________________
धोऽस्ति, संज्ञिनामपि केपाश्चिद्भवति केषाश्चिन्नेति, यथाऽहममुष्या दिशः समागत इहेति । एवमेगेसिं णो णायं भवइत्ति' 'एव' मित्यनेन प्रकारेण, प्रतिविशिष्टदिग्विदिगागमनं नैकेषां विदितं भवतीत्येतदुपसंहारवाक्यम्, एतदेव नियुक्तिकृदाह। केसिंचि नाणसण्णा अस्थि केसिंचि नत्थि जीवाणं । कोऽहं परंमि लोए आसी कयरा दिसाओ वा? ॥६॥
केषाश्चिज्जीवानां ज्ञानावरणीयक्षयोपशमवतां ज्ञानसंज्ञाऽस्ति, केशञ्चित्तु तदावृतिमतां न भवतीति । यादृग्भूता संज्ञा न भवति तां दर्शयति-कोऽहं परस्मिन् 'लोके' जन्मनि मनुष्यादिरासम्, अनेन भावदिग् गृहीता, कतरस्या वा दिशः समायात इत्यनेन तु प्रज्ञापकदिगुपातेति, यथा कश्चिन्मदिरामदपूर्णितलोललोचनोऽव्यक्तमनोविज्ञानो रथ्यामा
निपतितस्तच्छाकृष्टश्वगणापलिह्यमानवदनो गृहमानीतो मदात्यये न जानाति कुतोऽहमागत इति, तथा प्रकृतो मनुप्यादिरपीति गाथार्थः॥ न केवलमेषैव संज्ञा नास्ति अपराऽपि नास्तीति सूत्रकृदाह
अस्थि मे आया उववाइए, नत्थि मे आया उववाइए, के अहं आसी ? के वा इओ
चुए इह पेच्चा भविस्सामि ? (सू०३) ___ 'अस्ति' विद्यते 'ममे'त्यनेन षष्ठ्यन्तेन शरीरं निर्दिशति, ममास्य शरीरकस्याधिष्ठाता, अतति-गच्छति सततगतिप्रवृत्त आत्मा-जीवोऽस्तीति, किंभूतः?-'औपपातिकः' उपपातः-प्रादुर्भावो जन्मान्तरसंक्रान्तिः, उपपाते भव औपपातिक इति,
औपपातिकवृत्त्यभिप्रायेणैम नृतीयसत्राकारणभागः चूर्ण्यभिप्रायेण तु 'भतिस्मामि' इति पर्यन्त उपसंझरः भवति' इति 'तंजहा' इति चाधिकम श्रीआचा
अनेन संसारिणः स्वरूपं दर्शयति, स एवंभूत आत्मा ममास्ति नास्तीति च एवंभूता संज्ञा केषाञ्चिदज्ञानावष्टब्धचेतसा अध्ययनं १ राङ्गवृत्तिः न जायत इति । तथा 'कोऽहं' नारकतिर्यग्मनुष्यादिः पूर्वजन्मन्यासं ?, को वा देवादिः 'इतो' मनुष्यादेर्जन्मनः
उद्देशकः१ (शी०)
'च्युतो' विनष्टः 'इह' संसारे 'प्रेत्य' जन्मान्तरे 'भविष्यामि' उत्पत्स्ये इति, एषा च संज्ञा न भवतीति ॥ इह च यद्यपि सर्वत्र भावदिशाऽधिकारः प्रज्ञापकदिशा च, तथापि पूर्वसूत्रे साक्षात्मज्ञापकदिगुपात्ताऽत्र तु भावदिगित्यवगन्तव्यम् । ननु चात्र संसारिणां दिग्विदिगागमनादिजा विशिष्टा संज्ञा निषिध्यते न सामान्यसंज्ञेति, एतच्च संज्ञिनि धर्मिमण्यात्मनि सिद्धे सति भवति, 'सति धम्मिणि धर्माश्चिन्त्यन्त' इति वचनात्, सच प्रत्यक्षादिप्रमाणगोचरातीतत्वादुरुपपादः, | तथाहि-नासावध्यक्षेणार्थसाक्षात्कारिणा विषयीक्रियते, तस्यातीन्द्रियत्वाद् , अतीन्द्रियत्वं च स्वभावविप्रकृष्टत्वाद्,5|| अतीन्द्रियत्वादेव च तदव्यभिचारिकार्यादिलिङ्गसम्बन्धग्रहणासम्भवात् नाप्यनुमानेन। तस्याप्रत्यक्षत्वे तत्सामान्यग्रहणशक्त्यनुपपत्तेः नाप्युपमानेन, आगमस्यापि विवक्षायां प्रतिपाद्यमानायामनुमानान्तभोवाद् अन्यत्र च बाह्येऽर्थे सम्ब-] न्धाभावादप्रमाणत्वं, प्रमाणत्वे वा परस्परविरोधित्वान्नाप्यागमेन, तमन्तरेणापि सकलार्थोपपत्ते प्यर्थापत्त्या, तदेवं |प्रमाणपश्चकातीतत्वात्षष्ठप्रमाणविषयत्वादभाव एवात्मनः । प्रयोगश्चायम्-नास्त्यात्मा, प्रमाणपश्चकविषयातीतत्वात्, | खरविषाणवदिति, तदभावे च विशिष्टसंज्ञाप्रतिषेधाभावसम्भवेनानुत्थानमेव सूत्रस्येति, एतत्सर्वमनुपासितगुरोर्वचः | तथाहि-प्रत्यक्ष एवात्मा, तद्गणस्य ज्ञानस्य स्वसंवित्सिद्धत्वात्, स्वसंविशिष्ठाश्च विषयब्यवस्थितयो, घटपटादीनामपि ॥ १६ ।। रूपादिगुणप्रत्यक्षत्वादेवाध्यक्षत्वमिति, मरणाभावप्रसङ्गाच न भूतगुणश्चैतन्यमाशङ्कनीय, तेषां सदा सन्निधानसम्भवादिति, हेयोपादेयपरिहारोपादानप्रवृत्तेश्चानुमानेन परात्मनि सिद्धिर्भवतीति, एवमनयैव दिशोपमानादिकमपि स्वधिया स्वविषये यथासम्भवमायोज्यं, केवलं मौनीन्द्रेणानेनैवागमेन विशिष्टसंज्ञानिषेधद्वारेणाहमिति चात्मोल्लेखेनात्मसद्भावः प्रतिपादितः, शेषागमानां चानाप्तप्रणीतत्वादप्रामाण्यमेवेति । अत्र चास्त्यात्मेत्यनेन क्रियावादिनः सप्रभेदा नास्तीत्यनेन चाक्रियावा| दिन एतदन्तःपातित्वाच्चाज्ञानिकवैनयिकाश्च सप्रभेदा उपक्षिप्ताः, ते चामी-'असियसयं किरियाणं अकिरियवाईण होइ
चुलसीई । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥१॥ तत्र जीवाजीवाश्रवबन्धपुण्यपापसंवरनिर्जरामोक्षाख्या नव पदार्थाः स्वपरभेदाभ्यां नित्यानित्यविकल्पद्वयेन च कालनियतिस्वभावेश्वरात्माश्रयणादशीत्युत्तरं भेदशतं भवति क्रिया
वादिनाम् , एते चास्तित्ववादिनोऽभिधीयन्ते, इयमत्र भावना-अस्ति जीवः स्वतो नित्यः कालतः १ अस्ति जीवः स्वतोदानित्यः कालतः २ अस्ति जीवः परतो नित्यः कालतः ३ अस्ति जीवः परतोऽनित्यः कालतः ४ इत्येवं कालेन चत्वारो
भेदा लब्धाः, एवं नियतिस्वभावेश्वरात्मभिरप्येकैकेन चत्वारश्चत्वारो विकल्पा लभ्यन्ते, एते च पञ्च चतुष्कका विंशतिर्भवति, इयं च जीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ प्रत्येकं विंशतिभेदा भवन्ति, ततश्च नव विंशतयः शतमशीत्युत्तरं भवति १८० । तत्र स्वत इति स्वेनैव रूपेण जीवोऽस्ति, न परोपाध्यपेक्षया इस्वत्वदीर्घत्वे इव, नित्यः-शा|श्वतो न क्षणिकः, पूर्वोत्तरकालयोरवस्थितत्वात् , कालत इति काल एव विश्वस्य स्थित्युत्पत्तिप्रलयकारणम्, उक्तं च"कालः पचति भूतानि, कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥१॥" स चातीन्द्रियो युगपच्चिरक्षिप्रक्रियाभिव्यजयो हिमोष्णवर्षाव्यवस्थाहेतुः क्षणलवमुहूर्तयामाहोरात्रमासर्तुअयनसंवत्सरयुगकल्पपल्योपम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org