________________
19644
12
श्रीआचा- सागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतवर्तमानसर्वाद्धादिव्यवहाररूपः । द्वितीयविकल्पे तु कालादेवा
अध्ययन रावृत्तिः त्मनोऽस्तित्वमभ्युपेयं, किं त्वनित्योऽसाविति विशेषोऽयं पूर्वविकल्पात् २ । तृतीयविकल्पे तु परत एवास्तित्वमभ्युपग-18|
उद्देशकः१ (शी.)
म्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते ?, नन्वेतत्प्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो,
यथा दीर्घत्वापेक्षया इस्वत्वपरिच्छेदो इस्वत्वापेक्षया च दीर्घत्वस्येति, एवमेव चानात्मनः स्तम्भकुम्भादीन् समीक्ष्य त॥१७॥
व्यतिरिक्त वस्तुन्यात्मबुद्धिः प्रवर्त्तत इति, अतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वत इति ३ । चतुर्थविकहैल्पोऽपि प्राग्वदिति चत्वारो विकल्पाः ४। तथाऽन्ये नियतित एवात्मनः स्वरूपमवधारयन्ति, का पुनरियं नियतिरिति,
उच्यते, पदार्थानामवश्यतया यद्यथाभवने प्रयोजककत्री नियतिः, उक्तं च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोडवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥" इयं च मस्करिपरिव्राण्मतानुसारिणी प्राय इति । अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति, कः पुनरयं स्वभावः, वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः, उक्तं च-"कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयलः ॥ १॥ स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः। नाहं कर्तेति भूतानां, यः पश्यति स पश्यति ॥२॥ केनाञ्जितानि नयनानि मृगाङ्गनानां, कोऽलङ्करोति रुचिराङ्गरुहान्मयूरान् । कश्चोखलेषु दलसन्निचयं करोति, को वा दधाति विनयं कुलजेषु पुस्सु ? ॥ ३॥" तथाऽन्येऽभि- MIL१७॥ दधते-समस्तमेतज्जीवादीश्वरात्प्रसूतं, तस्मादेव स्तरूपेऽवतिष्ठते, कः पुनरयमीश्वरः?, अणिमाद्यैश्वर्ययोगादीश्वरा, उक्तं
च-"अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेच्छुभ्र वा स्वर्गमेव वा ॥१॥" तथाऽन्ये ब्रुवते PI-न जीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तर्हि ?, आत्मनः, कः पुनरयमात्मा?, आत्माद्वैतवादिनां | विश्वपरिणतिरूपः, उक्तश्च-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्
॥" तथा-"पुरुष एवेदं सर्व यद्भूतं यच्च भाव्य"मित्यादि । एवमस्त्यजीवः, स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम् ॥ PI तथा अक्रियावादिनो-नास्तित्ववादिनः, तेषामपि जीवाजीवाश्रववन्धसंवरनिर्जरामोक्षाख्याः सप्त पदार्थाः, स्वप
रभेदद्वयेन तथा कालयहच्छानियतिस्वभावेश्वरात्मभिः षनिश्चिन्त्यमानाश्चतुरशीतिविकल्पा भवन्ति, सखथा-नास्ति जीवः स्वतः कालतः नास्ति जीवः परतः कालत इति कालेन द्वौ लब्धौ, एवं यदृच्छानियत्यादिष्वपि द्वौ द्वौ भेदो प्रत्येक भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादि' वपि प्रत्येकं द्वादशैते, सप्त द्वादशकाश्चतुरशीतिरिति ८४ । अयमत्रार्थ:-नास्ति जीवः स्वतः कालत इति, इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा, न चात्मनस्तादृगस्ति किचिल्लक्षणं येन सत्ता प्रतिपद्येमहि, नापि कार्यमणूनामिव महीधादि सम्भवति, यच्च लक्षणकार्याभ्यां नाभिगम्यते वस्तु तन्नास्त्येव, वियदिन्दीवरवत्, तस्मानास्त्यात्मेति । द्वितीयविकल्पोऽपि यच्च स्वतो नात्मानं विभर्ति गगनारविन्दादिकं तत्सरतोऽपि नास्त्येव, अथवा सर्वपदार्थानामेव परभागादर्शनात्सर्वार्वाग्भागसूक्ष्मत्वाच्चोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्वमध्यवसीयते, उकं च-"यावद् दृश्यं परस्तावद्भागः स च न दृश्यते” इत्यादि, तथा यदृच्छा
तोऽपि नास्तित्वमात्मनः, का पुनर्यदृच्छा?, अनभिसन्धिपूर्विकाऽर्थप्राप्तिर्यदृच्छा, “अतर्कितोपस्थितमेव सर्व, चित्रं श्रीआचा- जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥१॥ सत्यं पिशाचाः स्म अध्ययनं १ राङ्गवृत्तिः वने वसामो, भेरिं करात्रैरपि न स्पृशामः । यदृच्छया सिक्ष्यति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति ॥२॥” यथा (शी०) काकतालीयमबुद्धिपूर्वकं, न काकस्य बुद्धिरस्ति-मयि तालं पतिष्यति, नापि तालस्याभिप्रायः-काकोपरि पतिष्यामि, अथ
उद्देशकः१ च तत्तथैव भवति, एवमन्यदप्यतर्कितोपनतमजाकृपाणीयमातुरभेषजीयमन्धकण्टकीयमित्यादि द्रष्टव्यम् , एवं सर्व जातिजरामरणादिकं लोके यादृच्छिकं काकतालीयादिकल्पमवसेयमिति। एवं नियतिस्वभावेश्वरात्मभिरण्यात्मा निराकर्त्तव्यः॥ ___ तथाऽज्ञानिकानां सप्तषष्टिर्भेदाः, ते चामी-जीवादयो नव पदार्था उत्पत्तिश्च दशमी सत् असद् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यः सदसदवक्तव्य इत्येतैः सप्तभिः प्रकारैर्विज्ञातुं न शक्यन्ते न च विज्ञातैः प्रयोजनमस्ति, भावना चेयम्-सन् जीव इति को वेत्ति? किं वा तेन ज्ञातेन?, असन् जीव इति को जानाति ? किं वा तेन ज्ञातेनेत्यादि, एवमजीवादिष्वपि प्रत्येक सप्त विकल्पाः, नव सप्तकास्त्रिषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षि-| प्यन्ते, तद्यथा-सती भावोत्पत्तिरिति को जानाति ? किं वाऽनया ज्ञातया? एवमसती सदसती अवक्तव्या भावोत्पत्तिरिति को वेत्ति ? किं वाऽनया ज्ञातयेति, शेषविकल्पत्रयमुत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न सम्भवतीति नोक्तम् ,
एतच्चतुष्टयप्रक्षेपात्सप्तषष्टिर्भवन्ति । तत्र सन् जीव इति को वेत्ति? इत्यस्यायमर्थः-न कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीहै न्द्रियान जीवादीनवभोत्स्यते, न च तैज्ञातैः किश्चित्फलमस्ति, तथाहि-यदि नित्यः सर्वगतो मूर्तो ज्ञानादिगुणोपेत ॥१८॥
एतद्गुणव्यतिरिक्तो वा ? ततः कतमस्य पुरुषार्थस्य सिद्धिरिति, तस्मादज्ञानमेव श्रेयः । अपि च-तुल्येऽप्यपराधे अका
SCSRASAKARSANSKRA%AA%E4%AA%*
+
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org