________________
126
सूबकता शीलाङ्कावाीय
त्तियुतं
॥१८८॥
Sas0SASSAGESSAGassassacassamasasaca990sa90seeds
वा प्रत्यात्मा योग्यः क्रियते व्यवस्थाप्यते येन धर्मेणासौ धर्मः समाधिस्तं समाख्यातवान् , यदिवा-धर्ममाख्यातवांस्तत्समाधि च धर्मध्यानादिकमिति । सुधर्मखाम्याह-तमिम-धर्म समाधि वा भगवदुपदिष्टं शृणुत यूयं, तद्यथा-न विद्यते ऐहिकामुष्मिकरूपा ध्यध्ययनं. प्रतिज्ञा-आकासा तपोऽनुष्ठानं कुर्वतो यस्यासावप्रतिज्ञो, मिक्षणशीलो भिक्षुः तुर्विशेषणे भावभिक्षुः, असावेव परमार्थतः साधुः, धर्म धर्मसमाधिं च प्राप्तोऽसावेवेति, तथा न विद्यते निदानमारम्भरूपं 'भूतेषु' जन्तुषु यस्यासावनिदानः स एवम्भूतः सावद्यानुठानरहितः परि-समन्तात्संयमानुष्ठाने 'बजेदू' गच्छेदिति, यदिवा-अनिदानभूत:-अनाश्रवभूतः कर्मोपादानरहितः सुष्टु परिव्रजेत् |सुपरिव्रजेत् , यदिवा-अनिदानभूतानि-अनिदानकल्पानि ज्ञानादीनि तेषु परिव्रजेत् , अथवा निदान हेतुः कारणं दुःखस्सातोऽनि-18 दानभूतः कस्यचिदुःखमनुपपादयन् संयमे पराक्रमेतेति ॥१॥ प्राणातिपातादीनि तु कर्मणो निदानानि वर्तन्ते, प्राणातिपातोऽपि द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, तत्र क्षेत्रप्राणातिपातमधिकृत्याह-सर्वोऽपि प्राणातिपातः क्रियमाणः प्रज्ञापकापेक्षयोर्ध्वमस्तियह क्रियते, दिवा-ऊर्ध्वाधस्तिर्यरूपेषु त्रिषु लोकेषु तथा प्राच्यादिषु दिक्षु विदिक्षु चेति, द्रव्यप्राणातिपातस्वयं-त्रस्यन्तीति । त्रसा-दीन्द्रियादयो येच 'स्थावराः' पृथिव्यादयः, चकार: खगतमेवसंसूचनार्थः, कालप्राणातिपातसमूचनार्थो वा दिवा रात्री वा, 'प्राणा' प्राणिनः, भावप्राणातिपातं साह-एतान् प्रागुक्तान् प्राणिनो हस्तपादाभ्यां 'संयम्य' पद्धा उपलक्षणार्थबादस्यान्यथा वा कदर्थयिखा यत्तेषां दुःखोत्पादनं तम कुर्यात् , यदिवतान् प्राणिनो हस्तौ पादौ च संयम्य संयतकायः सन्म १cen हिंस्यात् , चशब्दादुरासनिश्वासकासितक्षुतवातनिसर्गादिषु सर्वत्र मनोवाकायकर्मसु संयतो भवन् भावसमाधिमनुपालयेत् , तथा|| परैरदत्तं न गृह्णीयादिति तृतीयव्रतोपन्यासः, अदचादाननिषेधाचार्थतः परिग्रहो निषिद्धो भवति, नापरिगृहीवमासेव्यत इति मैथुननिषेधोऽप्युक्तः, समस्तव्रतसम्यपालनोपदेशाच्च मृपावादोऽप्यर्थतो निरस्त इति ॥२॥ ज्ञानदर्शनसमाधिमधिकृत्याह| सुष्ठाख्यातः श्रुतचारित्राख्यो धर्मो येन साधुनाऽसौ खाख्यातधर्मा, अनेन ज्ञानसमाधिरुक्तो भवति, न हि विशिष्टपरिज्ञानमन्तरेण |S स्वाख्यातधर्मखमुपपद्यत इति भावः, तथा विचिकित्सा-चित्त विप्नुतिर्विद्वज्जुगुप्सा वा ता [वितीर्ण:'-अतिक्रान्तः तदेव च | निःशएं यज्जिनः प्रवेदित'मित्येवं निशक्तया न कचिश्चित्तविप्लति विधत्त इत्यनेन दर्शनसमाधिः प्रतिपादितो भवति, येन केनचित्तासुकाहारोपकरणादिगतेन विधिनाऽऽत्मानं यापयति-पालयतीति लाढः, स एवम्भूतः संयमानुष्ठानं 'चरेद्' अनुतिष्ठेत् , तथा प्रजायन्त इति प्रजाः-पृथिव्यादयो जन्तवस्तास्वात्मतुल्यः, आत्मवत्सर्वप्राणिनः पश्यतीत्यर्थः, एवम्भूत एव भावसाधुर्भवतीति, तथा चोक्तम्-"जह मम ण पियं दुक्खं, जाणिय एमेव सबजीवाणं । ण हणइ ण हणावेइ य, सममगई तेण सो समणो ॥१॥" यथा च ममाऽऽक्रुश्यमानस्याभ्याख्यायमानस्य वा दुःखमुत्पद्यते एवमन्येपामपीत्येवं मखा प्रजाखात्मसमो भवति, तथा इहासंयमजीवितार्थी प्रभूतं कालं सुखेन जीविष्यामीत्येतदध्यवसायी वा 'आय' कर्माश्रवलक्षणं न कुर्यात् , तथा 'चयम्' उपचयमाहारोपकरणादेर्धनधान्यद्विपदचतुष्पदादेर्वा परिग्रहलक्षणं संचयमायत्यर्थ सुष्टु तपस्वी सुतपस्वी-विकृष्टतपोनिष्टप्तदेहो भिक्षुर्न कुर्यादिति |॥३॥ किश्चान्यत्-सर्वाणि च तानि इन्द्रियाणि च स्पर्शनादीनि तैरभिनिवृतः संवृतेन्द्रियो जितेन्द्रिय इत्यर्थः, क ?-'प्रजासु' स्त्रीपु, तासु हि पञ्चप्रकारा अपि शब्दादयो विषया विद्यन्ते, तथा चोक्तम्-"कलानि वाक्यानि विलासिनीनां गतानि रम्याण्यव| लोकितानि । रतानि चित्राणि च सुन्दरीणां, रसोऽपि गन्धोऽपि च चुम्बनानि ॥१॥" तदेवं स्त्रीषु पञ्चेन्द्रियविषयसम्भवात्तद्विषये
१ यथा मम न प्रियं दुःखं झाला एवमेव सर्वसरवानां । न हन्ति न घातयति च सममणति तेन स श्रमणः ॥ १॥ संवृतसर्वन्द्रियेण भाव्यम् , एतदेव दर्शयति-'चरेत् संयमानुष्ठानमनुतिष्ठेत् 'मुनिः साधुः 'सर्वतः' सबाह्याभ्यन्तरात् सङ्गाद्विशे-18 १० समापण अमुक्तो विनमुक्तो निःसङ्गो मुनिः निष्किञ्चनश्चेत्यर्थः, स एवम्भूतः सर्वबन्धनविप्रमुक्तः सन् 'पश्य अवलोकय पृथक् पृथक ध्यध्ययन. पृथिव्यादिपु कायेषु मूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिन्मान् 'सत्वान्' प्राणिनः अपिशब्दावनस्पतिकाये साधारणशरीरिणोऽनन्तानप्येकखमागतान पश्य, किंभूतान् ?-दुःखेन-असातवेदनीयोदयरूपेण दुःखयतीति वा दुःखम्-अष्टप्रकारं कर्म तेनान्-ि पीडितान परि-समन्तात्संसारकटाहोदरे वकृतेनेन्धनेन 'परिपच्यमानान' काध्यमानान् यदिवा-दुष्प्रणिहितेन्द्रियानार्तध्यानोपगतान्मनोवाकायैः परितप्यमानान् पश्येति सम्बन्धो लगनीय इति ॥४॥ अपिच
एतेसु वाले य पकुवमाणे, आवदृती कम्मसु पावएसु । अतिवायतो कीरति पावकम्म, निउंजमाणे उ करेइ कम्मं ॥ ५॥ आदीणवित्तीव करेति पावं, मंता उ एगंतसमाहिमाहु। बुद्धे समाहीय रते विवेगे, पाणातिवाता विरते ठियप्पा ॥६॥ सवं जगं तू समयाणुपेही, पियमप्पियं कस्सइ णो करेजा । उटाय दीणो य पुणो विसन्नो, संपूयणं चेव सिलोयकामी ॥७॥ आहाकडं चेव निकाममीणे, नियामचारी य विसण्णमेसी । इत्थीसु सत्ते य पुढो य वाले,
॥२८९॥ परिग्गहं चेव पकुवमाणे ॥८॥
सूत्रकृता शीलाकाचायित्त्तियुने
eseeo
॥१८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org