________________
सूत्रकृताङ्गे २ श्रुतस्क घे शीलाडीयावृत्तिः
॥ ३८८ ॥
259
जातिस्सरणं, चिन्तितं च तेन यथा ममाभयकुमारेण महानुपकारोऽकारि सद्धर्मप्रतिबोधत इति, ततोऽसावार्द्रकः संजातजातिम रणोऽचिन्तयत्-यस्य मम देवलोक भोगैर्यथेप्सितं संपद्यमानैस्तृप्तिर्नाभूत् तस्यामीभिस्तुच्छैर्मानुषैः स्वल्पकालीनैः कामभोगैस्तुतिर्भ|विष्यतीति कुतस्त्यमितेि, एतत्परिगणय्य निर्विण्णकामभोगो यथोचितं परिभोगमकुर्वन् राज्ञा संजातभयेन मा कचिद्यास्यनि अतः पश्चभिः शतै राजपुत्राणां रक्षयितुमारेभे, आर्द्रककुमारोऽप्यश्ववाहनिकया विनिर्गतः प्रधानाश्वेन प्रपलायितः । ततश्च प्रत्रज्यां गृह्णन् देवतया सोपसर्ग भवतोऽद्यापीति भणिवा निवारितोऽप्यसावार्द्रको राज्यं तावन करोति कोऽन्यो मां विहाय प्रव्रज्यां |ग्रहीष्यतीत्यभिसंधाय तां देवतामवगणय्य प्रव्रजितः । विहरन्नन्यदाऽन्यतर प्रतिमाप्रतिपन्नः कायोत्सर्गव्यवस्थितो वसन्तपुरे तया देवलोकच्युतया श्रेष्ठिदुहित्रापरदारिकामध्यगतया रमन्त्यै (ममाणयै ) प मम भर्त्तेत्येवमुक्ते सत्यनन्तरमेव तत्सन्निहितदेवतयाऽर्द्धत्रयोदशकोटिपरिमाणा शोभनं वृतमनयेति भणिला हिरण्यवृष्टिर्मुक्ता, तां च हिरण्यवृष्टिं राजा गृह्णन् देवतया सर्पाद्युत्थानतो विधृतोऽभिहितं च तया यथा - एतद्धिरण्यजातमसा दारिकायाः नान्यस्य कस्यचिदित्यतस्तत्पित्रा सर्व संगोपितम् आर्द्रककुमारोऽप्यनुकू लोपसर्ग इतिमत्वाऽश्वेवान्यत्र गतः, गच्छति च काले दारिकाया वरकाः समागच्छन्ति, पृष्टौ च पितरौ तया - किमेषामागमनप्रयोजनं ?, कथितं च ताभ्यां यथैते तव वरका इति, ततस्तयोक्तं तात । सकृत्कन्याः प्रदीयन्ते नानेकशः, दत्ता चाहं तस्मै यत्संबन्धि हिरण्यजातं भवद्भिगृहीँत, ततः सा पित्राज्भाणि किं त्वं तं जानीषे १, तयोक्तं तत्पादगताभिज्ञानदर्शनतो जानामीति, तदेवमसौ तत्परिज्ञानार्थं सर्वस्य भिक्षार्थिनो भिक्षां दापयितुं निरूपिता, ततो द्वादशभिर्वषैर्गतैः कदाचिच्चासौ भवितव्यतानियोगेन तत्रैव विहरन् समायातः प्रत्यभिज्ञातश्च तथा तसादचिह्नदर्शनतः, ततोऽसौ दारिका सपरिवारा तत्पृष्ठतो जगाम, आर्द्रककुमारोऽपि देवतावचनं स्मरंस्तथाविधकर्मोदयाच्चावश्यंभाविभवितव्यतानियोगेन च प्रतिभग्नस्तया सार्द्धं भुनक्ति भोगान् पुत्रश्चोत्पन्नः, | पुनरार्द्रककुमारेणासावभिहिता - साम्प्रतं ते पुत्रो द्वितीयः अहं च खकार्यमनुतिष्ठामि, तया सुतव्युत्पादनार्थं कर्पासकर्त्तनमारब्धं, पृष्टा चासौ बालकेन - किमम्बैतद्भवत्या प्रारब्धमितरजनाचरितं १, ततोऽसाववोचद् - यथा तव पिता प्रत्रजितुकामः त्वं चाद्यापि शिशुरसमर्थोऽर्थार्जने ततोऽहमनाथा स्त्रीजनोचितेनानिन्द्येन विधिनाऽऽत्मानं भवन्तं च किल पालयिष्यामीत्येतदालोच्येदमारब्ध| मिति । तेनापि बालकेनोत्पन्नप्रतिभया तत्कर्त्तितसूत्रेणैव कायं मद्धो यास्यतीति मन्मनभाषिणोपविष्ट एवासौ पिता परिवेष्टितः, तेनापि चिन्तितं - यावन्तोऽमी बालककृतवेष्टनतन्तवस्तावन्त्येव वर्षाणि मया गृहे स्थातव्यमिति, निरूपिताच तन्तवो यावद् द्वादश तावन्त्येव वर्षाण्यसौ गृहवासे व्यवस्थितः, पूर्णेषु च द्वादशसु संवत्सरेषु गृहानिर्गतः प्रव्रजितश्चेति । ततोऽसौ सूत्रार्थनिष्पन्न एकाकिविहारेण विहरन् राजगृहाभिमुखं प्रस्थितः, तदन्तराले च तद्रक्षणार्थं यानि प्राक् पित्रा निरूपितानि पञ्च राजपुत्रशतानि तस्मि | नवेन नष्टे राजभयाद्वैलक्ष्याच्च न राजान्तिकं जग्मुः, तत्राटवीदुर्गे चौर्येण वृत्तिं कल्पितवन्तः, तैश्वासौ दृष्टः प्रत्यभिज्ञातच, ते च तेन पृष्टाः - किमिति भवद्भिरेवंभूतं कर्माश्रितं १, तैश्च सर्व राजभयादिकं कथितम्, आर्द्रककुमारवचनाच्च संबुद्धाः प्रव्रजिताश्च । तथा राजगृहनगरप्रवेशे गोशालको हस्तितापसाः ब्राह्मणाथ वादे पराजिताः । तथाऽऽर्द्रककुमारदर्शनादेव हस्ती बन्धनाद्विमुक्तः, ते च हस्तितापसादय आर्द्रककुमारधर्मकथाक्षिप्ता जिनवीरसमवसरणे निष्क्रान्ताः । राज्ञा च विदितवृत्तान्तेन महाकुतूहलापूरित| हृदयेन पृष्टो-भगवन् ! कथं खद्दर्शनतो हस्ती निरर्गलः संवृत्त इति ?, महान् भगवतः प्रभाव इत्येवमभिहितः सन्नार्द्रककुमारोऽनवीत् नवमगाथयोत्तरं न दुष्करमेतद्यभरपाशैर्वद्धमत्तवारणस्य विमोचनं वने राजन् ! एततु मे प्रतिभाति दुष्करं यच्च तत्रावलितेन तन्तुना बद्धस्य मम प्रतिमोचनमिति । स्नेहतन्तवो हि जन्तूनां दुरुच्छेदा भवन्तीति भाव: । गतमार्द्रककथानकम् नाम निष्पन्ननिक्षेपच । तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तच्चेदम्
"
पुराकडं अद्द ! इमं सुह, मेगंतयारी समणे पुरासी । से भिक्खुगो उवणेसा अणेगे, आइक्स्वतिहि पुढो वित्रेणं ॥ १ ॥ साऽऽजीविया पट्ठविताऽथिरेणं, सभागओ गणओ भिक्खुमज्झे । आइक्खमाणो बहुजन्नमत्थं, न संघयाती अवरेण पुत्रं ॥ २॥ एगंतमेवं अदुवा षि इहि, दोऽवण्णमन्नं न समेति जम्हा । सूत्रं यथा गोशालकेन सार्द्धं वादोऽभूदार्द्रककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते, तं च राजपुत्रकमार्द्रककुमारं प्रत्येकबुद्धं भगवत्समीपमागच्छन्तं गोशालकोऽब्रवीत् — यथा हे आर्द्रक ! यदहं ब्रवीमि तच्छृणु - 'पुरा' पूर्वं यदनेन भवत्तीर्थकृता कृतं तवेदमिति दर्शयति - एकान्ते जनरहिते-प्रदेशे चरितुं शीलमस्येत्येकान्त चारी, तथा श्राम्यतीति श्रमणः पुराऽऽसी तपश्वरणोद्युक्तः, साम्प्रतं । तूयैस्तपश्चरणविशेषैर्निर्भत्सितो मां विहाय देवादिमध्यगतोऽसौ धर्मं किल कथयति, तथा 'बहून्' भिक्षून् 'उपनीय' प्रभूतशि व्यपरिकरं कृत्वा भवद्विधानां च मुग्धजनानामिदानीं पृथक् पृथग्विस्तरेणाचष्टे धर्ममिति शेषः ॥ १ ॥ पुनरपि गोशालक एव 'साजीविए' त्याद्याह, येयं बहुजनमध्यगतेन धर्मदेशना युष्मद्गुरुणाऽऽरब्धा साऽऽजीविका प्रकर्षेण स्थापिता प्रस्थापिता, एकाकी विहरंल्लोकिकैः परिभूयत इतिमत्खा लोकपक्तिनिमित्तं महान् परिकरः कृतः, तथा चोच्यते- "छत्रं छात्रं पात्रं वस्त्रं यष्टिं च चर्चयति भिक्षुः । वेषेण परिकरेण च कियताऽपि विना न भिक्षापि ॥ १ ॥” तदनेन दम्भप्रधानेन जीविकार्थमिदमाख्धं । किंभूतेन :- अस्थिरेण, पूर्वं हायं मया सार्द्धमेकाक्यन्तप्रान्ताशनेन शून्यारामदेवकुलादौ वृत्तिं कल्पितवात् न च तथाभूतमनुष्ठानं
Jain Education International
For Private Personal Use Only
६ आर्द्रका
ध्ययन.
।। ३८८ ।।
www.jainelibrary.org