SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ सूत्रकृता २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥३५९॥ सूत्रकृताङ्ग २ थुतस्क वे शीला ङ्कीयावृतिः ॥३६०॥ 240 भवालय बायरकाए मणिविहाणा ॥ २ ॥ गोमेजए य रुपए अंके फलिहे य लोहियक्वे य । मरग यमसारगल्ले भुयमोयग इंदणीले य ॥ ३ ॥ चंदण गेरुय हंसगन्भ पुलए सोगंधिए य बोद्धवे । चंदप्पभ doलिए जलकंते सूरकंते य ॥ ४ ॥ एयाओ एएस भाणियवाओ गाहाओ जाव सुरकंतत्ताए विउति, ते जीवा तेसिं णाणाविहाणं तसधावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीरा णाणावण्णा जावमक्खायं, सेसा तिणि आलावगा जहा उद्गाणं ॥ ( सूत्र ६१ ) ॥ अथापरमेतत्पूर्वमाख्यातं इके सन्वाः पूर्वं नानाविधयोनिकाः स्वकृतकर्मवशा नानाविधत्र सस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु वा पृथिवीले नोत्पद्यन्ते, तद्यथा-सर्पशिरःसु मणयः करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपि शुत्यादिपु मौक्तिकानि स्थावरेष्वपि चेण्वादिषु तान्येवेति एवमचितेषूपरादिषु लवणभावेनोत्पद्यन्ते, तदेवं पृथिवीकायिका नानाविधासु पृथिवीपु | शर्करावा लुकोपलशिलालवणादिभावेन तथा गोमेदकादिरत्नभावेन च बादरमणिविधानतया समुत्पद्यन्ते, शेपं सुगमं यावच्चखारोऽप्यालापका उदकगमेन नेतव्या इति । साम्प्रतं सर्वोपसंहारद्वारेण सर्वजीवान् सामान्यतो विभणिपुराह अहावरं पुरक्खायं सधे पाणा सबै भूता सबै जीवा सबै सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविबुकमा सरीरजोणिया सरीरसंभवा सरीरवुक्कमा सरीराहारा कम्मोवगा कम्मनियाणा कम्मगतीया कम्मठिया कम्मणा चैव विप्परिया समुबेंति ।। से एवमायाणह से एवमायाणित्ता आहारगुत्ते सहिए समिए सयाजए सिबेमि ॥ ( सूत्रं ६२ ) ॥ वियसुयक्खंधस्स आहारपरिण्णा णाम तईयमज्झयणं समन्तं ॥ अथापरमेतदाख्यातं, तद्यथा - सर्वे 'प्राणा:' प्राणिनोऽत्र च प्राणिभूतजीवसत्त्वशब्दाः पर्यायत्वेन द्रष्टव्याः कथञ्चिद्भेदं वाssश्रित्य व्याख्येयाः, ते च नानाविधयोनिका नानाविधासु योनिषूत्पद्यन्ते, नारकतिर्यङ्नरामराणां परस्परगमन संभवात, ते च यत्र यत्रोत्पद्यन्ते तत्तच्छरीराण्याहारयन्ति, तदाहारवन्तश्च तत्रागुप्तास्तद्द्वारायाततत्कर्मवशगा नारकतिर्यङ्गनरामर गतिषु जघन्यमध्यमोत्कृष्टस्थितयो भवन्ति, अनेनेदमुक्तं भवति यो यादृहि भवे स तादृगेवामुत्रापि भवतीत्येतन्निरस्तं भवति, अपितु कर्मोपगाः कर्मनिदानाः कर्मायत्तगतयो भवन्ति, तथा तेनैव कर्मणा सुखलिप्सवोऽपि तद्विपर्यासं दुःखमुपगच्छन्तीति ॥ साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह - यदेतन्मयाऽऽदितः प्रभृत्युक्तं, तद्यथा - यो यत्रोत्पद्यते स तच्छरीराहारको भवति आहारागुप्तश्च कर्मादत्ते कर्मणा च नानाविधासु योनिषु अरहट्टघटीन्यायेन पौनःपुन्येन पर्यटतीत्येवमाजानीत यूयं एतद्विपर्यासे दुःखमुपगच्छन्तीति । एतत्परिज्ञाय च सदसद्विवेक्याहारगुप्तः पञ्चभिः समितिभिः समितो यदिवा सम्यग्ज्ञानादिके मार्गे इतोगतः समितः तथा सह हितेन वर्तते सहितः सन् सदा-सर्वकालं यावदुच्छ्रासं तावद्यतेत - सत्संयमानुष्ठाने प्रयत्नवान् भवेदिति । इतिः परिसमाप्त्यर्थे, ब्रवीमीतिपूर्ववत् । गतोऽनुगमः । साम्प्रतं नयाः, ते च प्राग्वद् द्रष्टव्याः ॥ समाप्तमाहारपरिज्ञाख्यं तृतीयमध्ययनम् ॥ ३ ॥ इति श्रीसूत्रकृदङ्गे द्वितीयश्रुतस्कन्धे आहारपरिज्ञाख्यं तृतीयमध्ययनं सवृत्तिकं समाप्तिमगात् अथ द्वितीयश्रुतस्कन्धे चतुर्थप्रत्याख्यानाध्ययनप्रारम्भः ॥ 50% तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने आहारागुप्तस्य कर्मबन्धोऽभिहितोऽतोऽत्र तत्प्रत्याख्यानं प्रतिपाद्यते, यदिवोत्तरगुणसंपादनार्थ शुद्धेतराहार विवेकार्थमाहारपरिज्ञोक्ता, सा चोत्तरगुणरूपा प्रत्याख्यानक्रियासमन्वितस्य भवतीत्यत आहारपरिज्ञानन्तरं प्रत्याख्यानक्रियाध्ययनमारभ्यते इत्यनेन संबन्धेनायातस्यास्याध्ययन स्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा - इह कर्मोपादानभूतस्याशुभस्य प्रत्याख्यानं प्रतिपाद्यत इति । साम्प्रतं निक्षेपः, तत्राप्योघ निष्पन्नेऽध्ययनं नामनिप्पने प्रत्याख्यानक्रियेति द्विपदं नाम, तत्र प्रत्याख्यानपद निक्षेपार्थं निर्युक्तिकृदाह Jain Education International णामंठवणादविए अहच्छ पडिसेहए य भावे य । एसो पचवाणस्स छत्रिहो होइ निक्रखेवो ॥ १७९ ॥ मूलगुणेसु य पायं पञ्चवाणे इहं अधीगारो । होज हु तप्पचइया अव्यञ्चक्रवाण किरिया उ ॥ १८० ॥ नामस्थापनाद्रव्यादित्साप्रतिषेधभावरूपः प्रत्याख्यानस्यायं पोढा निक्षेपः, तत्रापि नामस्थापने सुगमे, द्रव्यप्रत्याख्यानं तु द्रव्यस्य द्रव्येण द्रव्याद् द्रव्ये द्रव्यभूतस्य वा प्रत्याख्यानं द्रव्यप्रत्याख्यानं, तत्र सचित्ताचित्तमिश्रभेदस्य द्रव्यस्य प्रत्याख्यानं द्रव्यप्रत्याख्यानं, द्रव्यनिमित्तं वा प्रत्याख्यानं यथा धम्मिल्लस्य, एवमपराण्यपि कारकाणि स्वधिया योजनीयानि, तथा दातु For Private Personal Use Only ३ आहारपरिज्ञाध्य. ॥३५९ ॥ ४ प्रत्याख्यानाध्य ॥३६०॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy