________________
आ. सू. ४
श्रीआचाराङ्गवृत्तिः (शी० )
॥ १९ ॥
13
मकरणे लोके स्वल्पो दोषो, लोकोत्तरेऽपि आकुट्टिकानाभोगसह साकारादिषु क्षुल्लकभिक्षुस्थविरोपाध्यायसूरीणां यथाक्र| ममुत्तरोत्तरं प्रायश्चित्तमित्येवमन्येष्वपि विकल्पेष्वायोज्यम् ॥ तथा वैनयिकानां द्वात्रिंशद्भेदाः, ते चानेन विधिना | भावनीयाः - सुरनृपयतिज्ञातिस्थ विराधममातृपितृन्वष्टसु मनोवाक्कायप्रदान चतुर्विधविनय करणात्, तद्यथा - देवानां विनयं करोति मनसा वाचा कायेन तथा देशकालोपपन्नेन दानेनेत्येवमादि । एते च विनयादेव स्वर्गापवर्गमार्गमभ्युपयन्ति, नीचैर्वृत्त्यनुत्सेकलक्षणो विनयः, सर्वत्र चैवंविधेन विनयेन देवादिषूपतिष्ठमानः स्वर्गापवर्गभाग भवति, उक्तं च - "विणया णाणं णाणाओ दंसणं दंसणाहि चरणं च । चरणाहिंतो मोक्खो मोक्खे सोक्खं अणाबाहं ॥ १ ॥ " अत्र च क्रियावादिनामस्तित्वे सत्यपि केषाञ्चित्सर्वगतो नित्योऽनित्यः कर्त्ताऽकर्त्ता मूर्तोऽमूर्त्तः श्यामाकतण्डुलमात्रोऽङ्गुष्ठपसर्वमात्रो दीपशिखोपमो हृदयाधिष्ठान इत्यादिकः, अस्ति चौपपातिकश्च, अक्रियावादिनां त्वात्मैव न विद्यते, कुतः पुनरौपपातिकत्वम् ?, अज्ञानिकास्तु नात्मानं प्रति विप्रतिपद्यन्ते, किन्तु तज्ज्ञानमकिञ्चित्कर मेषामिति, वैनयिकानामपि नात्माsस्तित्वे विप्रतिपत्तिः, किन्त्वन्यन्मोक्षसाधनं विनयाहते न सम्भवतीति प्रतिपन्नाः । तत्रानेन सामान्यात्मास्तित्वप्रतिपादनेनाक्रियावादिनो निरस्ता द्रष्टव्याः, आत्मास्तित्वानभ्युपगमे च - " शास्ता शास्त्रं शिष्यः प्रयोजनं वचनहेतुदृष्टान्ताः । सन्ति न शून्यं ब्रुवतस्तदभावाच्चाप्रमाणं स्यात् ॥ १ ॥ प्रतिषेद्धप्रतिषेधौ स्तश्चेच्छ्रन्यं कथं भवेत्सर्वम् ? । तदभावेन तु सिद्धा अप्रतिषिद्धा जगत्यर्थाः ॥ २ ॥ एवं शेषाणामप्यत्रैव यथासम्भवं निराकरणमुत्प्रेक्ष्यमिति ॥ ३ ॥ गतमानुषङ्गिकं,
१ विनयात् ज्ञानं ज्ञानादर्शनं दर्शनात् (ज्ञानदर्शनाभ्यां चरणं च । वरणात् (ज्ञानदर्शनचारित्रेभ्यः) मोक्षो गोक्षे सौख्यमनाबाधम् ॥ १ ॥ प्रकृतमनुत्रियत-तत्रेह 'एवमेगेसिं णो णायं भवः' इत्यनेन केषाञ्चिदेव संज्ञानिषेधात्केषाञ्चित्तु भवतीत्युक्तं भवति, * अध्ययनं १ तत्र सामान्यसंज्ञायाः प्रतिप्राणि सिद्धत्वात्तत्कारणपरिज्ञानस्य चेहाकिश्चित्करत्वा द्विशिष्टसंज्ञायास्तु केषाञ्चिदेव भावात् तस्याश्च भवान्तरगाम्यात्मस्पष्टप्रतिपादने सोपयोगित्वाद् सामान्यसंज्ञाकारणप्रतिपादनमनादृत्य विशिष्टसंज्ञायाः कारणं सूत्रकृद्दर्शयितुमाह
उद्देशकः १
से जं पुण जाणेज्जा सह संमइयाए परवागरणेणं अण्णेसिं अंतिए वा सोच्चा तंजहा - पुरत्थिमाओ वा दिसाओ आगओ अहमंसि जाव अण्णयरीओ दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं जं णायं भवति-अत्थि मे आया उववा - इए, जो इमाओ (दिसाओ ) अणुदिसाओ वा अणुसंचरेइ, सव्वाओ दिसाओ अ
दिसाओ, सोऽहं ( सू० 8 )
'से जं पुण जाणेज्जन्ति सूत्रं यावत् सोऽहमिति 'से' इति निर्देशो मागधशैल्या प्रथमैकवचनान्तः, स इत्यनेन च यः प्राग्निर्दिष्टो ज्ञाता विशिष्टक्षयोपशमादिमान् स प्रत्यवमृश्यते, यदित्यनेनापि यत्प्राग्निर्दिष्टं दिग्विदिगागमनं, तथा कोडहमभूवमतीतजन्मनि देवो नारकस्तिर्यग्योनो मनुष्यो वा ? स्त्री पुमान्नपुंसको वा ?, को वाऽमुतो मनुष्यजन्मनः प्रभ्रष्टो
१ अणुसंसरह ( इति पा० )
ऽहं प्रेत्य दिवादिर्भविष्यामीत्येतत्सरामृश्यते, 'जानीयाद्' अवगच्छेद्, इदमुक्तं भवति न कश्चिदनादौ संसृतौ पर्यटनसुमान् दिगागमनादिकं जानीयात्, यः पुनर्जानीयात्स एवं 'सह सम्मइयार'ति सहशब्दः सम्बन्धवाची, सदिति प्रशंसायां, मतिः- ज्ञानम्, अयमत्र वाक्यार्थः - आत्मना सह सदा या सन्मतिर्वर्त्तते तया सन्मत्या कश्चिज्जानीते, सहशब्दविशेषणाश्च सदाऽऽत्मस्वभावत्वं मतेरावेदितं भवति, न पुनर्यथा वैशेषिकाणां व्यतिरिक्ता सती समवायवृत्त्याऽऽत्मनि समवेतेति । यदि वा 'सम्म'त्ति स्वकीयया मत्या स्वमत्येति, तत्र भिन्नमप्यश्वादिकं स्वकीयं दृष्टमतः सहशब्दविशेषणं, सहशब्दश्वासमस्त इति, सत्यपि चात्मनः सदा मतिसन्निधाने प्रबलज्ञानावरणावृतत्वान्न सदा विशिष्टोऽवबोध इति सा पुनः स न्मतिः स्वमतिर्वा अवधिमनःपर्यायकेवलज्ञानजातिस्मरणभेदाच्चतुर्विधा ज्ञेया, तत्रावधिमनःपर्यायकेवलानां स्वरूपमन्यत्र विस्तरणोक्तं, जातिस्मरणं त्वाभिनिबोधिकविशेषः, तदेवं चतुर्विधया मत्याऽऽत्मनः कश्चिद्विशिष्टदिग्गत्यागती जानाति, कश्चिच्च परः - तीर्थकृत्सर्वज्ञः, तस्यैव परमार्थतः परशब्दवाच्यत्वात्परत्वं, तस्य तेन वा व्याकरणम्-उपदेशस्तेन जीवांस्तद्भेदांश्च पृथिव्यादीन् तद्गत्यागती च जानाति, अपरः पुनः 'अन्येषां' तीर्थकरव्यतिरिक्तानामतिशयज्ञानिनामन्तिके श्रुत्वा जानातीति, यच्च जानाति तत् सूत्रावयवेन दर्शयति तद्यथा पूर्व्वस्था दिश आगतोऽहमस्मि एवं दक्षिणस्याः पश्चिमायाः उत्तरस्या ऊर्ध्वदिशोऽधोदिशोऽन्यतरस्या दिशोऽनुदिशो वाऽऽगतोऽहमस्मीत्येवमेकेषां विशिष्टक्षयोपशमादिमतां तीर्थकरान्यातिशयज्ञानिबोधितानां च ज्ञानं भवति, तथा प्रतिविशिष्टदिगागमन परिज्ञानान्तरमेषामेतदपि ज्ञानं भवतियथा अस्ति मेsस्य शरीरकस्याधिष्ठाता ज्ञानदर्शनोपयोगलक्षण 'उपपादुको' भवान्तरसंक्रांतिभाग असर्वगतो भोक्ता
Jain Education International
For Private Personal Use Only
॥ १९ ॥
www.jainelibrary.org