________________
eleselepepestsercenes
Receceseesececeneeeesese.
त्रकृताङ्गं
त्तियुत
139 मवसरणं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्त सचित्ताचित्तमिश्रभेदात्रिविधं, सचित्तमपि द्विपदचतुष्पदापदभेदात्रिविधमेव, तत्र द्विपदानां साधुप्रभृतीनां तीर्थजन्मनिष्क्रमणप्रदेशादौ मेलापकः, चतुष्पदानां गवादीनां निपानप्रदेशादौ, अपदानां तु - क्षादीनां स्वतो नास्ति समवसरणं, विवक्षया तु काननादौ भवत्यपि, अचित्तानां तु घणुकाद्यभ्रादीनां तथा मिश्राणां सेनादीनां समवसरणसद्भावोऽवगन्तव्य इति । क्षेत्रसमवसरणं तु परमार्थतो नास्ति, विवक्षया तु यत्र द्विपदादयः समवसरन्ति व्याख्यायते वा समवसरणं यत्र तत्क्षेत्रप्राधान्यादेवमुच्यते । एवं कालसमवसरणमपि द्रष्टव्यमिति । इदानीं भावसमवसरणमधिकृत्याह
भावानाम्-औदयिकादीनां समवसरणम्-एकत्र मेलापको भावसमवसरणं, तत्रौदयिको भाव एकविंशतिभेदः, तद्यथा-गतिश्चतुर्धा 1 कषायाश्चतुर्विधाः एवं लिङ्ग त्रिविधं, मिथ्याखाज्ञानासंयतखासिद्धवानि प्रत्येकमेकैकविधानि, लेश्याः कृष्णादिभेदेन पविधा
भवन्ति । औपशमिको द्विविधः सम्यक्खचारित्रोपशमभेदात् । क्षायोपशमिकोऽप्यष्टादशभेदभिन्नः, तद्यथा-ज्ञानं मतिश्रुतावधिम18 नःपर्यायभेदाचतुर्धा अज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गभेदात्रिविधं, दर्शनं चक्षुरचक्षुरवधिदर्शनभेदात्रिविधमेव, लब्धि नलाभभो-18||
गोपभोगवीर्यभेदात्पश्चधा, सम्यक्वचारित्रसंयमासंयमाः प्रत्येकमेकप्रकारा इति । क्षायिको नवप्रकारः, तद्यथा-केवलज्ञानं केवलदर्शनं दानादिलब्धयः पञ्च सम्यक्वं चारित्रं चेति । जीवनभव्यखाभव्यखादिभेदात्पारिणामिकस्विविधः । सानिपातिकस्तु द्वित्रि-12 चतुष्पश्चकर्मयोगर्भवति, तत्र विकसंयोगः सिद्धम्य क्षायिकपारिणामिकभावद्वयसद्भावादवगन्तव्यः, त्रिकसंयोगस्तु मिथ्यादृष्टिसम्यग्दृष्ट्यविरतविरतानामौदयिकक्षायोपशमिकपारिणामिकभावसद्भावादवगन्तव्यः, तथा भवस्थकेवलिनोऽप्यौदयिकक्षायिकपारिणामिकभावसद्भावाद्विजेय इति, चतुष्कसंयोगोऽपि क्षायिकसम्यग्दृष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावसद्भावात् ,
तथौपशमिकसम्यग्दृष्टीनामौदयिकौपशमिकक्षायोपशमिकपारिणामिकभावसद्भावाचेति, पञ्चकसंयोगस्तु क्षायिकसम्यग्दृष्टीनामुप-|| १२ समवशीलाङ्का- शमश्रेण्यां समस्तोपशान्तचारित्रमोहानां भावपश्चकसद्भावाद्विज्ञेय इति, तदेवं भावानां विकत्रिकचतुष्कपश्चकसंयोगात्संभविन: सरणाध्य. चार्यांय- सानिपातिकभेदाः षड् भवन्ति, एत एव त्रिकसंयोगचतुष्कसंयोगगतिभेदात्पञ्चदशधा प्रदेशान्तरेऽभिहिता इति । तदेवं पबिधे मावे भावानां
भावसमवसरणं-भावमीलनमभिहितम् , अथवा अन्यथा भावसमवसरणं नियुक्तिकदेव दर्शयति-क्रियां-जीवादिपदार्थोऽस्तीत्या- क्रियादि
दिकां वदितुं शीलं येषां ते क्रियावादिनः, एतद्विपर्यस्ता अक्रियावादिनः, तथा अज्ञानिनो-ज्ञाननिहववादिनः तथा 'वैनयिका' वादिनांवा ॥२०८॥ | विनयेन चरन्ति तत्प्रयोजना वा वैनयिकाः, एषां चतुर्णामपि सप्रभेदानामाक्षेपं कृता यत्र विक्षेपः क्रियते तद्भावसमवसरणमिति,
समवसरणं एतच्च स्वयमेव नियुक्तिकारोऽन्त्यगाथया कथयिष्यति । साम्प्रतमेतेषामेवाभिधानान्वर्थतादर्शनद्वारेण स्वरूपमाविष्कुर्वनाह-जीवा-18 दिपदार्थसद्भावोऽस्त्येवेत्येवं सावधारणक्रियाभ्युपगमो येपां ते अस्तीति क्रियावादिनः, ते चैववादिखान्मिथ्यादृष्टयः, तथाहि-यदि र जीवोऽस्त्यवे वेऽस्तित्वमेवे]त्येवमभ्युपगम्यते, ततः सावधारणत्वान्न कथश्चिन्नास्तीत्यतः स्वरूपसत्तावत्पररूपापत्तिरपि स्याद् , एवं च । नाने जगत् स्यात् , नचैतदृष्टमिष्टं वा । तथा नास्त्येव जीवादिकः पदार्थ इत्येवंवादिनोऽक्रियावादिनः, तेऽप्यसद्भूतार्थप्रतिपाटमा|न्मिध्यादृष्टय एव, तथाहि एकान्तेन जीवास्तित्वप्रतिषेधे कर्तुरभावान्नास्तीत्येतस्यापि प्रतिषेधस्याभावः, तदभावाच्च सर्वास्तित्वमनिवारितमिनि । तथा न ज्ञानमज्ञानं तद्विद्यते येषां तेज्ञानिनः, ते ह्यज्ञानमेव श्रेय इत्येवं वदन्ति, एतेऽपि मिथ्यादृष्टय एव, तथाहि-9॥२०८॥ अज्ञानाप इत्येतदपि न ज्ञानमृते भणितुं पार्यते, तदभिधानाचावश्यं ज्ञानमभ्युपगतं तैरिति । तथा वैनयिका विनयादेव केवलात्म्बा मोक्षावाप्तिमभिलषन्तो मिथ्यादृष्टयो, यतो न ज्ञानक्रियाभ्यामन्तरेण मोक्षावाप्तिरिति । एषां च क्रियावाद्यादीनां | स्वरूपं तन्निराकरणं चाचारटीकायां विस्तरेण प्रतिपादितमिति नेह प्रतन्यते । साम्प्रतमेतेषां भेदसंख्यानिरूपणार्थमाह
असियसयं किरियाणं अकिरियाणं च होइ चुलसीती । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥ ११९॥ तेसि मताणुमएणं पन्नवणा वणिया इहऽज्झयणे । सम्भावणिच्छयत्थं समोसरणमाहु तेणं तु ॥१२०॥ सम्मट्टिी किरियावादी मिच्छा य सेसगा वाई । जहि ऊग मिच्छ वायं सेवह वायं इमं सचं ॥ १२१॥ क्रियावादिनामशीत्यधिकं शतं भवति, तच्चानया प्रक्रियया, तद्यथा-जीवादयो नव पदार्थाः परिपाट्या स्थाप्यन्ते, तदधः स्वतः परत इति भेदद्वयं, ततोऽप्यधो नित्यानित्यभेदद्वयं, ततोऽप्यधस्तात्परिपाट्या कालखभावनियतीश्वरात्मपदानि पश्च व्यवस्थाप्यन्ते, जीवः ततश्चैवं चारणिकाप्रक्रमः, तद्यथा-अस्ति जीवः खतो नित्यः कालतः, तथाऽस्ति जीवः स्वतोऽनित्यः कालत एव, स्वतः परतः एवं परतोऽपि भङ्गकद्वयं, सर्वेऽपि च चखारः कालेन लब्धाः , एवं स्वभावनियतीश्वरात्मपदान्यपि प्रत्येकं चतुर | नित्यः अनित्यः एव लभन्ते, ततश्च पश्चापि चतुष्कका विंशतिर्भवन्ति, सापि जीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ
कालः खभावः नियतिः ईश्वर आत्मा प्रत्येक विंशतिं लभन्ते, ततश्च नव विंशतयो मीलिताः क्रियावादिनामशीत्युत्तरं शतं भवतीति । इदानीमक्रियावादिनां न सन्त्येव जीवादयः पदार्था इत्येवमभ्युपगमवतामनेनोपायेन चतुरशीतिरवगन्तव्या, हास्यथा--जीवादीन् पदार्थान् सप्ताभिलिख्य तदधः स्वपरभेदद्वयं व्यवस्थाप्य, ततोऽप्यधः कालयदृच्छानियतिखभावे श्वरा
त्मपदानि पद् व्यवस्थाप्यानि, भङ्गकानयनोपायस्वयं-नास्ति जीवः स्वतः कालतः. तथा नास्ति जीवः परतः कालतः,
eeteedeseeeeeeeeee
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org