SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ +915% अध्ययन दशकः१ 4%AAAA% ॥११॥ श्रीआचा- ॥सुर्य मे आउसं ! तेणं भगवया एवमक्खायं-इहमेगेसिं णो सण्णा भवइ (सू०१) राङ्गवृत्तिः सुतं अहहि य गुणेहिं उववेयं ॥१॥' इत्यादि, तच्चेदं सूत्रम्-'सुयं मे आउसं! तेणं भगवया एवमक्खायं-इहमेगेसिं णो (शी०) दिसण्णा भवति' अस्य संहितादिक्रमेण व्याख्या-संहितोच्चारितैव, पदच्छेदस्त्वयम्-श्रुतं मया आयुष्मन् ! तेन भगवता पवमाख्यातम्-इह एकेषां नो संज्ञा भवति । एक तिङन्तं शेषाणि सुबन्तानि, गतः सपदच्छेदः सूत्रानुगमः, साम्प्रतं सूत्रपदार्थः समुन्नीयते-भगवान् सुधर्मस्वामी जंबूनाम्न इदमाचष्टे यथा-'श्रुतम्' आकर्णितमवगतमवधारितमितियावद्, अनेन स्वमनीषिकाव्युदासो, 'मये'ति साक्षान्न पुनः पारम्पर्येण 'आयुष्मन्निति जात्यादिगुणसंभवेऽपि दीर्घायुष्कत्वगुणोपादानं दीर्घायुरविच्छंदेन शिष्योपदेशप्रदायको यथा स्यात् , इहाचारस्य व्याचिख्यासितत्वात्तदर्थस्य च तीर्थकृत्प्रणीतत्वादिति सामर्थ्यप्रापितं तेनेति तीर्थकरमाह, यदि वा-आमृशता भगवत्पादारविन्दम् , अनेन विनय आवेदितो भवति, आवसता वा तदन्तिक इत्यनेन गुरुकुलवासः कर्त्तव्य इत्यावेदितं भवति, एतच्चार्थद्वयं 'आमुसंवेण आवसंतेणे'त्येतसाठान्तरमाश्रित्यावगन्तव्यमिति, 'भगवतेति भगः-ऐश्वर्यादिषडात्मकः सोऽस्यास्तीति भगवान् तेन, 'एव'मिति वक्ष्यमाणविधिना 'आख्यात'मित्यनेन कृतकत्वव्युदासेनार्थरूपतया आगमस्य नित्यत्वमाह, 'इहे'ति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वा आख्यातमितिसंबन्धो, यदि वा-'इहेति संसारे 'एकेषां' ज्ञानावरणीयावृतानां प्राणिनां 'नो संज्ञा १ चूर्ण्यभिप्रायेण द्वितीयसूत्रावतरणमेतत्. ... २ पत्तेयं पत्तेयं (गणहरा) सिम्मेई पजुवासिजमाला एवं भणति-'मयं मे• (इति पूर्णिः). भवति' संज्ञानं संज्ञा स्मृतिरवबोध इत्यनर्थान्तरं, सा नो जायत इत्यर्थः, उक्तः पदार्थः, पदविग्रहस्य तु सामासिकपदाभावादप्रकटनम् । इदानी चालना-ननु चाकारादिकप्रतिषेधकलघुशब्दसंभवे सति किमर्थ नोशब्देन प्रतिषेधः इति?, अत्र प्रत्यवस्था, सत्यमेवं, किंतु प्रेक्षापूर्वकारितया नोशब्दोपादानं, सा चेयम्-अन्येन प्रतिषेधेन सर्वनिषेधः स्याद्, यथा न घटोऽघट इति चोक्ते सर्वात्मना घटनिषेधः, स च नेष्यते, यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनामभिहितास्तासां सर्वासां प्रतिषेधःप्रामोतीतिकृत्वा, ताश्चेमाः-"काणं भंते ! सण्णाओ पणत्ताओ?, गोयमा! दस सण्णाओ पण्णत्ताओ, तंजहा-आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णामायासण्णा लोभसण्णा ओहसण्णा लोगसण्ण"सि, आसां च प्रतिषेधेसष्टो दोषः, अतोनोशब्देन प्रतिषेधनमकारि,यतोऽयं सर्वनिषेधवाची देशनिषेधवाचीच, तथाहि-नोघट इत्युके यथा घटाभावमात्र प्रतीयते, तथा प्रकरणादिसक्तस्य विधानं, स पुनर्विधीयमानः प्रतिषेध्यावयवो ग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति, तथा चोक्तम्-"प्रतिषेधयति समस्तं प्रसक्तमर्थ च जगति नोशब्दः। स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्यात् ॥१॥” इति, एवमिहापि न सर्वसंज्ञानिषेधः, अपितु विशिष्टसंज्ञानिषेधो, ययाऽऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति ॥ साम्प्रतं नियुक्तिकृत्सूत्रावयवनिक्षेपार्थमाह कति भदन्त ! संज्ञाः प्राप्ताः १. गौतम! दश संशाः प्राप्ताः, तद्यथा-आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिप्रहसंज्ञा क्रोधसंझा मानसंझा मायासमा लोभसंझा ओघसंज्ञा लोकसंज्ञा... २.क्ते घटाभावमात्रं प्रतीयते अर्थप्रसक्तनिषेधेन चाप्रसक्तस्य प्र. श्रीआचा ब्वे सचित्ताई भावेऽणुभवणजाणणा सण्णा। मति होइ जाणणा पुण अणुभवणा कम्मसजुप्ता ॥३८॥ राङ्गवृत्तिः संज्ञा नामादिभेदाचतुर्द्धा, नामस्थापने क्षुण्णे, शरीरभव्यशरीरव्यतिरिक्ता सचित्ताचित्तमिश्रभेदानिधा, सचित्तेन (शी०) हस्तादिद्रव्येण पानभोजनादिसंज्ञा अचित्तेन ध्वजादिना मिश्रेण प्रदीपादिना संज्ञान-संज्ञा अवगम इतिकृत्वा, भाव संज्ञा पुनर्द्धिधा-अनुभवनसंज्ञा ज्ञानसंज्ञा च, तत्राल्पव्याख्येयत्वाचावत् ज्ञानसंज्ञा दर्शयति-'मइ होइ जाणणा पुण'त्ति मननं मतिः-अवबोधः सा च मतिज्ञानादिः पश्चधा, तत्र केवलसंज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनभवनसंजा व स्वकृतकर्मोदयादिसमुत्था जन्तोर्जायते, सा च पोडशभेदेति दर्शयति आहार भय परिग्गह मेहुण सुख दुक्ख मोह वितिगिच्छा ।कोह माण माय लोहेसोगे लोगे य धम्मोहे।३९।। __ आहाराभिलाष आहारसंज्ञा, सा च तैजसशरीरनामकम्र्मोदयादसातोदयाच भवति, भयसंज्ञा त्रासरूपा, परिग्रह१ संज्ञा मूर्णारूपा, मैथुनसंज्ञा स्यादिवेदोदयरूपा, एताश्च मोहनीयोदयात्, सुखदुःखसंज्ञे सातासानानुभवरूपे वेदनीयो दयजे, मोहसंज्ञा मिथ्यादर्शनरूपा मोहोदयात्, विचिकित्सासंज्ञा चित्तविप्लुतिरूपा मोहोदयात् ज्ञानावरणीयोदयाच, कोषसंज्ञा अप्रीतिरूपा, मानसंज्ञा गर्वरूपा, मायासंज्ञा वक्रतारूपा, लोभसंज्ञा गृद्धिरूपा, शोकसंज्ञा विप्रलापवैमनस्यरूपा, पता मोहोदयजाः, लोकसंज्ञा स्वच्छन्दपटितविकल्परूपा लौकिकाचरिता, यथा-न सन्त्यनपत्यस्य लोकाः, श्वानो यक्षाः, विधा देवाः, काकाः पितामहाः, बर्हिणां पक्षवातेन गर्भ इत्येवमादिका ज्ञानावरणक्षयोपशमान्मोहोदयाच भ- वति, धर्मसंज्ञा क्षमाद्यासेवनरूपा मोहनीयक्षयोपशमाज्जायते, एताश्चाविशेषोपादानासन्द्रियाणां सम्यग्मिथ्याशा IM अध्ययनं १ उद्देशकः१ STERSRKARIES १३॥ SEASOM Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy