________________
सूत्रकृताने २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः
॥ ३८९ ॥
सूत्रकृताङ्गे २ श्रुतस्क - न्धे शीलाश्रीयावृत्तिः
३९०॥
260
सिकताकवलव भिराखादं यावज्जीवं कर्तुमलम् अतो मां विहायायं बहून् शिष्यान् प्रतार्यैवंभूतेन स्टाटोपेन विहरतीत्यतः कर्तव्ये 'अस्थिरः' चपलः, पूर्वचर्यापरित्यागेनापरकल्पसमाश्रयात्, एतदेव दर्शयति - 'सभायां गतः' सदेवमनुजपर्षदि व्यवस्थितो 'गणओ'त्ति गणशो बहुशो ऽनेकश इतियावत् भिक्षूणां मध्ये 'गतो' व्यवस्थित आचक्षाणो बहुजनेभ्यो हितः अर्थो बहुजन्योऽर्थस्तमर्थ बहुजन हितं कथयन् विहरति, एतच्चास्यानुष्ठानं पूर्वापरेण न संधते, तथाहि यदि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशोकवृक्षभामण्डलचामरादिकं मोक्षाङ्गमभविष्यत्ततो या प्राक्तन्येकचर्या केशबहुलाऽनेन कृता सा क्लेशाय केवलमस्येति, यदि सा कर्मनिर्जरणहेतुका परमार्थभूता ततः साम्प्रतावस्था परप्रतारकत्वाद्दम्भकल्पेत्यतः पूर्वोत्तरयोरनुष्ठानयोः - मौनत्र ति कधर्मदेशनारूपयोः | परस्परतो विरोध इति ॥ २ ॥ अपिच - यद्येकान्तचारित्वमेव शोभनं पूर्वमाश्रितत्वात् ततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्तव्यम्, अथ चेदं साम्प्रतं महापरिवारवृतं साधुं मन्यसे ततस्तदेवादावप्याचरणीयमासीद्, अपिच द्वे अध्येते छायातपवदत्यन्त विरोधिनी वृत्ते नैकत्र समवायं गच्छतः, तथा यदि मौनेन धर्मस्ततः किमियं महता प्रबन्धेन धर्मदेशना १, अथानयैव धर्मस्ततः किमिति पूर्व मौनव्रतमनेनाललम्बे ?, यस्मादेवं तस्मात्पूर्वोत्तरव्याहतिः । तदेवं गोशालकेन पर्यनुयुक्त आर्द्रककुमारः श्लोकपश्चार्द्धनोत्तरदानायाहइह च अणागतं वा, एगंतमेवं पडिसंधयाति ॥ ३ ॥ समिच्च लोगं तस्थावराणं, खेमंकरे समणे माहणे वा । आमाणोवि सहस्समज्झे, एगंतयं सारयती तहचे ॥४॥ धम्मं कहंतस्स उ णत्थि दोसो, तस्स दंतस्स जिनिंदियस्स । भासाय दोसे य विवज्जगस्स, गुणे य भासाय णिसेवगस्स ॥ ५ ॥ महवए पंच अणुवए य, तहेब पंचासव संवरे य। विरतिं इहस्सामणियंमि पन्ने, लवावसकी सभणेतिबेमि ॥३॥ सूत्रं
'पूर्व' पूर्वस्मिन्काले यन्मौनव्रतिकत्वं या चैकचर्या तच्छद्मस्यत्वाद् घातिकर्मचतुष्टयक्षयार्थ, साम्प्रतं यन्महाजनपरिवृतस्य धर्मदेशना | विधानं तत्प्राग्बद्धभवोपग्राहिकर्मचतुष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थ अपरासां चोचैर्गोत्रशुभायुर्नामादीनां शुभप्रकृतीनामिति । यदिवा पूर्व साम्प्रतमनागते च काले रागद्वेपरहितत्वादेकत्व भावनानतिक्रमणाञ्चैकत्वमेवानुपचरितं भगवान शेषजनहितं धर्म कथयन् प्रतिसंदधाति, न तस्य पूर्वोत्तरयोरवस्थयोराशंसारहितत्वाद्भेदोस्ति, अतो यदुच्यते भवता - पूर्वोत्तरयोरवस्थयोरसाङ्गत्यं | तत् प्रवत इति ॥३॥ स्यादेतद्धर्मदेशनया प्राणिनां कचिदुपकारो भवत्युत नेति ?, भवतीत्याह- 'समिच्च लोय' मित्यादि, सम्यगयथावस्थितं 'लोकं' पइद्रव्यात्मकं 'मत्वा' अवगम्य केवलालोकेन परिच्छिद्य त्रस्यन्तीति त्रसा:- त्रसनामकर्मोदया द्वीन्द्रियादयः, | तथा तिष्ठन्तीति स्थावराः - स्थावरनामकर्मोदयात्स्थावराः पृथिव्यादयस्तेषामुभयेषामपि जन्तूनां 'क्षेमं शान्तिः रक्षा तत्करणशीलः क्षेमंकरः श्राम्यतीति श्रमणो- द्वादशप्रकारतपोनिष्टतदेहः, तथा मा हणत्ति प्रवृत्तिर्यस्यासौ माहनो ब्राह्मणो वा स एवंभूतो 'निर्म| मो' रागद्वेषरहितः प्राणिहितार्थ न लाभपूजाख्यात्यर्थं धर्ममाचक्षाणोऽपि प्राग्वत् छद्मस्थावस्थायां मौनव्रतिक इव वाक्संयत एव उत्पन्नदिव्यज्ञानत्वाद्भाषागुणदोषविवेकज्ञतया भाषणेनैव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तु मौनत्रतिकत्वेनेति, तथा देवासुर| नरतिर्यक्सहस्रमध्येऽपि व्यवस्थितः पङ्काधारपङ्कजव त्तदोषव्य सङ्गाभावान्ममत्वविरहादाशंसादोषविकलत्वादेकान्तमेवासौ 'सारयति' प्रख्यातिं नयति साधयतीतियावत् । ननु चैकाकि परिकरोपेतावस्थयोरस्ति विशेषः, प्रत्यक्षेणैवोपलभ्यमानत्वात् सत्यम्, | अस्ति विशेषो वाह्यतो न त्वान्तरतोऽपि, दर्शयति- 'तथा' प्राग्वदर्चा-लेश्या शुक्लध्यानाख्या यस्य स तथार्चः, यदिवा अर्चा-शरीरं तच्च प्राग्वद्यस्य स तथार्च:, तथाहि--असावशोकाद्यष्टप्रातिहार्योपेतोऽपि नोत्सेकं याति नापि शरीरं संस्कारायत्तं विदधाति, स हि भगवानात्यन्तिकरागद्वेपप्रहाणादेकाक्यपि जनपरिवृतोऽप्येकाकी, न तस्य तयोरवस्थयोः कश्चिद्विशेोऽस्ति, तथा चोक्तम्- "रागद्वेषौ विनिर्जित्य, किमरण्ये करिष्यसि १ । अथ नो निर्जितावेतौ, किमरण्येकरिष्यसि १ ॥ १ ॥" इत्यतो बामनङ्गमान्तरमेव कषायजयादिकं प्रधानं कारणमिति स्थितम् ॥ ॐ ॥ अपगतरागद्वेषस्य प्रभाषमाणस्यापि दोषाभावं दर्शयितुमाह-तस्य भगवतोऽपगतघनषा| तिकलङ्कस्योत्पन्नसकल पदार्थाविर्भाविज्ञानस्य जगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितप्रवृत्तस्य स्वकार्यनिरपेक्षस्य धर्म कथयतोऽपि | तुशब्दस्यापिशब्दार्थत्वात् नास्ति कश्विदोषः । किंभूतस्येत्याह- क्षान्तस्य क्षान्तिसंपन्नस्यानेन क्रोधनिरासमाह, तथा 'दान्तस्य' उपशान्तस्यानेन तु मानव्युदासं, तथा जितानि स्वविषयप्रवृत्तिनिषेधेने न्द्रियाणि येन स जितेन्द्रियो वश्येन्द्रियोऽनेन तु लोभनिरासमाचष्टे, मायायास्तु लोभनिरासादेव निरासो द्रष्टव्यः, तन्मूलत्वात्तस्याः, भाषाया दोषा-असत्यासत्यामृषाकर्कशासभ्य शब्दोच्चारणादयस्तद्विवर्जकस्य - तत्परिहर्तुस्तथा भाषाया ये गुणा - हितमितदेशकालासंदिग्धभाषणादयस्तनिषेव कस्य सतो ब्रुवतोऽपि नास्ति दोषः, छद्मस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः समुत्पन्नकेवलस्य तु भाषणमपि गुणायेति ॥ ५ ॥ किंभूतं धर्ममसौ कथयतीत्याह- 'महत्रए पंचे' त्यादि, महान्ति च तानि व्रतानि - प्राणातिपात विरमणादीनि तानि च साधूनां प्रज्ञापितवान् पञ्चापि तदपेक्षयाऽणूनि - लघूनि व्रतानि अणुव्रतानि पञ्चैव तानि श्रावकानुद्दिश्य प्रज्ञापितवान् पञ्चाश्रवान्| प्राणातिपातादिरूपान् कर्मणः प्रवेशद्वारभूतान् तत्संवरं च सप्तदशप्रकारं संयमं प्रतिपादितवान्, संवरवतो हि विरतिर्भवतीत्यतो विरतिं च प्रतिपादितवान् चशब्दात्तत्फलभूतौ निर्जरामोक्षौ च, 'इह' अस्मिन्प्रवचने लोके वा श्रमणभावः श्रामण्यं - संपूर्णसंयमस्तस्मिन् वा विधेये मूलगुणान् महाव्रताणुव्रतरूपान् तथोत्तरगुणान् -संवर चिरत्यादिरूपान् 'पूर्णे' कृत्स्ने संयमे विधातव्ये 'प्राज्ञ'
Jain Education International
For Private Personal Use Only
६ आर्द्रका
ध्ययन.
॥३८९॥
६ आर्द्रका
ध्ययन.
॥३९०॥
www.jainelibrary.org