________________
Dececee
154
सूत्रकृताङ्गं अस्याध्ययनस्य याथातथ्यमिति नाम, तच्च यथातथाशब्दस्य भावप्रत्ययान्तस्य भवति, तत्र यथाशब्दोल्लानेन तथाशब्दस्य १३ याथा शीलाङ्का- निक्षेपं कर्तुनियुक्तिकारस्यायमभिप्रायः-इह यथाशब्दोऽयमनुवादे वर्तते, तथाशब्दश्च विधेयार्थे, तद्यथा-यथैवेदं व्यव- तध्याध्य चार्याय-1 स्थितं तथैवेदं भवता विधेयमिति, अनुवाद विधेययोग विधेयांश एवं प्रधानभावमनुभवतीति, यदिवा-याथातथ्यमिति तथ्य-18 त्तियुतं
| मतस्तदेव निरूप्यत इति । तत्र तथाभावस्तथ्यं यथावस्थितवस्तुता, तन्नामादि चतुर्धा, तत्र नामस्थापने सुगमे, द्रव्यतथ्यं । ॥२३॥
| गाथापश्चार्धन प्रतिपादयति, तत्र द्रव्यतथ्यं पुनर्यो 'यस्य' सचित्तादेः स्वभावो द्रव्यप्राधान्याद्यद्यस्य स्वरूपं, तद्यथा-उपयोगल-10
क्षणो जीवः कठिनलक्षणा पृथिवी द्रवलक्षणा आप इत्यादि, गनुष्यादेर्वा यो यस्य मार्दवादिः स्वभावोऽचित्तद्रव्याणां च गो-18 | शीर्षचन्दनकम्बलरत्नादीनां द्रव्याणां स्वभावः, तद्यथा-उण्हे करेइ सीर्य सीए उण्हत्तणं पुण करेइ । कंबलरयणादीणं एस सहा-४ 18 वो मुणेयवो ॥ १॥ भावतथ्यमधिकृत्याह-भावतथ्यं पुनः 'नियमतः' अवश्यंभावतया पड्विधे औदयिकादिके भावे ज्ञातव्यं,
तत्र कर्मणामुदयेन निवृत्त औदयिकः-कर्मोदयापादितो गत्याद्यनुभावलक्षणः, तथा कर्मोपशमेन निवृत्त औपशमिकः-कर्मानुदयलक्षण इत्यर्थः, तथा क्षयाज्जातः क्षायिकः-अप्रतिपातिज्ञानदर्शनचारित्रलक्षणः, तथा क्षयादुपशमाच जातः क्षायोपश| मिको-देशोदयोपशमलक्षणः, परिणामेन निवृत्तः पारिणामिको-जीवाजीवभव्यखादिलक्षणः, पञ्चानामपि भावानां द्विकादिसंयोगानिष्पन्नः सान्निपातिक इति । यदिवा-'अध्यात्मनि आन्तरं चतुर्धा भावतथ्यं द्रष्टव्यं, तद्यथा-ज्ञानदर्शनचारित्रविन-||॥२३०॥ यतथ्यमिति, तत्र ज्ञानतथ्यं मत्यादिकेन ज्ञानपञ्चकेन यथास्वमवितथो विषयोपलम्भः दर्शनतथ्यं शङ्कायतिचाररहितं जीवा-1
१ उष्णे कुर्वन्ति शीतं शीते उष्णत्वं पुनः कुर्वन्ति । कम्बलरादीनां एष खभावो ज्ञातव्यः ।। २ ज्ञाना यनुगतलान वीर्यादेः पृथगुपादानं । दितत्त्वश्रद्धानं चारित्रतथ्यं तु तपसि द्वादशविधे संयमे सप्तदशविधे सम्यगनुष्ठानं, विनयतथ्यं द्विचत्वारिंशद्भेदभिन्ने विनये ज्ञानदर्शनचारित्रतपऔपचारिकरूपे यथायोगमनुष्ठानं, ज्ञानादीनां तु वितथाऽऽसेवनेनातथ्यमिति । अत्र च भावतथ्येनाधिकारः, यदिवा भावतथ्यं प्रशस्ताप्रशस्तभेदाद्विधा, तदिह प्रशस्तेनाधिकारं दर्शयितुमाह-'यथा' येन प्रकारेण यथा पद्धच्या मूत्रं व्यवस्थितं 'तथा' तेनैव प्रकारेण 'अर्थों' व्याख्येयोऽनुष्ठेयश्च, एतद्दर्शयति-'चरणम्' आचरणमनुष्ठातव्यं, यदिवा सिद्धान्तमूत्रस्य चारित्रमेवाचरणम् अतो यथा सूत्रं तथा चारित्रमेतदेव चानुष्ठेगमेतच्च याथातथ्यमिति ज्ञातव्यं । पूर्वाधस्यैव भावार्थ गाथापश्चाधैन दर्शयितुमाह-यद्वस्तुजातं 'प्रकृतं' प्रस्तुतं यमर्थमधिकृत्य सूत्रमकारि तसिन्नर्थे 'सति' विद्यमाने यथावधाख्यायमाने संसारोत्तारणकारणलेन प्रशस्यमाने वा याथातथ्यमिति भवति, विवक्षिते खर्थे 'असति' अविद्यमाने संसारकारणखेन वा जुगुप्सायां सत्यां सम्यगननुष्ठीयमाने वा याथातथ्यं न भवति, इदमुक्तं भवति-यदि यथा] सूत्रं येन प्रकारेण व्यवस्थितं तथैवार्थो यदि भवति व्याख्यायतेऽनुष्ठीयते च संसारनिस्तरणसमर्थश्च भवति ततो याथातथ्यमिति भवति, असति खर्थेऽक्रियमाणे च संसारका| रणखेन जुगुप्सिते वा न भवति याथातथ्यमिति गाथातात्पर्यार्थः ॥ एतदेव दृष्टान्तगर्भ दर्शयितुमाह-आचार्याः-सुधर्मस्वामिजम्बूनामप्रभवार्यरक्षिताद्यास्तेषां प्रणालिका-पारम्पर्य तेनागतं यद्याख्यानं-सूत्राभिप्रायः, तद्यथा-व्यवहारनयाभिप्रायेण क्रियमाणमपि कृतं भवति, यस्तु कुतर्कदध्मातमानसो मिथ्याखोपहतदृष्टितया 'छेकबुद्ध्या' निपुणबुद्ध्या कुशाग्रीयशेमुषीकोऽहमि
१ज्ञानेऽष्टा दर्शने चारित्रे च तपसि विनयस्य विधेयवादेकादश औपचारिके सप्तनेदरूपे यद्वा क्रमेण पञ्चैक सप्तदशद्वादशसप्तभेदरूपे । सूत्रकृताङ्गं
तिकृखा 'कोपयति' दूषयति-अन्यथा तमर्थ सर्वज्ञप्रणीतमपि व्याचष्टे-कृतं कृतमित्येवं ब्रूयात् , वक्ति च-नहि मृत्पिण्डक्रियाका-18 १३ याथा शीलाझा- ल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः, स एवं 'छेकवादी' निपुणोऽहमित्येवंवादी पण्डिताभिमानी 'जमालि
तम्याध्य चा-यव
नाशं' जमालिनिववत् सर्वज्ञमतविकोपको 'विनयति' अरहट्टघटीयत्रन्यायेन संसारचक्रवाले बंभ्रमिष्यतीति, न चासौ जानाति त्तियुतं
बराको यथा अयं लोको घटार्थाः क्रिया मृत्खननाद्या घट एवोपचरति, (तत्त्वतः) तासां च क्रियाणां क्रियाकालनिष्ठाकालयोरेक-12 ॥२३॥ कालखात् क्रियमाणमेव कृतं भवति, दृश्यते चायं व्यवहारो लोके, तद्यथा-अद्यैव देवदत्ते निर्गते कान्यकुब्ज देवदत्तो गत इति ।
व्यपदेशः, (लोकोक्त्या) तथा दारुणि छिद्यमाने प्रस्थकोऽयं (इति) व्यपदेश इत्यादि । साम्प्रतमन्यथावादिनोपायदर्शनद्वारेणोपदेशं दातुकाम आह-यो हि दुर्गृहीतविद्यालवदध्मातःसर्वज्ञवचनैकदेशमप्यन्यथा व्याचष्टे स एवंभूतः सन् संयमतपस्सूद्यम कुर्वाणोऽपि शारीरमानसानां दुःखानामसातोदयजनितानां मोक्षं-विनाशं न करोति आत्मगर्वाध्मातमानसो, यत एवं तसादात्मोत्कषःअहमेव सिद्धान्तार्थवेदी नापरः कश्चित् मत्तुल्योऽस्तीत्येवंरूपोऽभिमानो वर्जनीयः-त्याज्यो 'यतिजनेन' साधुलोकेन, अपरोऽपि ज्ञानिना जात्यादिको मदो न विधेयः किं पुननिमदः ?, तथा चोक्तम्-"ज्ञानं मददर्पहरं माधति यस्तेन तस्य को वैद्यः । अगदो यस्य विषायति तस्य चिकित्सा कथं क्रियते ? ॥१॥" गतो नामनिष्पनो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य | ॥२३१॥ | निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्तः अतः सूत्रानुगमेऽस्खलितादिगुणोपेतं । सूत्रमुच्चारणीयं, तच्चेदम्
SekseckseasesKatioesesCREAccese.seecticesESeceaecse
09002069200000
99609950a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org