखं चाल्पम् ॥ १॥ सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे । सुखमेव हि देवानां दुःखं स्वल्पं च मनसि भवम् ॥ ॥ कर्मानुभावदुःखित एवं मोहान्धकारगहनवति । अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे ॥५॥ दुःखप्रतिक्रियार्थ सुखाभिलाषाच गुनरपि तु जीवः । प्राणिवधादीन् दोषानधितिष्ठति मोहसंछन्नः॥१॥ बनाति ततो बहुविधमन्यत्पुनरपि नवं सुबहु कर्म । तेनाथ पच्यते पुनरग्नेरग्निं प्रविश्येव ॥ ॥एवं कर्माणि पुनः पुनः स| बभंस्तथैव मुश्चंश्च । सुखकामो बहुदुःखं संसारमनादिकं भ्रमति ॥ ॥ एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् ।। संसारमहत्त्वाधार्मिकत्वदुष्कर्मबाहुल्यैः॥ ॥आर्यों देशः कुलरूपसम्पदायुश्च दीर्घमारोग्यम् । यतिसंसर्गः श्रद्धा धर्मश्रवणं च मतितक्ष्ण्यम् ॥ १० ॥ एतानि दुर्लभानि प्राप्तवतोऽपि दृढमोहनीयस्य । कुपथाकुलेऽहंदुक्तोऽतिदुर्लभो था. सू. ५का तत्रे प्र. भीआचा- जगति सन्मार्गः ॥११॥" यदि वा योऽयं पुरुषः सो दिशोऽनुदिशश्चानुसञ्चरति तथाऽनेकरूपा योनीः सन्धावति वि- अध्ययनं १ रावृत्तिः रूपरूपांश्च स्पर्शान् प्रतिसंवेदयति, सः 'अविज्ञातकर्मा' अविज्ञातम्-अविदितं कर्म-क्रिया व्यापारो मनोवाकायलक्षणः, उद्देशकः१ (शी०) अकार्षमहं करोमि करिष्यामीत्येवंरूपः जीवोपमर्दात्मकत्वेन बन्धहेतुः सावधो येन सोऽयमविज्ञातकर्मा, अविज्ञातक मित्वेन च तत्र तत्र कर्मणि जीवोपमर्दादिके प्रवर्त्तते येन येनास्याष्टविधकर्मबन्धो भवति, तदुदयाच्चानेकरूपयोन्यनुस॥२५॥ जधानं विरूपरूपपर्शानुभवश्च भवतीति ॥९॥ यद्येवं ततः किमित्यत आह। तत्थ खलु भगवता परिण्णा पवेइआ (सू०१०) 'तत्र' कर्मणि व्यापारे अकार्षमहं करोमि करिष्यामीत्यात्मपरिणतिस्वभावतया मनोवाकायव्यापाररूपे 'भगवता' वीरवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता, एतच्च सुधर्मस्वामी जम्बूस्वामिनाम्ने कथयति, सा च द्विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, तत्र ज्ञपरिज्ञया सावधव्यापारेण बन्धो भवतीत्येवं भगवता परिज्ञा प्रवेदिता, प्रत्याख्यानपरिज्ञया च सावद्ययोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा चेति ॥ अम्मेवार्थ नियुक्तिकृदाह-- । तत्थ अकारि करिस्संति बंधचिंता कया पुणो होइ । सहसम्मइया जाणइ कोइ पुण हेतुजुत्तीए ॥ ६७॥ 'तत्र' कर्मणि क्रियाविशेषे, किम्भूत इत्याह-'अकारि करिस्संति' अकारीति कृतवान् करिस्सन्ति-करिष्यामीति, अनेनातीतानागतोपादानेन तन्मध्यवर्तिनो वर्तमानस्य कारितानुमत्योचोपसङ्ग्रहान्नवापि भेदा आत्मपरिणामत्वेन योगरूपा उपात्ता द्रष्टव्याः, तत्रानेनात्मपरिणामरूपेण क्रियाविशेषेण 'बन्धचिन्ता कृता भवति' बन्धस्योपादानमुपात भवति, 'कर्म योगनिमित्तं बध्यते' इति वचनात्, एतच्च कश्चिजानाति आत्मना सह या सम्मतिः स्वमतिर्वा-अवधिमनःपर्यायकेवलजातिस्मरणरूपा तया जानाति, कृश्चिच्च पक्षधर्मान्वयव्यतिरेकलक्षणया हेतुयुत्तयेति । अथ किमर्थमसौ कटुकविणकेषु कर्माश्रवहेतुभूतेषु क्रियाविशेषेषु प्रवर्तत इत्याहइमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं (सू० ११) तत्र जीवितमिति-जीवन्त्यनेनायुःकर्मणेति जीवितं-प्राणधारणम् , तच्च प्रतिप्राणि स्वसंविदितमितिकृत्वा प्रत्यक्षासनवाचिनेदमा निर्दिशति, चाब्दो वक्ष्यमाणजात्यादिसमुच्चयार्थः, एवकारोऽवधारणे, अस्यैव जीवितस्यार्थे परिफल्गु-र सारस्य तडिल्लताविलसितचञ्चलस्य बह्वपायस्य दीर्घसुखार्थ क्रियासु प्रवर्त्तते, तथाहि-जीविष्याम्यहमरोगः सुखेन भोगान् भोक्ष्य ततो व्याध्यपनयनार्थ स्नेहापानलावकपिशितभक्षणादिषु क्रियासु प्रवर्त्तते, तथाऽल्पस्य सुखस्य कृते अभिमानग्रहाकुलितचेता बहारम्भपरिग्रहाद्बशुभं कर्मादत्ते, उक्तं च-"द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्याऽऽसनं करिवरस्तुरगो रथो वा । काले भिषग्नियमिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् ॥ १ ॥ पुष्ट्यर्थमन्नमिह | यत्प्रणिधिप्रयोगैः, संत्रासदोषकलुषो नृपतिस्तु भुते । यन्निर्भयः प्रशमसौख्यरतिश्च भैक्षं, तत् स्वादुतां भृशमुपैति न दापार्थिवान्नम् ॥ २॥ भृत्येषु मन्त्रिषु सुतेषु मनोरमेषु, कान्तासु वा मधुमदाङ्करितेक्षणासु । विश्रम्भमेति न कदाचिदपि, लक्षितीशः, सर्वाभिशङ्कितमतेः कतरत्त सौख्यम् ॥ ३ ॥" तदेवमनवबुद्धतरुणकिशलयपलाशचञ्चलजीवितरतयः कर्मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy