________________
सूत्रकृताङ्गे २ श्रुतस्क
न्धे शीला
कीयावृत्ति:
॥३०४॥
203
अथ द्वितीयक्रिया स्थानाख्याध्ययनस्य प्रारम्भः ॥
व्याख्यातं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने पुष्करिणीपौण्डरीकदृष्टान्तेन | तीर्थिकाः सम्ममोक्षोपायाभावात्कर्मणां बन्धकाः प्रतिपादिताः, सत्साधवश्च सम्यग्दर्शनादिमोक्षमार्गप्रवृत्तत्वान्मोचकाः सदुपदेशदानतोऽपरेषामपीति । तदिहापि यथा कर्म द्वादशभिः क्रियास्थानैर्बध्यते यथा च त्रयोदशेन मुच्यते तदेतत्पूर्वोक्तमेव बन्धमोक्षयोः प्रतिपादनं क्रियते, अनन्तरसूत्रेण चायं संबन्धः, तद्यथा - भिक्षुणा चरणकरणविदा कर्मक्षपणायोद्यतेन द्वादश क्रियास्थानानिकर्मबन्धकारणानि सम्यक् परिहर्तव्यानि तद्विपरीतानि च मोक्षसाधनानि आसेवितव्यानि इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चखार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-कर्मणां बन्धोऽनेन प्रतिपाद्यते तद्वि| मोक्षश्रेति । नाम निष्पन्ने तु निक्षेपे क्रियास्थानमिति द्विपदं नाम, तत्रापि क्रियापदनिक्षेपार्थं प्रस्तावमारचयन्निर्युक्तिकृदाहकिरियाओ भणियाओ किरियाठाणंति तेण अज्झयणं । अहिगारो पुण भणिओ बंधे तह मोक्खमग्गे य ॥ १६५ ॥ दद्दे किरिएजणया थ पयोगुवायकरणिज्जसमुदाणे । इरियावहसंमन्ते सम्मामिच्छा य मिच्छते ॥ १६६ ॥ | नामं ठबणा दविए खेतेऽद्धा उह उवरती बसही । संजमपग्गहजोहे अचलगणण संघणा भावे ॥ १६७ ॥ संमुदाणियाणिह तओ संमषउत्ते य भावठाणंमि । किरियाहिं पुरिस पावाइए उ सवे परिक्खेज्जा ॥ १६८ ॥
तत्र क्रियन्त इति क्रियास्ताच कर्मबन्धकारणत्वेनाऽऽवश्य कान्तर्वर्तिनि प्रतिक्रमणाध्ययने 'पडिक्कमामि तेरसहिं किरियाठाणेहिं' ति अस्मिन्सूत्रे ऽभिहिताः । यदिवा इहैव क्रिया: 'भणिता' अभिहितास्तेनेदमध्ययनं क्रियास्थानमित्युच्यते । तच्च क्रियास्थानं क्रियावत्स्वेव भवति नाक्रियावत्सु, क्रियावन्तश्च केचिद्वध्यन्ते केचिन्मुच्यन्तेऽतोऽध्ययनार्थाधिकारः पुनरभिहितो बन्धे तथा मोक्षमार्गे | चेति । तत्र नामस्थापने सुगमलादनादृत्य द्रव्यादिकां क्रियां प्रतिषादयितुमाह-तत्र द्रव्ये - द्रव्यविषये या क्रिया एजनता 'एज | कम्पने' जीवस्थाजीवस्य वा कम्पनरूपा चलनस्वभावा सा द्रम्यक्रिया, सापि प्रयोगाद्विस्रसया वा भवेत्, तत्राप्युपयोगपूर्विका | वाऽनुपयोगपूर्विका ना अक्षिनिमेषमात्रादिका सा सर्वा द्रव्यक्रिनेति । भावक्रिया खियं, तद्यथा - प्रयोगक्रिया उपायक्रिया करणीयक्रिया समुदानक्रिया ईर्ष्यापथक्रिया सम्यक्लक्रिया सम्मन्निध्यातक्रिया मिध्यात्वक्रिया चेति । तत्र प्रयोगक्रिया मनोवाक्कायलक्षणा त्रिधा, तत्र स्फुरद्भिर्मनोद्रव्यैरात्मन उपयोगो भवति, एवं वाकाययोरपि वक्तव्यं, तत्र शब्दे निष्पाद्ये वाकाययोर्द्वयोरप्युपयोगः, तथा चोक्तम्- “गिण्ड य काइएणं णिसिरह वह बाइएण जोगेण" गमनादिका तु कायक्रियैव १, उपायक्रिया तु घटादिकं द्रव्यं येनोपायेन क्रियते, तद्यथा - मृत्खन नमर्दनचक्रारोपणदण्ड चक्रसलिलकुम्भकारव्यापारैर्यावद्भिरुपायैः क्रियते सा सर्वोपायक्रिया २, करणीयक्रिया तु यद्येन प्रकारेण करणीयं तत्तेनैव क्रियते नान्यथा, तथाहि - घटो मृत्पिण्डादिकयैव सामय्या क्रियते न पाषाणसिकतादिकयेति ३, समुदानक्रिया तु यत्कर्म प्रयोगगृहीतं समुदायावस्वं सत्प्रकृतिस्थित्यनुभावप्रदेशरूपतया
Jain Education International
१ आचाराहवृत्तिः " पत्रे । २ ०यं द्रष्टव्या प्र० । ३ काययोगयुक्तस्य । ४ प्रयोजनं व्यापारः । ५ ग्रहाति च कायिकेन निस्सारयति वाचिकेन योगेन यया व्यवस्थाप्यते सा समुदानक्रिया, सा च मिथ्यादृष्टेरारभ्य सूक्ष्मसंपरायं यावत् भवति ४, ईर्यापथक्रिया तूपशान्तमोहादारभ्य सयोगिकेवलिनं यावदिति ५, सम्यक्त्वक्रिया तु सम्यग्दर्शनयोग्याः कर्मप्रकृतीः सप्तसप्ततिसंख्या यया बध्नाति साऽभिधीयते ६, सम्यनिध्यात क्रिया तु तद्योग्याः प्रकृतीचतुःसप्ततिसंख्या यया क्रिमया बनाति साऽभिधीयते ७, मिथ्यातक्रिया तु सर्वा: प्रकृतीविंशत्युत्तरशतसंख्यास्तीर्थ क हार कशरीरतदङ्गोपाङ्गत्रिकरहिता यया बध्नाति सा मिध्याखक्रियेत्यभिधीयते ८ । साम्प्रतं स्थाननिक्षेपार्थमाह- इयं च गाथाऽऽचारप्रथमश्रुतस्कन्धे द्वितीयाध्ययने लोकविजयाख्ये ' जे गुणे से मूलट्ठाणे' इत्यत्र स्थानशब्दस्य सूत्रस्पर्शिक नियुक्त्यां प्रबन्धेन व्याख्यातेति नेह प्रतन्यते । इह पुनर्यया क्रियया येन च स्थानेनाधिकारस्तद्दर्शयितुमाहक्रियाणां मध्ये समुदानिका क्रिया या व्याख्याता, तस्याश्च कषायानुगतत्वात् बहवो भेदा यतस्ततस्तासां सामुदानिकानां क्रियाणामिह प्रकरणे 'तउत्ति अधिकारो व्यापारः, सम्यक्प्रयुक्ते च भावस्थाने, तच्चेह विरतिरूपं संयमस्थानं प्रशस्त भावसंघनारूपं च गृह्यते, सम्यक्प्रयुक्तभावस्थानग्रहणसामर्थ्यादर्यापथिकी क्रियापि गृह्यते, सामुदानिका क्रियाग्रहणाच्चाप्रशस्तभावस्थानान्यपि गृहीतानि, आभिव पूर्वोक्ताभिः क्रियाभिः पूर्वोक्तान् पुरुषान् तद्वारायातान्प्रावादुकांच परीक्षेत सर्वानपीति । यथा चैवं तथा स्वत एव मूत्रकार: 'तंजहा से एगइया मणुस्सा भवंती' त्यादिना तथा प्रावादुकपरीक्षायामपि 'णायओ उवगरणं च विप्पजहांय भिक्खायरियाए समुट्टिया' इत्यादिना वक्ष्यतीति । गतो निर्युक्त्यनुगमः, साम्प्रतं मूत्रानुगमेऽस्खलितादिगुणोपेतं मूत्रमुचारथितव्यं, तच्चेदम्
For Private Personal Use Only
२. क्रिया
स्थानाध्यय०क्रिया.
स्थानयोनिक्षेपाः
॥३०४॥
www.jainelibrary.org