________________
श्रीआचा
राङ्गवृत्तिः
(शी०)
॥ १० ॥
116
7
|जिअसंजमो १ अ लोगो जह बज्झइ जह य तं पजहियव्वं २ । सुहदुक्खतितिक्खाविय ३ सम्मत्तं ४ लोग सारो ५५ ३.३ निस्संगया ६ य छट्ठे मोहसमुत्था परीसहुवसग्गा ७ । निजाणं ८ अट्ठमए नवमे य जिणेण एवं ति ९ ॥ ३४ ॥
तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो - 'जिन संजमो'त्ति जीवेषु संयमो जीवसंयमः- तेषु हिंसादिपरिहारः, स च जीवास्तित्वपरिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्रार्थाधिकारः । लोकविजये तु 'लोगो जह बज्झइ जह य तं पजहियन्वं'ति, विजितभावलोकेन संयमस्थितेन लोको यथा बध्यते अष्टविधेन कर्मणा यथा च तत्प्रदातव्यं तथा | ज्ञातव्यमित्ययमर्थाधिकारः । तृतीये स्वयम् - संयमस्थितेन जितकषायेणानुकूल प्रतिकूलोपसर्गनिपाते सुखदुःखतितिक्षा विधेयेति । चतुर्थे त्वयम् - प्राक्तनाध्ययनार्थसंपन्नेन तापसादिकष्टतपः से विनामष्टगुणैश्वर्यमुद्वीक्ष्यापि दृढसम्यक्त्वेन भवि - तव्यमिति । पश्चमे त्वयम् - चतुरध्ययनार्थस्थितेनासारपरित्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमिति । षष्ठे त्वयम्-प्रागुक्तगुणयुक्तेन निसङ्गतायुक्तेनाप्रतिबद्धेन भवितव्यम् । सप्तमे स्वयम् - संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परीपहा उपसर्गा वा प्रादुर्भवेयुस्ते सम्यक् सोढव्याः । अष्टमे त्वयम् - निर्याणम्-अन्तक्रिया सा सर्वगुणयुक्तेन सम्यग्विधेयेति । नवमे स्वयम्-अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगेवं वर्द्धमानस्वामिना विहित इति, तत्प्रदर्शनं च शेषसाधूनामुत्साहार्थं,
१ उदइओ भावो लोगा कसाया जाणियव्वा (इति चूर्णिः ).
तदुक्तम् - "तित्थंयरो चरणाणी सुरमहिओ सिज्झियव्वयधुवंमि । अणिगूहियबलविरिओ सव्वत्थामेसु उज्जमइ ॥ १ ॥ किं पुण 'अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होंति न उज्जमियन्वं सपच्चवायंमि माणुस्से ॥ २ ॥ ॥ साम्प्रतमुद्दे - शार्थाधिकारः शस्त्रपरिज्ञाया अयम्
जीवो छक्कायपरुवणा य तेसिं वहे य बंधोन्ति । विरईए अहिगारो सत्थपरिण्णाएँ णायव्वो ॥ ३५ ॥ तत्र प्रथमोदेश के सामान्येन जीवास्तित्वं प्रतिपाद्यं, शेषेषु तु षट्सु विशेषेण पृथिवीकायाद्यस्तित्वमिति, सर्वेषां वादसाने बन्धविरतिप्रतिपादनमिति, एतच्चान्ते उपात्तत्वात्प्रत्येक मुद्देशार्थेषु योजनीयं, प्रथमोदेशके जीवस्तद्वधे बन्धो विरतिश्चेत्येवमिति ॥ तत्र शस्त्रपरिज्ञेति द्विपदं नाम, शस्त्रस्य निक्षेपमाह -
दव्वं सत्थग्गिविसन्नेहंबिलखारलोणमाईयं । भावो य दुप्पउन्तो वाया काओ अविरई या ॥ ३६ ॥ शस्त्रस्य निक्षेपो नामादिश्चतुर्द्धा व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्निविषस्नेहाम्लक्षारलवणादिकं, भावशस्त्रं दुष्प्रयुक्तो भावः - अन्तःकरणं तथा वाक्कायावविरतिश्चेति, जीवोपघातकारित्वादितिभावः ॥ परिज्ञापि चतुर्जेत्याह
दव्वं जाणण पचक्खाणे दविए सरीर उबगरणे । भावपरिण्णा जाणण पचक्खाणं च भावेणं ॥ ३७ ॥
१ तीर्थकर चतुर्ज्ञानी सुरमहितः धवं सेवितव्ये । अनिगूहितबलवीर्यः सर्वस्थानोद्यच्छति ॥ १ ॥ किं पुनरवशेषैर्दुःखक्षयकारणात्प्रविहितैः । भवति नोद्यन्तव्यं सस्यपाये मानुष्ये ॥ २ ॥
तत्र द्रव्यपरिज्ञा द्विधा - ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च ज्ञपांरेज्ञा आगमनोआगमभेदाद्विधा, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्त्रिधा, तत्र व्यतिरिक्ता द्रव्यपरिज्ञा यो यत् द्रव्यं जानीते सचित्तादि सा परिच्छेद्यद्रव्यप्राधान्यात् द्रव्यपरिज्ञेति, प्रत्याख्यानपरिज्ञाऽप्येवमेव, तत्र व्यतिरिक्तद्रव्यप्रत्याख्यानपरिज्ञा देहोपकरणपरिज्ञानम्, उपकरणं च रजोहरणादि, साधकतमत्वात्, भावपरिज्ञापि द्विधैव-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च तत्रागमतो ज्ञातोपयुक्तश्च, नोआगमतस्त्विदमेवाध्ययनं ज्ञानक्रियारूपं, नोशब्दस्य मिश्रवाचित्वात् प्रत्याख्यानभावपरिज्ञापि तथैव, आगमतः पूर्ववत्, नोआगमतस्तु प्राणातिपातनिवृत्तिरूपा मनोवाक्कायकृतकारितानुमतिभेदात्मिका ज्ञेयेति । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतमाचारादिप्रदानस्य सुखप्रतिपत्तयं दृष्टान्तोपन्यासेन विधिराख्यायते यथा कश्चिद्राजा अभिनवनगरनिवेशेच्छया भूखण्डानि विभज्य समतया प्रकृतिभ्यो दत्तवान् तथा कचवरापनयने शल्योद्धारे भूस्थिरीकरणे पक्केष्टकापीउप्रासादरचने रत्नाद्युपादाने चोपदेशं दत्तवान्, ताश्च प्रकृतयस्तदुपदेशानुसारेण तथैव कृत्वा यथाऽभिप्रेतान् भोगान् बुभुजिरे, अयमत्रार्थोपनयः - राजसदृशेन सूरिणा प्रकृतिसदृशस्य शिष्यगणस्य भूखण्डसदृशः संयमो मिथ्यात्वकचवराद्यपनीय सर्वोपाधिशुद्धस्यारोपणीयः, तं च सामायिकसंयमं स्थिरीकृत्य पक्केष्टिकापीठतुल्यानि व्रतान्यारोपणीयानि, ततः प्रासादकल्पोऽयमाचारो विधेयः, तत्रस्थश्चाशेषशास्त्रादिरत्नान्यादत्ते, निर्वाणभाक् भवति । साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणलक्षणोपेतं सूत्रमुच्चारणीयं, लक्षणं त्विदम् - "अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणजुत्तं
१ अल्पग्रन्थं महार्थ द्वात्रिंशद्दोषविरहितं यच । लक्षणयुक्तं सूत्रमष्टभिश्च गुणैरुपपेतम् ॥ १ ॥
Jain Education International
For Private Personal Use Only
अध्ययनं
उद्देशकः १
॥ १० ॥
www.jainelibrary.org