________________
सूत्रकृता शीलाङ्काचायिक
चियुत
॥२२०॥
- 147 श्रमणा' साधवो 'ब्राह्मणाः संयतासंयताः, लौकिकी वा वाचोयुक्तिः, किम्भूतास्त एवमाख्यान्तीति सम्बन्धः, तथा तथेति वा फचित्पाठा, यथा यथा समाधिमार्गो व्यवस्थितस्तथा तथा कथयन्ति, एतच्च कथयन्ति-यथा यत्किश्चित्संसारान्तर्गतानामसुमता दुःखम्-असातोदयस्वभावं, तत्प्रतिपक्षभूतं च सातोदयापादितं सुखं, तत्खयम्-आत्मना कृतं, नान्येन कालेश्वरादिना - | समिति, तथा चोक्तम्-"सयो पुषकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य णिमित्तमित्तं परो होइ ॥१॥" एतच्चाहुतीर्थकरगणधरादयः, तद्यथा-विद्या-ज्ञानं चरणं-चारित्रं क्रिया तत्प्रधानो मोक्षस्तमुक्तवन्तो, न ज्ञानक्रियाभ्यां परस्परनिरपेक्षाभ्यामिति, तथा चोक्तम्-"क्रियां च सज्ज्ञानवियोगनिष्फलां, क्रियाविहीनां च विबोधसम्पदम् । निरस्वता क्लेशसमूहशा-15 न्तये, खया शिवायालिखितेव पद्धतिः॥१॥ ॥११॥ किश्च-'ते' तीर्थकरगणधरादयोऽतिशयज्ञानिनोऽसिन् लोके चक्षुरिव
चक्षुर्वर्तन्ते, यथा हि चक्षुर्योग्यदेशावस्थितान् पदार्थान् परिच्छिनत्ति एवं तेपि लोकस्य यथावस्थितपदार्थाविष्करण कारयन्ति, ४ तथाऽसिन् लोके ते नायकाः-प्रधानाः, तुशब्दो विशेषणे, सदुपदेशदानतो नायका इति, एतदेवाह-'मार्ग ज्ञानादिकं मो
क्षमार्ग 'अनुशासति' कश्यन्ति प्रजना-प्रजायन्त इति प्रजाः-प्राणिनस्तेषां, किम्भूतं , हितं, सद्गतिप्रापकमनर्थनिवारक च, किन-चतुर्दशरज्ज्वात्मके लोके पश्चास्तिकायात्मके वा येन येन प्रकारेण द्रव्यास्तिकनयाभिप्रायेण यद्वस्तु शाश्वतं तत्तथा 'त आहुः उक्तवन्तः, यदिवा लोकोऽयं प्राणिगणः संसारान्तर्वर्ती यथा यथा शाश्वतो भवति तथा तथैवाहुः, तद्यथा-यथा यथा मिथ्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः, तथाहि-तत्र तीर्थकराहारकवाः सर्व एव कर्मबन्धाः सम्भाव्यन्त इति,
१ नेदं प्रत्यन्तरे । २ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविषाकं । अपराधेषु गुणेषु च निमित्तमात्रं पो भवति ॥१॥ | तथा च महारम्भादिभिश्चतुर्भिः स्थाने वा नरकायुष्कं यावनिवर्तयन्ति तावत्संसारानुच्छेद इति, अथवा यथा यथा रागद्वेषा- १२ समबदिवृद्धिस्तथा तथा संसारोऽपि शाश्वत इत्याहुः, यथा यथा च कर्मोपचयमात्रा तथा तथैव संसाराभिवृद्धिरिति । दुष्टमनोवाकाया- सरणाध्य. भिवृद्धौ वा संसाराभिवृद्धिरवगन्तव्या, तदेवं संसारस्वाभिवृद्धिर्भवति । 'यस्मिंश्च' संसारे, प्रजायन्त इति 'प्रजा' जन्तवः, हे मानव !, मनुष्याणामेव प्रायश उपदेशार्हखान्मानवग्रहणं, सम्यग्नारकतिर्यङ्नरामरभेदेन 'प्रगाढाः' प्रकर्षण व्यवस्थिता इति ॥ १२॥ लेशतो जन्तुभेदप्रदर्शनद्वारेण तत्पर्यटनमाह
जे रक्खसा वा जमलोइया वा, जे वा सुरा गंधवा य काया । आगासगामी य पुढोसिया जे, पुणो पुणो विप्परियासुवेति ॥ १३ ॥ जमाहु ओहं सलिलं अपारगं, जाणाहि णं भवगहणं दुमोक्खं । जंसी विसन्ना विसयंगणाहिं, दुहओऽवि लोयं अणुसंचरंति ॥ १४ ॥ न कम्मुणा कम्म खति बाला, अकम्मुणा कम्म खति धीरा । मेधाविणो लोभमयावतीता, संतोसिणो
10॥२२॥ नो पकरेंति पावं ॥ १५ ॥ ते तीयउप्पन्नमणागयाई, लोगस्स जाणंति तहागयाइं । णेतागे अन्नेसि अणनणेया. बुद्धाहते अंतकडा भवंति ॥१६॥ 'ये केचन व्यन्तरभेदा राक्षसात्मानः, तद्ग्रहणाच्च सर्वेऽपि व्यन्तरा गृह्यन्ते तथा यमलौकिकात्मानः, अ(म्बाम्बोम्बादयस्तदुपलक्षणात्सर्वे भवनपतयः तथा ये च 'सुरा' सौधर्मादिवैमानिकाः, चशब्दाज्ज्योतिष्काः सूर्यादयः, तथा रे 'गान्धर्वो विद्याधरा व्यन्तरविशेषा वा, तद्ग्रहणं च प्राधान्यख्यापनार्थ, तथा 'काया' पृथिषीकायादयः पडपि गृयन्त इति । पुनरन्येन प्रकारेण । सत्वान्संजिघृक्षुराह-ये केचन 'आकाशगामिन:' संप्राप्ताकाशगमनलब्धयश्चतुर्विधदेवनिकायविद्याधरपक्षिवायवः, तथा ये च 'पृथिव्याश्रिताः पृथिव्यतेजोवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियास्ते सर्वेऽपि खकतकर्मभिः पुनः पुनर्विविधम्-अनेकप्रकारं पर्यासंपरिक्षेपमरहट्टघटीन्यायेन परिभ्रमणमुप-सामीप्येन यान्ति-गच्छन्तीति ॥ १३ ॥ किश्चान्यत्-'य' संसारसागरम् आहुः-उतवन्तस्तीर्थकरगणधरादयस्तद्विदः, कथमाहुः-खयम्भुरमणसलिलौघवदपारं, यथा स्वयम्भुरमणसलिलौधो न केनचिजलचरेण स्थलचरेण वा लयितुं शक्यते एवमयमपि संसारसागरः सम्यग्दर्शनमन्तरेण लयितुं न शक्यत इति दर्शयति–'जानीहि । | अवगच्छ णमिति वाक्यालङ्कारे, भवगहनमिदं-चतुरशीतियोनिलक्षप्रमाणं यथासम्भवं सङ्ख्येयासक्येयानन्तस्थितिकं दुःखेन मु-181 | च्यत इति दुमोक्षं-दुरुत्तरमस्तिवादिनामपि, किं पुनर्नास्तिकानाम् , पुनरपि भवगहनोपलक्षितं संसारमेव विशिनष्टि-'यत्र' यमिन् संसारे सावधकर्मानुष्ठायिनः कुमार्गपतिता असत्समवसरणग्राहिणो 'विषण्णा' अवसक्ता विषयप्रधाना अङ्गना विषयाग-1 नास्तामिः, यदिवा विषयाश्वानाच विषयाङ्गनास्ताभिर्वशीकृताः सर्वत्र सदनुष्ठानेऽवसीदन्ति, त एवं विषयाङ्गनादिके पट्टे विषण्या 'द्विधाऽपि' आकाशाश्रितं पृथिव्याश्रितं च लोकं, यदिवा स्थावरजङ्गमलोक 'अनुसंचरन्ति' गच्छन्ति, यदिवा-'द्विधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org