________________
सूत्रकृताने
२ शुतस्कबेशीलाङ्गीयावृत्तिः
॥३२९॥
सूत्रकृताने २ शुतस्क न्वे शीलाकीयावृतिः
॥३३० ॥
220
सर्वातिशायिनी इच्छा -अन्तःकरणप्रवृत्तिर्येषां ते महेच्छाः, तथा महानारम्भो वाहनोष्ट्रमण्डलिकागश्रीप्रवाहकपिपण्डवोषणादिको येषां ते महारम्भाः, ये चैवंभूतास्ते महापरिग्रहाः - धनधान्यद्विपदचतुष्पदवास्तुक्षेत्रादिपरिग्रहवन्तः कचिदप्यनिवृत्ताः, अत एवाधर्मेण चरन्तीत्याधर्मिकाः, तथा अधर्मिष्ठा नित्रिंशकर्मकारित्वादधर्मबहुलाः ततश्राधर्मे कर्तव्ये अनुज्ञा - अनुमोदनं येषां ते भवन्त्यधर्मानुज्ञाः, एवमधर्मम् आख्यातुं शीलं येषां ते तथा, एवमधर्मप्रायजीविनः, तथा अधर्ममेव प्रविलोकयितुं शीलं येषां ते भवन्त्यधर्मप्रविलोकिनः, तथा अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यन्त इति अधर्मप्ररक्ताः, रलयोरैक्यमिति रख स्थाने लकारो कृत इति, तथाऽधर्मशीला अधर्मस्वभावाः तथाऽधर्मात्मकः समुदाचारो - यत्किञ्चनानुष्ठानं येषां ते भवन्त्यधर्मशीलसमुदाचाराः, | तथाऽधर्मेण पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिर्लाञ्छनादिकेन कर्मणा वृत्तिः - वर्तनं 'कल्पयन्तः' कुर्वाणा 'विहरन्ती' ति कालमतिवाहयन्ति || पापानुष्ठानमेव लेशतो दर्शयितुमाह-'हण छिन्द भिन्दे' त्यादि स्वत एव हननादिकाः क्रियाः कुर्वाणा अपरेषामप्येवमात्मकमुपदेशं ददति, तत्र हननं दण्डादिभिस्तत्कारमन्ति तथा छिन्द्रि कर्णादिकं भिन्द्रि शूलादिना, विकर्तकाः -प्राणिनामजिनापनेतारः अत एव लोहितपाणयः, तथा चण्डा रौद्रा-निखिशाः क्षुद्राः क्षुद्रकर्मकारितात् तथा 'साहसिका' असमीक्षितकारिणः, तथा उत्कृश्चनवश्वचनमायानिकृतिकूटकपटादिभिः सहातिसंप्रयोगो – गार्ध्यं तेन बहुलाः- तत्प्रचुरास्ते तथा, | तत्रोर्ध्वं कुनं-- शूलाधारोपणार्थमुत्कुञ्चनं वञ्चनं प्रतारणं तत् यथा अभयकुमारः प्रद्योतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः माया - वञ्चनबुद्धिः प्रायो वणिजामिव निकृतिस्तु बकवृच्या कुर्कुटादिकरणेन दम्भप्रधानवणिक्श्रोत्रियसाध्वाकारेण परवञ्चनार्थं । गलकर्तकानामिवावस्थानं, देशभाषानेपथ्यादिविपर्ययकरणं कपटं यथा आषाढभूतिना नटेने वापरापरवेदपरावृस्याऽऽचार्योपाध्यायसंचारकात्मार्थ चलारो मोदका अवाप्ताः, कूटं तु कार्षापणतुलाप्रस्थादेः परवञ्चनार्थं न्यूनाधिककरणम्, एतैरुत्कुञ्चनादिभिः सहातिशयेन संप्रयोगो यदिवा-सातिशयेन द्रव्येण कस्तूरिकादिनाऽवरस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगस्तद्बहुलाः- तत्प्रधाना इत्यर्थः, उक्तं च- "सो होई सातिजोगो दवं जं छादिवण्णदवेसु । दोसगुणा वयणेमु य अत्थविसंवायणं कुणइ ॥ १ ॥” एते चोत्कृश्वनादयो मावापर्याया इन्द्रशक्रादिवत् कथञ्चित्क्रियाभेदेऽपि द्रष्टव्याः । तथा दुष्टं शीलं येषां ते दुःशीलाः| चिरमुपचरिता अपि क्षिप्रं विसंवदन्ति, दुःखानुमेया दारुण स्वभावा इत्यर्थः तथा दुष्टानि व्रतानि येषां ते तथा यथा मांसभक्षणत्रतकालसमाप्तौ प्रभूततरसच्वोपघातेन मांसप्रदानम्, अन्यदषि नक्तभोजनादिकं तेषां दुष्टव्रतमिति, तथाऽन्यस्मिन् जन्मान्तरे मधुमद्यमांसादिकमभ्यवहरिष्यामीत्येवमज्ञानान्धा जन्मान्तरविधिद्वारेण सनिदानमेव व्रतं गृह्णन्ति तथा दुःखेन प्रत्यानन्द्यन्ते दुष्प्रत्यानन्याः, इदमुक्तं भवति-तैरानन्दितेनापरेण केनचित्प्रत्युपकारे सुना गर्वाध्माता दुःखेन प्रत्यानन्द्यन्ते, यदिवा सत्यप्यु|पकारे प्रत्युपकारभीरवो नैवानन्द्यन्ते प्रत्युत शठतयोपकारे दोषमेवोत्पादयन्ति, तथा चोक्तम् – “प्रतिकर्तुमशक्तिष्टा, नराः पूर्वोपकारिणाम् । दोषमुत्पाद्य गच्छन्ति, महूनामिव वायसाः ॥ १ ॥ " यत एवमतोऽसाधनले पापकर्मकारिखात्, तथा 'यावज्जीवं ' यावत्प्राणधारणेन सर्वस्मात्प्राणातिपातादप्रतिविरता लोकनिन्दनीयादपि ब्राह्मणवातादेरविरता इति सर्वग्रहणं, एवं सर्वस्मादपि कूटसाक्ष्यादेरप्रतिविरता इति, तथा सर्वस्मात्खीवालादेः परद्रव्यापहरणादविरताः, तथा सर्वस्मात्परस्त्रीगमनादे मैथुनादविरताः, एवं सर्वस्मात्परिग्रहाद्योनिपोषकादप्यविरताः, एवं सर्वेभ्यः क्रोधमानमायालो मेभ्योऽविरताः, तथा प्रेमद्वेषकलहाभ्याख्यानपैशुन्य१ स भवति सातियोगो द्रव्यं यच्छादयित्वाऽन्यद्रव्यैः दोषगुणांश्च वचनैरर्थविसंवादनं करोति ॥ १ ॥
परपरिवादारतिरतिमा वामृषावादमिध्यादर्शनशल्यादिभ्योऽतदनुष्ठानेभ्यो यावज्जीवं येऽप्रतिविरता भवन्तीति । तथा सर्वस्मात्त्रानोन्मर्द न वर्णकविलेपनशब्दस्पर्शरूपरसगन्धेमाल्यालङ्कारात्कामाङ्गान्मोहजनितादप्रतिविरता यावज्जीवयेति, इह च वर्णकग्रहणेन | वर्गविशेषापादकं लोधादिकं गृह्यते, तथा सर्वतः शकटरथादेर्यानविशेषादिकात्प्रतिविस्तर विधेः परिकररूपात्परिग्रहाद प्रति निरताः, | इह च शकटरथादिकमेव यानं शकटरथयानं, युग्यं - पुरुषोत्क्षिप्तमाकाशयानं 'गिल्लि चि पुरुषद्वयोत्क्षिप्ता झोल्लिका 'थिल्लि'ति वेगसराद्वय विनिर्मितो यान विशेषः तथा 'संद्माणिय'त्ति शिविकाविशेष एव तदेवमन्यस्मादपि वस्त्रादेः परिग्रहादुपकरणभूताद| बिरताः, तथा सर्वतः - सर्वस्मात्क्रयविक्रयाभ्यां करणभूताभ्यां यो माषकार्धमाषकरूपकार्षापणादिभिः पण्यविनिमयात्मकः सं| व्यवहारस्तस्मादविरता यावज्जीवयेति, तथा सर्वस्माद्धिरण्यसुवर्णादेः प्रधानपरिग्रहादविरताः, तथा कूटतुलकूटमानादेरविरताः, तथा सर्वतः कृषिपाशुपाल्यादेर्यत्स्वतः करणमन्येन च यत्किञ्चित्कारयति तस्मादविरताः, तथा पचनपाचनतः तथा कण्डनकुट्टनपिट्टनतर्जनताडनबधबन्धादिना यः परिक्लेशः प्राणिनां तस्मादविरताः, साम्प्रतमुपसंहरति ये चान्ये तथाप्रकाराः परपीडाकारिणः सानद्याः कर्मसमारम्भा अबोधिकाः- बोद्ध्यभावकारिणः तथा परप्राणपरितापनकरा - गोग्राहबन्दिग्रहग्रामघातात्मका येऽनामैंः क्रूरकर्मभिः क्रिमन्ते ततोऽप्रतिविरता यावञ्जीवयेति ॥ पुनरन्यथा बहुप्रकारमधार्मिकपदं प्रतिपिपादयिषुराह - 'तद्यथे' - त्युपप्रदर्शनार्थी नामशब्दः संभावनायां, संभाव्यते अस्मिन्विचित्रे संसारे केचनैवंभूताः पुरुषाः ये कलममसूर तिलमुद्गादिषु पच|नपाचनादिकया क्रियया स्वपरार्थमयता - अप्रयत्नवन्तो निष्कृपाः क्रूरा मिध्यादण्डं प्रयुञ्जन्ति, मिथ्यैव-अनपराधिष्वेव दोषमा| रोप्य दण्डो मिथ्यादण्डस्तं विदधति, तथैवमेव-प्रयोजनं विनैव तथाप्रकाराः पुरुषा निष्करुणा जीवोपघातनिरतात्तित्तिरवर्तकला
Jain Education International
For Private Personal Use Only
२ क्रियास्थानाध्य०
अधर्मपक्ष
वन्तः
॥ ३२९ ॥
२ क्रिया
स्थानाध्य० अधपक्षबन्तः
||३३०॥
www.jainelibrary.org