________________
सूत्रकृताङ्गे २ श्रुतस्कवे शीलाहीयावृत्तिः
॥३०७॥
205
यत्प्रथमनुपातं दण्डसमादानमर्थाय दण्ड इत्येवमाख्यायते तस्यायमर्थः, तद्यथा नाम कचित्पुरुषः, पुरुषग्रहणमुपलक्षणं | सर्वोऽपि चातुर्गतिकः प्राणी 'आत्मनिमित्तम्' आत्मार्थ तथा 'ज्ञातिनिमित्तं' खजनाद्यर्थ तथा अगारं गृहं तनिमित्तं तथा 'परिवारो' दासीकर्मकरादिकः परिकरो वा - गृहादेर्वृत्यादिकस्तभिमित्तं तथा मित्रनागभूतयक्षाद्यर्थं 'तं' तथाभूतं स्वपरोपघातरूपं दण्डं सस्थावरेषु प्राणिषु स्वयमेव 'निसृजति' निक्षिपति, दण्डमिव दण्डमुपरि पातयति, प्राण्युपमर्दकारिणीं क्रियां करोतीत्यर्थः, तथाऽन्येनापि कारयति, अपरं दण्डं निसृजन्तं समनुजानीते, एवं कृतकारितानुमतिभिरेव तस्यानात्मज्ञस्य तत्प्रत्ययिकं सावधक्रियोपासं कर्म 'आधीयते' संबध्यते इति । एतत्प्रथमं दण्डसमादानमर्थदण्डप्रत्ययिकमित्याख्यातमिति ॥
अहावरे दोचे दंडसमादाणे अणद्वादंडवन्सिएन्ति आहिज्जइ, से जहाणामए केइ पुरिसे जे इमे तसा पाणा भवंति ते णो अचाए णो अजिणाए णो मंसाए णो सोणियाए एवं हिययाए पित्ताए बसाए पिच्छाए पुच्छा बालाए सिंगाए बिसाणाए दंताए दाढाए हाए पहारुणिए अट्ठीए अट्ठिमंजाए णो हिंसिंस मेसि णो हिंसंति मेति णो हिंसिस्संति मेति णो पुत्तपोसणाए णो पसुपोसणयाए णो अगारपरिवहणताएं णो समणमाहणवन्तणाहेउं णो तस्स सरीरगस्स किंचि विप्परियादिता भवंति से हंता ऐसा भेता लुपहसा विलुपइसा उवहसा उज्झिउं बाले बेरस्स आभागी भवति, अणट्ठादंडे ॥ से जहाणामए केइ पुरि
इमे थावरा पाणा भवंति, तंजहा इकडा इ वा कडिणा इ वा जंतुगा इ वा परगा इ वा मोक्खा ह वा तणावा कसा इ वा कुच्छगा इ वा पचगा इ वा पलाला इ वा, ते णो पुतपोसणाए णो पसुपोसory णो अगारपडिवूहणयाए णो समणमाहणपोसणयाए णो तस्स सरीरगस्स किंचि विपारयाइत्ता भवं ति, से हंता छेप्ता भेसा लुंपइन्ता विलुंपइत्ता उद्दवत्ता उज्झिउं बाले वेरस्स आभागी भवति, अणट्ठादंडे ॥ से जहाणामए केइ पुरिसे कच्छंसि वा दहंसि वा उदगंसि वा दवियंसि वा बलयंसि वा णूमंसि वा गहणंसि वा गहणविदुग्गंसि वा वणंसि वा वणविदुग्गंसि वा पद्वयंसि वा पवयविदुग्गंसि वा तणाई ऊसविय ऊसविय सयमेव अगणिकायं णिसिरति अण्णेणवि अगणिकायं णिसिरावेति अण्णंपि अगणिकायं णिसिरिंतं समणुजाणइ अणट्ठादंडे, एवं खलु तस्स तप्पत्तियं सावज्जन्ति आहिजइ, दोघे दंडसमादाणे अणद्वादंडवत्तिएन्ति आहिए ॥ सूत्रम् १८ ॥
तथापरं द्वितीयं दण्डसमादानमनर्थदण्डप्रत्ययिकमित्यभिधीयते, तदधुना व्याख्यायते, तद्यथा नाम कचित्पुरुषो निर्निमित्तमेव निर्विवेकतया प्राणिनो हिनस्ति, तदेव दर्शयितुमाह- 'जे इमे' इत्यादि, ये केचन 'अमी' संसारान्तर्वर्तिनः प्रत्यक्षा वस्तादयः प्राणिनस्तांश्चासौ हिंसाच शरीरं 'नो' नैवाचयै हिनस्ति, तथाऽजिनं चर्म नापि तदर्थम् एवं मांसशोणितहृदयपित्तवसा पिच्छपुच्छवालशृङ्ग विषाणनखस्त्राय्वस्थ्यस्थिमज्जा इत्येवमादिकं कारणमुद्दिश्य, नैवाहिंसिषुर्नापि हिंसन्ति नापि हिंसयिष्यन्ति मां मदीयं चेति, तथा नो 'पुत्रपोषणाये 'ति पुत्रादिकं पोषयिष्यामीत्येतदपि कारणमुद्दिश्य न व्यापादयति, तथा नापि पशूनां पोषणाय, तथाऽगारं गृहं तस्य परिबृंहणम् - उपचयस्तदर्थं वा न हिनस्ति, तथा न श्रमणभाक्षणवर्तनाहेतुं, तथा यत्तेन पालयितुमारब्धं नो तस्य शरीरस्य किमपि परित्राणाय 'तत्' प्राणव्यपरोपणं भवति इत्येवमादिकं कारणमनपेक्ष्यैवासौ क्रीडया तच्छीलतया व्यसनेन वा प्राणिनां हन्ता भवति दण्डादिभिः तथा छेसा भवति कर्णनासिकाविकर्तनतः तथा मेला शूलादिना तथा लुम्पयिता | अन्यतराङ्गावयवविकर्तनतः तथा विलम्ब यिता अक्ष्युत्पाटनचर्मविकर्तनकरपादादिच्छेदनतः परमाधार्मिकवत्प्राणिनां निर्निमित्तमेव नानाविधोपायैः पीडोत्पादको भवति तथा जीवितादप्यपद्रावयिता भवति, स च सद्विवेकमुज्झित्वाऽऽत्मानं वा परित्यज्य बालवडाल :- अज्ञोऽसमीक्षितकारितया जन्मान्तरानुबन्धिनो वैरस्याभागी भवति, तदेवं निर्निमित्तमेव पश्चेन्द्रियप्राणिपीडनतो यथाऽन| र्थदण्डो भवति तथा प्रतिपादितम् अधुना स्थावरानधिकृत्योच्यते- 'से जहे' त्यादि, यथा कश्चित्पुरुषो निर्विवेकः पथि गच्छन् वृक्षादेः पल्लवादिकं दण्डादिना प्रध्वंसयन् फलनिरपेक्षस्तच्छीलतया व्रजति, एतदेव दर्शयति- 'जे इमे' इत्यादि, ये केचन | 'अमी' प्रत्यक्षाः स्थावरा वनस्पतिकायाः प्राणिनो भवन्ति, तद्यथा इकडादयो वनस्पतिविशेषा उत्तानार्थास्तदिहेयमिकडा ममानया प्रयोजनमित्येवमभिसंधाय न छिनत्ति, केवलं तत्पत्रपुष्पफलादि निरपेक्षस्तच्छीलतया छिनचीत्येतत्सर्वत्रानुयोजनीयमिति, तथा न पुत्रपोषणाय नो पशुपोषणाय नागारप्रतिबृंहणाय न श्रमण ब्राह्मणवृत्तये नापि शरीरस्य किश्चित्परित्राणं भविष्यतीति, केवलमेव| मेवासौ वनस्पतिं हन्ता छेत्तेत्यादि यावजन्मान्तरानुबन्धिनो वैरस्याभागी भवति, अयं वनस्पत्याश्रयोऽनर्थदण्डोऽभिहितः ॥ साम्प्रतमम्पाश्रितमाह - ' से जहे 'त्यादि, तद्यथा नाम कश्चित्पुरुषः सदसद्विवेकविकलतया कच्छादिकेषु दशसु स्थानेषु वनदुर्गपर्य - न्तेषु तृणानि - कुशपुष्पकादीनि पौनःपुन्येनोर्ध्वाधः स्थानि कृता 'अग्निकार्य' हुतभुजं 'निस्सृजति' प्रक्षिपत्यन्येन वाऽग्निकार्यं बहुसच्चापकारिणं दवार्थ 'निसर्जयति' प्रक्षेपयत्यन्यं च निसृजन्तं समनुजानीते। तदेवं योगत्रिकेण कृतकारितानुमतिभिस्तस्य
Jain Education International
For Private Personal Use Only
२ क्रियास्थानाध्य| अनर्थदण्डः
॥३०७॥
www.jainelibrary.org