________________
127
9900000000000000000
eseaksesecesesesesesesesesecesese
'एतेषु' प्राभिर्दिष्टेषु प्रत्येकसाधारणप्रकारेषूपतापक्रियया बालवत् 'बाल' अज्ञश्चशब्दादितरोऽपि सङ्घनपरितापनापद्रावणादिकेनानुष्ठानेन 'पापानि' कर्माणि प्रकर्पण कुर्वाणस्तेषु च पापेषु कर्मसु सत्सु एतेषु वा पृथिव्यादिजन्तुषु गतः संस्तेनैव संघटनादिना प्रकारेणानन्तशः 'आवर्त्यते' पीड्यते दुःखभाग्भवतीति, पाठान्तरं वा 'एवं तु बाले' एवमित्युपप्रदर्शने यथा चौरः पारदारिको वा असदनुष्ठानेन हस्तपादच्छेदान् बन्धवधादींश्चेहावाप्नोत्येवं सामान्यदृष्टेनानुमानेनान्योऽपि पापकर्मकारी इहामुत्र च दुःखभाग्भवति, 'आउद्दति 'त्ति कचित्पाठः, तत्राशुभान् कर्मविपाकान् दृष्ट्रा श्रुत्वा ज्ञात्वा वा तेभ्योऽसदनुष्ठानेभ्य
'आउति सि निवर्तते, कानि पुनः पापस्थानानि येभ्यः पुनः प्रवर्तते निवर्तते वा इत्याशय तानि दर्शयति-'अतिपाततः' ॥४प्राणातिपाततः प्राणव्यपरोपणाद्धेतोस्तचाशुभं ज्ञानावरणादिकं कर्म 'क्रियते' समादीयते, तथा परांश्च भृत्यादीन् प्राणातिपातादौ
'नियोजयन्' व्यापारयन् पापं कर्म करोति, तुशब्दान्मृपावादादिकं च कुर्वन् कारयंश्च पापकं कर्म समुच्चिनोतीति ॥५॥ | किश्चान्यत्-आ-समन्ताद्दीना-करुणास्पदा वृत्तिः-अनुष्ठानं यस्य कृपणवनीपकादेः स भवत्यादीनवृत्तिः, एवम्भूतोऽपि पापं 81 कर्म करोति, पाठान्तरं वा आदीनमोज्यपि पापं करोतीति, उक्तं च-"पिंडोलगेव दुस्सीले, णरगाओ ण मुबई" स कदाचिच्छोभनमाहारमलभमानोऽज्ञखादातरौद्रध्यानोपगतोऽधः सप्तम्यामप्युत्पधेत, तद्यथा-असावेव राजगृहनगरोत्सवनिर्गतजनसमूहवैभारगिरिशिलापातनोद्यतः स दैवात्स्वयं पतितः पिण्डोपजीवीति, तदेवमादीनभोज्यपि पिण्डोलकादिवज्जनः पापं कर्म करोतीत्येवं 'मत्वा' अवधार्य एकान्तेनात्यन्तेन च यो भावरूपो ज्ञानादिसमाधिस्तमाहुः संसारोत्तरणाय तीर्थकरगणधरादयः, द्रव्य
१ पिण्डावलगकोऽपि दुःशीलो नरकान मुच्यते ॥ सूत्रकृताङ्गं समाधयो हि स्पर्शादिसुखोत्पादका अनेकान्तिका अनात्यन्तिकाश्च भवन्ति अन्ते चावश्यमसमाधिमुत्पादयन्ति, तथा चोक्तम्
१० समाशीलाका- "यद्यपि निपेव्यमाणा मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः॥१॥” इत्यादि, तदेवं ध्यध्ययनं. चाय- 'वुद्धः' अवगततत्वः स चतुर्विधेऽपि ज्ञानादिके रतो-व्यवस्थितो 'विवेके वा' आहारोपकरणकपायपरित्यागरूपे द्रव्यभावात्मके त्तियुतं । रतः सनेवभूतश्च स्यादित्याह-प्राणानां दशप्रकाराणामप्यतिपातो-विनाशस्तस्माद्विरतः स्थितः सम्यग्मार्गेषु आत्मा यस्य सः
पाठान्तरं वा 'ठियच्चि'त्ति स्थिता शुद्धस्वभावात्मना अचि:-लेश्या यस्य स भवति स्थितार्चिा, सुविशुद्धस्थिरलेश्य इत्यर्थः ॥६॥ ॥१९॥
किञ्च'सर्व' चराचरं 'जगत् प्राणिसमूह समतया प्रेक्षितुं शीलमस्य स समतानुप्रेक्षी समतापश्यको वा, न कश्चित्प्रियो नापि द्वेष्य इत्यर्थः, तथा चोक्तम्-"नस्थि य सि कोई विस्सो पिओ व सवेसु चेव जीवेसु" तथा-'जह मम ण पियं दुक्खमित्यादि, | समतोपेतश्च न कस्यचित्प्रियमप्रियं वा कुर्यानिःसङ्गतया विहरेद्, एवं हि सम्पूर्णभावसमाधियुक्तो भवति, कश्चित्तु भावसमा-18 धिना सम्यगुत्थानेनोत्थाय परीपहोपसगैस्तर्जितो दीनभावमुपगम्य पूनर्विषण्णो भवति विषयार्थी वा कश्चिद्गार्हस्थ्यमप्यवलम्बते रससातागौरवगृद्धो वा पूजासत्काराभिलाषी स्यात् तदभावे दीनः सन् पार्श्वस्थादिभावेन वा विषण्णो भवति, कश्चित्तथा | सम्पूजनं वस्त्रपात्रादिना प्रार्थयेत् 'श्लोककामी च' श्लाघाभिलाषी च व्याकरणगणितज्योतिषनिमित्तशास्त्राण्यधीते कृश्चिदिति
॥७॥ किश्चान्यत्-साधूनाधाय-उद्दिश्य कृतं निष्पादितमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारोपकरणादिकं निकामम्-अत्यर्थं ॥१९॥ | यः प्रार्थयते स निकाममीणेत्युच्यते । तथा 'निकामम्' अत्यर्थ आधाकर्मादीनि तनिमित्तं निमन्त्रणादीनि वा सरति-चरति
१ नास्ति तस्य कोऽपि द्वेष्यः प्रियश्च सर्वेषु चैव जीवेषु ॥ | तच्छीलश्च स तथा, एवम्भूतः पार्श्वस्थावसनकुशीलानां संयमोद्योगे विषण्णानां विषण्णभावमेषते, सदनुष्ठान विषण्णतया संसारपकावसो भवतीतियावत् , अपिच 'स्त्रीषु रमणीषु 'आसक्तः' अध्युपपन्नः पृथक् पृथक् तद्भाषितहसितविबोकशरीरावयवेष्विति, बालवद् 'बाल' अज्ञः सदसद्विवेकविकलः, तदवसक्ततया च नान्यथा-द्रव्यमन्तरेण तत्सम्प्राप्तिर्भवतीत्यतो येन केनचिदुपायेन तदुपायभूतं परिग्रहमेव प्रकर्षेण कुर्वाणः पापं कर्म समुचिनोतीति ॥ ८॥ तथा
वेराणुगिद्धे णिचयं करेति, इओ चुते स इहमट्टदुग्गं । तम्हा उ मेधावि समिक्ख धम्मं, चरे मुणी सबउ विप्पमुक्के ॥९॥ आयं ण कुज्जा इह जीवियट्ठी, असज्जमाणो य परिवएज्जा । णिसम्मभासी य विणीय गिद्धिं, हिंसन्नियं वा ण कहं करेजा ॥ १०॥ आहाकडं वा ण णिकामएज्जा, णिकामयंते य ण संथवेजा। धुणे उरालं अणुवेहमाणे, चिच्चा ण सोयं अणवेक्खमाणो ॥ ११ ॥ एगत्तमेयं अभिपत्थएज्जा, एव पमोक्खो न मुसंति पासं । एसप्पमोक्खो अमुसे वरेवि, अकोहणे सञ्चरते तवस्सी ॥ १२ ॥
येन केन कर्मणा–परोपतापरूपेण वैरमनुवध्यते जन्मान्तरशतानुयायि भवति तत्र गृद्धो वैरानुगृद्धः, पाठान्तरं वा 'आरंभ|सत्तो'त्ति आरम्भे सावधानुष्ठानरूपे सक्तो-लम्रो निरनुकम्पो 'निचयं द्रव्योपचयं तमिमिचापादितकर्मनिचयं वा 'करोति'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org