SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः 118011 271 अथ सप्तमनालन्दीयाध्ययन प्रारम्भः । व्याख्यातं पष्ठमध्ययनम् अधुना सप्तममारभ्यते, अस्य चायमभिसंबन्धः - इह प्राग्व्याख्याते नाखिलेनापि सूत्रकृताङ्गेन स्वसमंयपरसमयप्ररूपणाद्वारेण प्रायः साधूनामाचारोऽभिहितोऽनेन तु श्रावकगतो विधिरुच्यते, यदिवाऽनन्तराध्ययने परवादनिराकरणं कृत्वा साध्वाचारस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्शितः, इह तु श्रावकधर्मस्य य उपदेष्टा स उदाहरणद्वारेणैव प्रदर्श्यते, यदिवाऽनन्तराध्ययने परतीर्थिकैः सह वाद इह तु स्वयूथ्यैरिति । अनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपवर्णितव्यानि उपक्रमादीनि तत्रापि नामनिष्यन्ने निक्षेपे नालन्दीयाभिधानमिदमध्ययनम् इदं चैवं व्युत्पाद्यते - प्रतिषेधवाचिनो नकारस्य तदर्थस्यैवालंशब्दस्य 'डुदाञ् दाने' इत्येतस्य धातोर्मीलनेन नालं ददातीति नालंदा, इदमुक्तं भवति प्रतिषेधप्रतिषेधेन धात्वर्थस्यैव प्राकृतस्य गमनात्सदाऽर्थिभ्यो यथाऽभिलपितं ददातीति नालन्दा - राजगृहनगरबाहिरिका तस्यां भवं नालन्दीयमिदमध्ययनं, अनेन चाभिधानेन समस्तोऽप्युपोद्घात उपक्रमरूप आवेदितो भवति, तत्स्वरूपं च पर्यन्ते खत एव नियुक्तिकारः 'पासावच्चित्रे' इत्यादिगाथया निवेदयिष्यतीति । साम्प्रतं संभविनमलंशब्दस्य निक्षेपं नदी परित्यज्य कर्तुमाह णामअलं ठेवणअलं दबअलं चेव होइ भावअलं । एसो अलसभिउ निक्खेवो चउविहो होइ ॥ २०१ ॥ पत्तीभावे खलु पढमो बीओ भवे अलंकारे । ततितो उ पडिसेहे अलसहो होइ नायो । २०२ ।। पsिहणगारस्सा इत्थिसद्देण चैव अलसहो । रायगिहे नयरंमी नालंदा होइ बाहिरिया ॥ २०३ ॥ नालंदा समिवे मणोरहे भासि इंदभूइणा उ । अज्झयणं उद्गस्स उ एवं नालंदइज्जं तु ॥ २०४ ॥ तत्र अमानोनाः प्रतिषेधवाचकाः, तद्यथा - अगौः अघट इत्याद्यकारः प्रायो द्रव्यस्यैव प्रतिषेधवाचीत्यलंदानेन सहास्य प्रयो| गाभावः, माकारस्वनागतक्रियाया निषेधं विधत्ते, तद्यथा - मा कार्षीत्वमकार्य मा संस्थाः संस्था नो युष्मदधिष्ठितदिगेव वीता - | येत्यादि, नोकारस्तु देशनिषेधे सर्वनिषेधे च वर्त्तते, तद्यथा-नो घटो घटैकदेशो घटैकदेशनिषेधेन, तथा हास्यादयो नोकषायाः कषायमोहनीयैकदेशभूताः, नकारस्तु समस्तद्रव्यक्रियाप्रतिषेधाभिधायी, तद्यथा-न द्रव्यं न कर्म न गुणोऽभावः, तथा नाकार्ष | न करोमि न करिष्यामीत्यादि, तथाऽन्यैरप्युक्तं - "न याति न च तत्रासीदस्ति पश्चान्नवशिवत् । जहाति पूर्व नाधारमहो व्यस नसंततिः ॥ १ ॥ किंचान्यत् - "गतं न गम्यते तावद्गतं नैव गम्यते । गतागतविनिर्मुक्तं, गम्यमानं तु गम्यते ||" इत्यादि । तदेवमत्र नकारः प्रतिषेधविधायकोऽप्युपात्तः, अलंशब्दोऽपि यद्यपि 'अलं पर्याप्ति 'वारणभूषणेष्वपी'ति त्रिष्वर्थेषु पठ्यते, तथाऽपीह प्रतिषेधवाचकेन नजा साहचर्यात्प्रतिषेधार्थ एव गृह्यते, तत्र चालंशब्दे नामस्थापनाद्रव्यभावभेदाच्चतुर्विधो निक्षेपो भवति, तत्र नामालं यस्य चेतनस्य अचेतनस्य वाऽलमिति नाम क्रियते, स्थापनालं तु यत्र कचिच्चित्रपुस्तकादौ पापनिषेधं कुर्वन्साधुः स्थाप्यते, द्रव्यनिषेधस्तु नोआगमतो ज्ञशरीर भव्यशरीरव्यतिरिक्तो द्रव्यस्य चौराद्याहृतस्यै हिकापाय भीरुणा यो निषेधः क्रियते स द्रव्यनिषेधः, एवं द्रव्येण द्रव्याद् द्रव्ये वा निषेधः, भावनिषेधं तु स्वत एव निर्युक्तिकारोऽलंशब्दस्य संभविनमर्थ दर्शयन्त्रिभणिपुराहपर्याप्तिभावः- सामर्थ्य तत्रालंशब्दो वर्तते, अलं मल्लो मल्लाय, समर्थ इत्यर्थः, लोको तरेऽपि " नालं ते तव ताणाए वा सरणाए वां" । अन्यैरप्युक्तम् - " द्रव्यास्तिकरथारूढः, पर्यायोद्यतकार्मुकः । युक्तिसन्नाहवान्वादी, कुवादिभ्यो भवत्यलम् ॥ १ ॥" अयं प्रथमो - ग्लंशब्दार्थो भवति, खलुशब्दो वाक्यालङ्कारे, द्वितीयस्त्वर्थोऽलङ्कारे - अलङ्कारविषये भवेत्, संभावनायां लिङ्, तद्यथा - अलं कृतं देव ! देवेन स्वकुलं जगच नाभिसूनुने' त्यादि । तृतीयस्त्वलंशब्दार्थः प्रतिषेधे ज्ञातव्यो भवति, तद्यथा - अलं मे गृहवासेन, तथा 'अलं पापेन कर्मणा' उक्तं च - "अलं कुतीर्थैरिह पर्युपासितैरलं वितर्काकुलकाहलैर्मतैः । अलं च मे कामगुणैर्निषेवितैर्भयंकरा ये हि परत्र चेह च ।। १ ।।" तदिह प्रतिषेधवाचिनाऽलंशब्देनाधिकार इत्येतद्दर्शयितुमाह-सत्यप्यलंशब्दस्यार्थत्रये नकारस्य सानिध्यात्प्रतिषेधविधाय्येवेह गृझते, ततश्च निरुक्तविधानादयमर्थः - नालं ददातीति नालन्दा, बाहिरिकायाः स्त्रियोदेशकलेन वाचकत्वेन च नालन्दशब्दस्य स्त्रीलिंगता, सा च सदैहिकामुष्मिक सुखहेतुलेन सुखप्रदा राजगृहनगरबाहिरिका धनकनकसमृद्धवेन सत्साध्वाश्रयत्वेन च सर्वकामप्रदेति । साम्प्रतं प्रत्ययार्थं दर्शयितुकाम आह– नालन्दायाः समीपे मनोरथाख्ये उद्याने इन्द्रभूतिना गणधरेणोदकाख्यनिर्ग्रन्थ पृष्टेन तुशब्दस्यैव कारार्थलात्तस्यैव भाषितमिदमध्ययनं । नालन्दायां भवं नालन्दीयं नालन्दासमीपोद्यानकथनेन वा निर्वृत्तं नालन्दीयं । यथा चेदमध्ययनं नालन्दायां संवृत्तं तथोत्तरत्र “पासावचिज्जे" इत्यादिकया सूत्रस्पर्शिकगाथयाऽऽविष्करिष्यते, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदं - तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, रिद्धित्थिमितसमिद्धे वण्णओ जाव पडिरूवे, तस्स of रायगिहस्स नयरस बहिया उत्तरपुरच्छिमे दिसी भाए, एत्थ णं नादानामं बाहिरिया होत्था, अणेगभवणसयसन्निविट्ठा जाव पडिरूवा ॥ (सू० ६८ ) ॥ तत्थ णं नालंदाए बाहिरियाए लेवे नामं गाहावई होत्था, Jain Education International For Private Personal Use Only ७ नाल न्दीयाध्य. 1180411 1 www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy