________________
202 सूत्रकताले 18 कर्म स्वरूपतो विपाकतस्तदुपादानतश्च येन स पारनातकर्मा, तथा परिज्ञातः सङ्ग:-संबन्धः सबाह्याभ्यन्तरो येन स तथा, परि- पौण्डरी२ श्रुतस्क-18 ज्ञातो निःसारतया गृहवासो येन स तथा, उपशान्त इन्द्रियनोइन्द्रियोपशमात् , तथा समितः पञ्चभिः समितिभिः, तथा सह काध्यय० न्धे शीला-12 हितेन वर्तत इति सहितो ज्ञानादिभिर्वा सहितः-समन्वितः, 'सदा सर्वकालं 'यतः' संयतः प्राग्व्यावर्णितनियमकलापोपेतः, भिक्षावृत्तिः कीयावृत्तिः स एवंगुणकलापान्वित एतद्वचनीयः, तद्यथा-श्राम्यतीति श्रमणः सममना वा, तथा मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्तिः-18 का उपदेशो यस्य स माहनः स ब्रह्मचारी वा ब्राह्मणः, क्षान्तः स क्षमोपेतो, दान्त इन्द्रियनोइन्द्रियदमनेन, तथा तिसृभिर्गुप्तिभिर्गुप्तः,
तथा मुक्त इव मुक्तः, तथा विशिष्टतपश्चरणोपेतो महर्षिः, तथा मनुते जगतस्त्रिकालावस्थामिति मुनिः, तथा कृतमस्यास्तीति कृती पुण्यवान् परमार्थपण्डितो वा, तथा विद्वान् सद्विद्योपेतः, तथा भिक्षुर्निरवद्याहारतया भिक्षणशीलः, तथाऽन्तप्रान्ताहारखेन रूक्षः, | तथा संसारतीरभूतो मोक्षस्तदर्थी, तथा चर्यत इति चरणं-मूलगुणाः क्रियत इति करणम्-उत्तरगुणास्तेषां पारं-तीरं पर्यन्तग
| मनं तद्वत्तीति चरणकरणपारविदिति । इतिशब्दः परिसमाप्तौ । ब्रवीमीति तीर्थकरवचनादार्यः सुधर्मखामी जम्बूस्वामिनमुद्दिश्य ।। 18 एवं भणति-यथाऽहं न स्वमनीषिकया ब्रवीमीति ॥ साम्प्रतं समस्ताध्ययनोपात्तदृष्टान्तदाान्तिकयोस्तात्पर्यार्थ गाथाभिनियुक्ति-12
कद्दर्शयितुमाहउवमा य पुंडरीए तस्सेव य उवचएण निजुत्ती । अधिगारो पुण भणिओ जिणोवदेसेण सिद्धित्ति ॥१५८॥ ॥३०२॥ सुरमणुयतिरियनिरओवंगे मणुया पहू चरित्तम्मि । अविय महाजणनेयत्ति चकवहिमि अधिगारो ॥ १५॥ अघिय हुभारियकम्मा नियमा उकस्सनिरयठितिगामी। तेऽवि हु जिणोवदेसेण तेणेव भवेण सिझति ॥१६०॥ जलमालकहमाल बहुविहवल्लिगहणं च पुक्खरिणि । जंघाहि व बाहाहि व नावाहि व तं दुरवगाहं ॥ १६१ ।' पउमं उल्लंघेत्तुं ओयरमाणस्स होइ वावती। किं नथि से उवाओ जेणुलंघेज अविवन्नो ॥ १६२॥ विजा व देवकम्म अहवा आगासिया विउच्चणया । पउमं उल्लंघेत्तुं न एस इणमो जिणक्खाओ ।। १६३ ॥ सुद्धप्पओगविजा सिद्धा उ जिणस्स जाणणा बिज्जा । भवियजणपोंडरीया उ जाए सिद्धिगतिमुवेति ॥ १६४॥
इह 'उपमा' दृष्टान्तः 'पौण्डरीकेण' श्वेतशतपत्रेण कृतः, तस्बेहाभ्यर्हितखात्, तस्यैव चोपचयेन सर्वावयवनिष्पत्तिर्यावद्विशिष्टोपायेनोद्धरणं, दार्शन्तिकाधिकारस्तु पुनरत्र भणितः-अभिहितश्चक्रवादेर्भव्यस्य जिनोपदेशेन सिद्धिरिति, तस्यैव पूज्यमानखादिति । पूज्यखमेव दर्शयितुमाह-'सुरमणुय' इत्यादि, सुरादिषु चतुर्गतिकेषु जन्तुषु मध्ये मनुजाश्चरित्रस्य-सर्वसंवररूपस्य प्रभवः-18 शक्ता वर्तन्ते, न शेषाः सुरादयः, तेष्वपि मनुजेषु महाजननेतारश्चक्रवर्त्यादयो वर्तन्ते, तेषु प्रबोधितेषु प्रधानानुगामिखात् इतर| जनः सुप्रतिबोध एव भवतीत्यतोऽत्र चक्रवर्त्यादिना पौण्डरीककल्पेनाधिकार इति । पुनरप्यन्यथा मनुजप्राधान्य दर्शयितुमाह-18 । 'अविय हु' इत्यादि, गुरुकर्माणोऽपि मनुजा आसंकलितनरकायुषोऽपि-नरकगमनयोग्या अपि तेऽप्येवंभूताजिनोपदेशात्तेनैव भवेन समस्तकर्मक्षयात् सिद्धिगामिनो भवन्तीति । तदेवं दृष्टान्तदाान्तिकयोस्तात्पर्यार्थ प्रदर्य दृष्टान्तभूतपौण्डरीकाऽधारायाः पुष्करिण्या दुरवगाहिसं सूत्रालापकोपात्तं नियुक्तिकृद्दर्शयितुमाह-'जलमाले' त्यादि, जलमालाम्-अत्यर्थप्रचुरजलां तथा कर्दममालाम्-अप्रतिष्ठिततलतया प्रभूततरपङ्का तथा बहुविधवल्लिगहनां च पुष्करिणी जङ्गाभ्यां वा बाहुभ्यां वा नावा वा दुस्तरां पुष्करिणी,
|| दृष्ट्रेति क्रियाध्याहारः, किंचान्यत्-'पउमं' इत्यादि, तन्मध्ये पावरपौण्डरीकं गृहीखा समुत्तरतोऽवश्यं व्यापत्तिः प्राणानां भवेत् , मन्त्रकता किं तत्र कबिदुपायः स नास्ति ! येनोपायेन गृहीतकमलः सन् तो पुष्करिणीमुल्लास्येदविपन इति । तदुल्लाइनोपायं दर्शयितुमाह- पौण्डरी. २श्रुतस्क-15 विद्या वे' स्वादि, विधा वा काचित्रात्यादिका देवताकर्म वाऽथवाऽऽकाशगमनलब्धिर्वा कस्यचिद्भवेत् तेनासावविपनो गृहीतपी- काध्यय. न्धे शीला
|| ण्डरीकः समुल्ला येता पुष्करिणीम्, एपप जिनैरुषायः समाख्यात इति । सर्वोपसंहारार्थमाह-'सुद्धप्ये त्यादि, शुद्धप्रयोगविधा सिद्धा भिक्षोवृत्तिः कीयावृत्तिः जिनस्वैव विज्ञानरूपा विद्या नान्यख कस्यचिद्यया विषया तीर्थकरदर्शितया भव्यजनपौण्डरीकाः सिद्धिमुपगच्छन्तीति । गतोऽनुगमः, ॥३०॥
साम्प्रतं नयाः, ते च पूर्ववद्रष्टव्या इति ॥ समाप्तं पौण्डरीकाख्यं द्वितीयश्रुतस्कन्धे प्रथमाध्ययनमिति ॥ [ ग्रन्थानम् १०३०]
इति श्रीसूत्रकृताङ्गे पौण्डरीकाख्यमायमध्ययनं समाप्तम् ॥
॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org