________________
125
IS नामादिना निक्षिप्य भावसमाधिनेह 'प्रकृतम्' अधिकार इति । समाधिनिक्षेपार्थमाह-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् एष
तु समाधिनिक्षेपः पविधो भवति, तुशब्दो गुणनिष्पन्न व नानो निक्षेपो भवतीत्यस्वार्थस्याविर्भावनार्थ इति, नामस्थापने सुगमबादनारत्य द्रव्यादिकमधिकृत्याह-पश्चस्खपि शब्दादिषु मनोज्ञेषु विषयेषु श्रोत्रादीन्द्रियाणां यथाखं प्राप्ती सत्यां यस्तुष्टि विशेषः। स द्रव्यसमाधिः, तदन्यथा खसमाधिरिति, यदिवा द्रव्ययोर्द्रव्याणां वा सम्मिश्राणामविरोधिना सतां न रसोपघानो भवति अपितु रसपुष्टिः स द्रव्यसमाधिः, तद्यथा-क्षीरशर्करयोदधिगुडचातुर्जातकादीनां चेति, येन वा द्रव्येणोपभुक्तेन समाधिपानका|दिना समाधिर्भवति तद्रव्यं द्रव्यसमाधिः, तुलादावारोपितं वा यत् द्रव्यं समतामुपैतीत्यादिको द्रव्यसमाधिरिति, क्षेत्रसमाधिस्तु यस्य यस्मिन् क्षेत्र व्यवस्थितस्य समाधिरुत्पद्यते स क्षेत्रप्राधान्यात् क्षेत्रसमाधिः यसिन्वा क्षेत्रे समाधिावण्यत इति, कालस
माधिरपि यस्य यं कालमवाप्य समाधिरुत्पद्यते, तद्यथा-शरदि गवां नक्तमुलूकानामहनि बलिभुजां, यस्य वा यावन्तं कालं समाधिशर्भवति यसिन्वा काले समाधियाख्यायते स कालप्राधान्यात् कालसमाधिरिति । भावसमाधि खधिकृत्याह-भावसमाधिस्तु। दर्शनमानतपश्चारित्रभेदाचतुर्दा, तत्र चतुर्विधमपि भावसमाधि समासतो गाथापचानाह-ममक्षुणा चर्यत इति चरणं तत्र सम्यकचरणे-चारित्रे व्यवस्थितः-समुद्युक्तः साधुः' मुनिश्चतुर्वपि भावसमाधिभेदेषु दर्शनज्ञानतपश्चारित्ररूपेषु सम्यगाहितो-व्यवस्थापित | आत्मा येन स समाहितात्मा भवति, इदमुक्त भवति-यः सम्यक्चरणे व्यवस्थितः स चतुर्विधभावसमाधिसमाहितात्मा भवति, यो18 वा भावसमाधिसमाहितात्मा भवति, स सम्यक्चरणे व्यवस्थितो द्रष्टव्य इति, तथाहि-दर्शनसमाधी व्यवस्थितो जिनवचन
भावितान्तःकरणो निवातशरणप्रदीपवन कुमतिवायुभिर्धाम्यते, ज्ञानसमाधिना तु यथा यथाऽपूर्व श्रुतमधीते तथा तथाऽतीव भावमूत्रकृता समाधावुयुक्तो भवति, तथा चोक्तम्-"जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउछ । तह तह पल्हाइ मुणी णवणवसंवे
१० समाशीलाङ्का- |गसद्धाए ॥ १॥" चारित्रसमाधावपि विषयसुखनिःस्पृहतया निष्किश्चनोऽपि परं समाधिमाप्नोति, तथा चोक्तम्-"तणसंथार- ध्यध्ययन, चाीय
|णिसनोवि मुणिवरो भट्टरागमयमोहो । जे पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि ? ॥१॥ नैवास्ति राजराजस्य तत्सुखं नैव देवत्तियुतं
| राजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥२॥" इत्यादि, तपासमाधिनापि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा ॥१८७॥
क्षुत्तृष्णादिपरीपहेभ्यो नोद्विजते, तथा अभ्यस्ताभ्यन्तरतपोध्यानाश्रितमनाः स निर्वाणस्थ इव न सुखदुःखाभ्यां वाध्यत इत्येवं चतुर्विधभावसमाधिस्थः सम्यक्चरणव्यवस्थितो भवति साधुरिति ।। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदं
आघं मईमं मणुवीय धम्म, अंजू समाहिं तमिणं सुणेह। अपडिन्न भिक्खू उ समाहिपत्ते, अणियाण भूतेसु परिवएज्जा ॥१॥ उड्ढे अहे यं तिरियं दिसासु, तसा य जे थावर जे य पाणा । हत्थेहिं पाएहिँ य संजमित्ता, अदिन्नमन्नेसु य णो गहेजा ॥ २॥ सुयक्खायधम्मे वितिगि
॥१८७॥ च्छतिपणे, लाढे चरे आयतुले पयासु। आयं न कुज्जा इह जीवियट्री, चयं न कुज्जा सुतवस्सि १ यथा यथा श्रुतमवगाहतेऽतिशयरसप्रसरसंयुतमपूर्व । तथा २ प्रहादते मुनिर्नवनवसंवेगश्रद्धया ॥ १॥ २ तृणसंस्तारनिविष्टोऽपि मुनिवरो भ्रष्टरागमदमोहः यत्प्रामोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि ॥ १॥
भिक्खू ॥३॥ सविंदियाभिनिव्वुडे पयासु, चरे मुणी सबतो विप्पमुक्के। पासाहि पाणे य पुढोवि सत्ते, दुक्खेण अहे परितप्पमाणे ॥४॥ अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा-अशेषगारवपरिहारेण मु (० ५५००) निर्निवाणमनुसन्धयेदित्येतद्भगवा-1 नुत्पमदिव्यज्ञानः समाख्यातवान् एतच्च वक्ष्यमाणमाख्यातवानिति, 'आघंति आख्यातवान् कोऽसौ ?-'मतिमान्' मननं मतिः-समस्तपदार्थपरिज्ञानं तद्विद्यते यस्यासौ मतिमान् केवलज्ञानीत्यर्थः, तत्रासाधारण विशेषणोपादानात्तीर्थकुद् गृह्यते, असावपि प्रत्यासत्ते-रवर्धमानखामी गृह्यते, किमाख्यातवान् ?-'धर्म' श्रुतचारित्राख्यं, कथम् ?---'अनुविचिन्त्य' केवलज्ञानेन ज्ञाखा प्रज्ञापनायोग्यान् पदार्थानाश्रित्य धर्म भाषते, यांदेवा-ग्राहकमनुविचिन्त्य कस्यार्थस्यायं ग्रहणसमर्थः? तथा कोऽयं पुरुषः? कञ्च नतः १ किंवा दर्शनमापन्न ? इत्येवं पर्यालोच्य, धर्मशुश्रूषवो वा मन्यन्ते-यथा प्रत्येकमसदभिप्रायमनुविचिन्त्य भगवान् धर्म है। भाषते, युगपत्सर्वेषां स्वभाषापरिणत्या संशयापगमादिति, किंभूतं धर्म भाषते ?-'ऋजुम्' अवक्रं यथावस्थितवस्तुखरूपनिरूप-18 शणतो, न यथा शाक्याः सर्व क्षणिकमभ्युपगम्य कृतनाशाकृताभ्यागमदोषभयात्सन्तानाभ्युपगमं कृतवन्तः तथा वनस्पतिमचेतन-8
खेनाभ्युपगम्य स्वयं न छिन्दन्ति तच्छेदनादावुपदेशं तु ददति तथा कार्षापणादिकं हिरण्यं स्वतो न स्पृशन्ति अपरेण तु तत्परिग्रहतः क्रयविक्रय कारयन्ति, तथा साङ्ख्याः सर्वमप्रच्युतानुत्पन्न स्थिरैकखभावं नित्यमभ्युपगम्य कर्मबन्धमोक्षाभावप्रसङ्गदोषभयादाविर्भावतिरोभावावाश्रितवन्त इत्यादिकौटिल्यभावपरिहारेणावक्र तथ्यं धर्ममाख्यातवान् , तथा सम्यगांधीयते-मोक्षं तन्मार्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org