________________
सूचक ६१
सूत्रकृताङ्गे २ श्रुतस्क न्वे शीलाङ्कीयावृत्तिः
॥३६१॥
241
मिच्छा दित्सा न दित्सा अदित्सा तया प्रत्याख्यानमदित्साप्रत्याख्यानं - सत्यपि देये सति च संप्रदानकारके केवलं दातुर्दातुमिच्छा नास्तीत्यतोऽदित्साप्रत्याख्यानं, तथा प्रतिपेधप्रत्याख्यानमिदं तद्यथा- विवक्षितद्रव्याभावाद्विशिष्टसंप्रदानकारकाभावादा सत्यामपि दित्सायां यः प्रतिषेधस्तत्प्रतिषेधप्रत्याख्यानं, भावप्रत्याख्यानं तु द्विधा - अन्तःकरणशुद्धस्य साधोः श्रावकस्य वा | मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं चेति, चशब्दादेतद् द्विविधमपि नोआगमतो भावप्रत्याख्यानं द्रष्टव्यं नान्यदिति । साम्प्रतं क्रियापदं निक्षेप्तव्यं तच्च क्रियास्थानाध्ययने निक्षिप्तमिति न पुनर्निक्षिप्यते । इह पुनर्भावप्रत्याख्यानेनाधिकार इति दर्शयितुमाह- मूलगुणाः- प्राणातिपात विरमणादयस्तेषु प्रकृतम् - अधिकार: प्राणातिपातादेः प्रत्याख्यानं कर्तव्यमितियावत् 'इट' | प्रत्याख्यानक्रियाध्ययनेऽर्थाधिकारो, यदि मूलगुणप्रत्याख्यानं न क्रियते ततोऽपायं दर्शयितुमाह-प्रत्याख्यानाभावेऽनियतत्वाद्यत्किञ्चनकारितया तत्प्रत्ययिका - तन्निमित्ता भवेद् उत्पद्येत अप्रत्याख्यानक्रिया - सावधानुष्ठानक्रिया तत्प्रत्ययिकश्च कर्मबन्धः | तन्निमित्तच संसार इत्यतः प्रत्याख्यानक्रिया मुमुक्षुणा विधेयेति । गतो नामनिष्पत्रो निक्षेप:, अधुना मूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तचेदम्
सुयं मे आउसंतेगं भगवया एवमक्ग्वायं-इह खलु पञ्चक्खाणकिरियाणामज्झयणे, तस्स णं अयमट्ठे पण्णते आया अपचक्खाणी यावि भवति आया अकिरियाकुसले यावि भवति आया मिच्छासंठिए यावि भवति आया एगंतदंडे यावि भवति आया एगंतवाले यावि भवति आया एगंतसुत्ते यावि भवति आया अवियारमणवयणकायवक्के यावि भवति आया अप्पडियअपचक्रखायपावकम्मे यावि भवति,
एस खलु भगवता अक्खाए असंजते अविरते अप्पडिहयपचक्खायपावकम्मे सकिरिए असंबुडे ए तदंडे एगंतबाले एगंतसुते, से बाले अवियारमणवयणकायव सुविणमवि ण परसूति, पावे य से कम्मे कज्जइ ॥ (सूत्रं ६३ ) ॥
अस्य चानन्तरपरम्परमुत्रैः सह संबन्धो वक्तव्यः स चायम् - इहानन्तराध्ययनपरिसमाप्ताविदं सूत्रम् ' आहारगुप्तः समितः सहितः सदा यतेतेति एतन्मया श्रुतमायुष्मता भगवतेदमाख्यातम्, एवमनया दिशा परम्परसूत्रैरपि संबन्धोऽभ्यूः 'इ' अस्मिन् प्रवचने सूत्रकृताङ्गे वा 'स्खल्वि' ति वाक्यालङ्कारे प्रत्याख्यानक्रियानामाध्ययनं तस्यायमर्थो - वक्ष्यमाणलक्षणः, अततीत्यात्मा - जीवः प्राणी, स चानादि मिथ्यात्वाविरतिप्रमादकपाययोगानुगततया स्वभावत एवाप्रत्याख्यान्यपि भवति, अपिशब्दात्स एव कुतश्चिन्निमित्तात्प्रत्याख्यान्यपि, तत्रात्मग्रहणमपरदर्शनव्युदासार्थं, तथाहि - साज्ञयानामप्रच्युतानुत्पन्नस्थिरैकस्वभाव आत्मा, सच तृणकुनीकरणेऽप्यसमर्थतया किञ्चित्करत्वान्न प्रत्याख्यानक्रियायां भवितुमर्हति, बौद्धानामप्यात्मनोऽभावात् ज्ञानस्य च क्षणिक| तया स्थितेरभावात् कुतः प्रत्याख्यानक्रियेति, एवमन्यत्रापि प्रत्याख्यानक्रियाया अभावो वाच्यः, तथा सदनुष्ठानं क्रिया तस्यां कुशल: क्रियाकुशलस्तत्प्रतिषेधादक्रिया कुशलोऽप्यात्मा भवति, तथाऽऽत्मा मिथ्यात्वोदयसंस्थितोऽपि भवति, तथैकान्तेनापरान प्राणिनो दण्डयतीति दंडस्तदेवंभूतश्वात्मा भवति, तथाऽसारतापादनाद्रागद्वेषाकुलितवाद्वालद्वाल आत्मा भवति, तथा सुप्तवत्सुतः, यथा हि द्रव्यसुप्तः शब्दादीन् विषयान् न जानाति हिताहितप्राप्तिपरिहारविकलश्च तथा भावसुप्तोऽप्यात्मैवंभूत एव भवतीति, एवमविचारणीयानि अशोभनतया निरूपणीयान्यपर्यालोचनीयानि मनोवाक्कायवाक्यानि यस्य स तथा तत्र मनः - अन्तःकरणं वाग-वाणी कायो- देहः अर्थप्रतिपादकं पदसमूहात्मकं वाक्यमेकतिर सुत्रन्तं वा, तत्र वाग्ग्रहणेनैव वाक्यस्य गतार्थत्वाद्यत्पुन - वक्यग्रहणं करोति तदेवं ज्ञापयति- इह वाग्व्यापारस्य प्रचुरतया प्राधान्यं प्रायशस्तत्प्रवृत्त्यैव प्रतिषेधविधानयोरन्येषां प्रवर्त्तनं भवति, तदेवमप्रत्याख्यानाक्रियः सन् आत्माऽविचारितमनोवाक्कायवाक्यश्चापि भवतीति, तथा प्रतिहतं प्रतिस्खलितं प्रत्याख्यातंनिराकृतं विरतिप्रतिपच्या पापकर्म-असदनुष्टानं येन स प्रतिहत प्रत्याख्यातपापकर्मा तत्प्रतिषेधादसदनुष्ठानपरश्वात्मा भवतीति । तदेवमेष- पूर्वोक्तोऽसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकर्मा सक्रियः ससावद्यानुष्ठानः, तथाभूतश्चासंवृतो मनोवाक्कायैरगुप्तोऽणुसत्वाचात्मनः परेषां च दण्डहेतुखाद्दण्डः, तदेवंभूतश्च सन् एकान्तेन बालवङ्गालः सुप्तवदेकान्तेन सुप्तः, तदेवंभूतश्च बालमुप्ततया विचाराणि - अविचारितरमणीयानि परमार्थविचारणया युक्त्या वा विघटमानानि मनोवाक्कायवाक्यानि यस्य स तथा यदिवा परसंबन्ध्यविचारितमनोवाक्कायवाक्यः सन् क्रियासु प्रवर्त्तते, तदेवंभूतो निर्विवेकतया पडुविज्ञानरहितः स्वप्नमपि न पश्यति, तस्य | चाव्यक्तविज्ञानस्य स्वममप्यपश्यतः पापं कर्म बध्यते, तेनैवंभूतेनाव्यक्तविज्ञानेनापि पापं कर्म क्रियत इति भावः ॥ तत्र चैवं व्यवस्थिते चोदकः प्रज्ञापकमेवमवादीत् अत्र चाचार्याभिप्रायं चोदकोऽनूद्य प्रतिषेधयति -
तत्थ चोयए पन्नवर्ग एवं वयासि-असंतएणं मणेणं पावएणं असंतियाए वतीए पावियाए असंतपणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयकायवकस्स सुविणमवि अपस्सओ पावकम्मे णो कज्जइ, कस्स णं तं हे ?, चोयए एवं बवीति-अन्नयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे कज्जड़, अन्नयरीए वतिए पावियाए वतिवत्तिए पावे कम्मे कज्जइ, अन्नयरेणं कारणं पावएणं कायवत्तिए पावे कम्मे
Jain Education International
For Private Personal Use Only
४ प्रत्याख्याना०
अविरतस्य
पापवन्धः
॥३६२॥
www.jainelibrary.org