________________
सूत्रकृता शीळाङ्काचाययष्टचितं
॥ २०६ ॥
शीलाङ्का
चायतियुर्त
॥२०७॥
138
| शविधः सम्यग्दर्शनज्ञानचारित्राख्यो वा तम् 'अनुसंधयेत्' वृद्धिमापादयेत् तद्यथा - प्रतिक्षणमपूर्वज्ञानग्रहणेन ज्ञानं तथा शङ्कादिदोषपरिहारेण सम्यग्जीवादिपदार्थाधिगमेन च सम्यग्दर्शनम् अस्खलितमूलोत्तरगुणसंपूर्णपालनेन प्रत्यहमपूर्वा पूर्वाभिग्रहग्रहणेन (च) चारित्रं (च) वृद्धिमापादयेदिति पाठान्तरं वा 'सद्दहे साधुधम्मं च' पूर्वोक्त विशेषणविशिष्टं साधुधर्म मोक्षमार्गत्वेन श्रदधीतनिःशङ्कतया गृह्णीयात्, चशब्दात्सम्यगनुपालयेच्च, तथा पापं पापपादानकारणं धर्म प्राण्युपमर्देन प्रवृत्तं निराकुर्यात्, तथोपधानं - तपस्तत्र यथाशक्त्या वीर्यं यस्य स भवत्युपधानवीर्यः, तदेवंभूतो भिक्षुः क्रोधं मानं च न प्रार्थयेत् न वर्धयेद्वेति ॥ ३५ ॥ अथैवंभूतं भावमार्ग किं वर्धमानखाम्येवोपदिष्टवान् उतान्येऽपीत्येतदाशङ्कयाह-ये बुद्धाः - तीर्थकृतोऽतीतेऽनादि के कालेऽनन्ताः समतिक्रान्ताः ते सर्वेऽप्येवंभूतं भाव मार्गमुपन्यस्तवन्तः, तथा ये चानागता भविष्यदनन्तकाल भाविनोऽनन्ता एव तेऽप्येवमेवोपन्यसिष्यन्ति चशब्दाद्वर्तमानकालभाविनश्च संख्येया इति । न केवलमुपन्यस्तवन्तोऽनुष्ठितवं तचेत्येतद्दर्शयति - शमनं शान्तिः— भावमार्गस्तेषामतीतानागतवर्तमान कालभाविनां बुद्धानां प्रतिष्ठानम् - आधारो बुद्धत्वस्यान्यथानुपपत्तेः, यदिवा शान्तिः - मोक्षः स तेषां प्रतिष्ठानम् - आधारः, ततस्तदवाप्तिश्च भावमार्गमन्तरेण न भवतीत्यतस्ते सर्वेऽप्येनं भावमार्गमुक्तवन्तोऽनुष्ठितवन्तश्च (इति) गम्यते । शान्तिप्रतिष्ठानले दृष्टान्तमाह – 'भूतानां' स्थावरजङ्गमानां यथा 'जगती' त्रिलोकी प्रतिष्ठानं एवं ते सर्वेऽपि बुद्धाः शान्तिप्रतिष्ठाना इति ।। ३६ ।। प्रतिपन्नभावमार्गेण च यद्विधेयं तद्दर्शयितुमाह
अह णं वयमावन्नं, फासा उच्चावया फुसे । ण तेसु विणिहण्णेजा, वाएण व महागिरी ॥ ३७ ॥ संवुडे से महापन्ने, धीरें दत्तेसणं चरे । निव्वुडे कालमाकंखी, एवं (यं) केवलिणो मयं ॥ ३८ ॥ | तिमि । इति मोक्षमार्गनामकं एकादशमध्ययनं समाप्तम् ॥ ( गाथा ५४६ ) 'अर्थ' भावमार्गप्रतिपच्यनन्तरं साधुं प्रतिपन्नत्रतं सन्तं स्पर्शाः - परीषदोपसर्गरूपाः 'उच्चावचा ' गुरुलघवो नानारूपा वा 'स्पृशेयुः' अभिद्रवेयुः, स च साधुस्तैरभिद्रुतः संसारस्वभावमपेक्षमाणः कर्मनिर्जरां च न तैरनुकूलप्रतिकूलैर्विहन्यात् नैव संयमानुष्ठानान्मनागपि विचलेत्, किमिव १, महावातेनेव महागिरिः - मेरुरिति । परीषहोपसर्गजयश्चाभ्यासक्रमेण विधेयः, अभ्यासवशेन हि दुष्करमपि सुकरं भवति, अत्र च दृष्टान्तः, तद्यथा - कश्विद्गोपस्तदहर्जातं वर्णकमुत्क्षिप्य गवान्तिकं नयत्यानयति च तवोऽसावनेनैव च क्रमेण प्रत्यहं प्रवर्द्धमानमपि वत्समुत्क्षिपाभ्यासवशाद्विहायूनं त्रिहायणमप्युत्क्षिपति, एवं साधुरप्यभ्यासात् शनैः शनैः परिषहोपसर्गजयं विधत्त इति ॥ ३७ ॥ साम्प्रतमध्ययनार्थमुपसंजिहीर्षुरुक्क शेषमधिकृत्याह-स साधुः एवं संवृताश्रवद्वारतया संवरसंवृतो महती प्रज्ञा यस्यासौ महाप्रज्ञः - सम्यग्दर्शनज्ञानवान्, तथा धी:- बुद्धिस्तया राजत इति धीरः परीषदोपसर्गाक्षोभ्यो वा स एवंभूतः सन् परेण दत्ते सत्याहारादिके एषणां चरेत्रिविधयाप्येषणया युक्तः सन् संयममनुपालयेत्, तथा निर्वृत इव निर्वृतः कषायोपशमाच्छीतीभूतः 'काल' मृत्युकालं यावदभिकाङ्गेत् 'एतत्' यत् मया प्राक् प्रतिपादितं तत् 'केवलिनः' सर्वज्ञस्य तीर्थकृतो मतं । एतच जम्बूस्वामिनमुद्दिश्य सुधर्मस्वाम्याह । तदेतद्यत्त्वया मार्गस्वरूपं प्रश्नितं तन्मया न स्वमनीषिकया कथितं, किं तर्हि ?, केवलिनो मतमेतदित्येवं भवता ग्राह्यं । इतिः परिसमाध्यर्थे, ब्रवीमीति पूर्ववत् ॥ ३८ ॥ इति मार्गाख्यमेकादश मध्ययनं समाप्तम् ।।
अथ द्वादशं श्रीसमवसरणाध्ययनं प्रारभ्यते ॥
उक्तमेकादशमध्ययनं साम्प्रतं द्वादशमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने मार्गोऽभिहितः, स च कुमार्गव्युदासेन सम्यग्मार्गतां प्रतिपद्यते, अतः कुमार्गव्युदासं चिकीर्षुणा तत्स्वरूपमवगन्तव्यमित्यतस्तत्स्वरूपनिरूपणार्थमिदमध्ययनमा - यातम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा - कुमार्गाभिधायिनां क्रियाऽक्रियाऽज्ञानिकवैनयिकानां चखारि समवसरणानीह प्रतिपाद्यन्ते, नामनिष्पन्ने तु निक्षेपे समवसरणमित्येतन्नाम तनिक्षेपार्थ निर्मुक्तिकृदाह
समवसरणेऽचि छक्कं सच्चित्ताचित्तमीसगं दव्वे । खेत्तंमि जंमि खेत्ते काले जं जंमि कालंमि ॥ ११६ ॥ भावसमोसरणं पुण गायत्र्वं छन्विहंमि भावंमि । अहवा किरिय अकिरिया अन्नाणी चेव वेणइया ॥ ११७ ॥ अस्थित्ति किरियवादी वयंति णत्थि अकिरियवादी य । अण्णाणी अण्णाणं विणइन्ता वेणइयवादी ॥ ११८ ॥
समवसरणमिति 'सृ गता' वित्येतस्य धातोः समवोपसर्गपूर्वस्य ल्युडन्तस्य रूपं, सम्यग् - एकीभावेनावसरणम् - एकत्र गमनं मेलापकः समवसरणं तस्मिन्नपि न केवलं समाधौ परिधो नामादिको निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यविषयं पुनः स
Jain Education International
For Private Personal Use Only
११ मार्गाध्ययनं
॥२०६॥
१२ समवसरणाध्य० समवसरणनिक्षेपाः
॥२०७॥
www.jainelibrary.org