________________
119
keeseseseeeeeseseseats
यथा प्राणिन उपमर्दः क्रियते स तथैव संसारान्तर्वर्ती शतशो दुःखभाक् भवतीति, जमदग्रिकृतवीर्यादीनामिव पुत्रपौत्रानुगं | वैरं प्रवर्द्धत इति भावः, किमित्येवं ?, यतस्ते कामेषु प्रवृत्ताः, कामाचारम्भैः सम्यग् भृताः संभृता-आरम्भपुष्टा आरम्भाश्च जीवोपमर्दकारिणः अतो न ते कामसम्भृता आरम्भनिश्रिताः परिग्रहे निविष्टाः दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तद्विमोचका भवन्ति-तस्थापनेतारो न भवन्तीत्यर्थः ॥३॥ किश्चान्यत्-आहन्यन्ते-अपनीयन्ते विनाश्यन्ते प्राणिनां दश प्रकारा अपि प्राणा यस्मिन् स आघातो---मरणं तसै तत्र वा कृतम्-अग्निसंस्कारजलाञ्जलिप्रदानपितृपिण्डादिकमाघातकृत्यं तदाधातुम्-आधाय कृखा पश्चात् 'ज्ञातयः स्वजनाः पुत्रकलत्रभ्रातृव्यादयः, किम्भूताः ?-विषयानन्वेष्टुं शीलं येषां तेऽन्येऽपि विषयैषिणः सन्तस्तस्य
दुःखार्जितं 'वित्तं' द्रव्यजातम् 'अपहरन्ति' स्वीकुर्वन्ति, तथा चोक्तम्-"ततस्तेनार्जितैर्द्रव्यैर्दारैश्च परिरक्षितैः । क्रीडन्त्यन्ये 18 नरा राजन् !, हृष्टास्तुष्टा हलङ्कताः॥१॥" स तु द्रव्यार्जनपरायणः सावद्यानुष्ठानवान् कर्मवान् पापी स्वकृतैः कर्मभिः सं
सारे 'कृत्यते' छिद्यते पीब्यत इतियावत् ॥ ४॥ खजनाश्च तद्रव्योपजीविनस्तत्राणाय न भवन्तीति दर्शयितुमाहमाया पिया पहुसा भाया, भजा पुत्ता य ओरसा । नालं ते तव ताणाय, लुप्पंतस्स सकम्मुणा॥५॥
एयमटुं सपेहाए, परमट्टाणुगामियं । निम्ममो निरहंकारो, चरे भिक्खू जिणाहियं ॥ ६ ॥
18 चिच्चा वित्तं च पुत्ते य, णाइओ य परिग्गहं । चिच्चा ण अंतगं सोयं, निरवेक्खो परिवए ॥७॥ सूत्रकृताङ्गं 14 पुढवी उ अगणी वाऊ, तणरुक्ख सवीयगा । अंडया पोयजराऊ, रससंसेयउब्भिया ॥ ८॥ ९ धर्माशीलाङ्का
ध्ययनं. चाय 'माता' जननी 'पिता' जनकः 'स्नुषा' पुत्रवधुः 'भ्राता' सहोदरः तथा 'भार्या कलत्रं पुत्राश्चौरसाः-खनिष्पादिता त्तियुतं
एते सर्वेऽपि मात्रादयो ये चान्ये श्वशुरादयस्ते तव संसारचक्रवाले स्वकर्मभिर्विलुप्यमानस्य त्राणाय 'नालं' न समर्था भवन्तीति,
इहापि तावन्नते त्राणाय किमुतामुत्रेति, दृष्टान्तश्चात्र कालसौकरिकसुतः सुलसनामा अभयकुमारस्य सखा, तेन महासत्वेन ॥१७८॥
| खजनाभ्यर्थितेनापि न प्राणिवपकृतम्, अपि खात्मन्येवेति ॥५॥ किश्चान्यत-धर्मरहितानां स्वकृतकर्मविलुप्यमानानौमहिकामु-18 |ष्मिकयोर्न कश्चित्राणायेति एनं पूर्वोक्तमर्थ स प्रेक्षापूर्वकारी 'प्रत्युपेक्ष्य' विचार्यावगम्य च परमः-प्रधानभूतो (ऽर्थो) मोक्षः18
संयमो वा तमनुगच्छतीति तच्छीलश्च परमार्थानुगामुकः-सम्यग्दर्शनादिस्तं च प्रत्युपेक्ष्य, क्वाप्रत्ययान्तस्य पूर्वकालवाचितया ! || क्रियान्तरसव्यपेक्षवात् तदाह-निर्गतं ममख बाह्याभ्यन्तरेषु वस्तुषु यस्मादसौ निर्ममः तथा निर्गतोऽहङ्कारः-अभिमानः पूर्वं-18
श्वर्यजात्यादिमदजनितस्तथा तपःस्वाध्यायलाभादिजनितो वा यस्मादसौ निरहङ्कारो-रागद्वेषरहित इत्यर्थः, स एवम्भूतो भिक्षुजिनैराहितः-प्रतिपादितोऽनुष्ठितो वा यो मार्गो जिनानां वा सम्बन्धी योऽभिहितो मार्गस्तं 'चरेद्' अनुतिष्ठेदिति ॥ ६॥ अपिच-संसारखभावपरिज्ञानपरिकर्मितमतिर्विदितवेद्यः सम्यक् 'त्यक्त्वा ' परित्यज्य किं तद् ?-'वित्तं' द्रव्यजातं पुत्रांश्च त्यक्खा, ॥१७८॥ पुत्रेष्वधिकः स्नेहो भवतीति पुत्रग्रहणं, तथा 'ज्ञातीन्' खजनांश्च त्यक्ता तथा 'परिग्रहं चान्तरममखरूपं णकारो वाक्यालकारे अन्तं गच्छतीत्यन्तगो दुष्परित्यज इत्यर्थः अन्तको वा विनाशकारीत्यर्थः आत्मनि वा गच्छतीत्यात्मग आन्तर इत्यर्थः तं तथाभूतं 'शोक' संतापं 'त्यक्त्वा ' परित्यज्य श्रोतो वा-मिथ्याखाविरतिप्रमादकषायात्मकं कर्माश्रवद्वारभूतं परित्यज्य, पाठान्तरं वा-'चिच्चा णणंतगं सोयं अन्तं गच्छतीत्यन्तगं न अन्तगमनन्तगं श्रोतः शोकं वा परित्यज्य 'निरपेक्ष' पुत्रदारधन
धान्यहिरण्यादिकमनपेक्षमाणः सन् आमोक्षाय परि-समन्तात् संयमानुष्ठाने 'व्रजेत्' परिव्रजेदिति, तथा चोक्तम्-"छलिया, || अवयक्खंता निरावयक्खा गया अविग्घेणं । तम्हा पवयणसारे निरावयक्खेण होयत्वं ॥१॥ भोगे अवयक्खंता पडंति संसारसागरे घोरे । भोगेहि निरवयक्खा तरंति संसारकंतारं ॥२॥" इति ॥७॥ स एवं प्रबजितः सुव्रतावस्थितात्माहिंसादिषु व्रतेषु प्रयतेत, तत्राहिंसाप्रसिद्ध्यर्थमाह-'पुढवी उ' इत्यादि श्लोकद्वयं, तत्र पृथिवीकायिकाः सूक्ष्मर दरपर्याप्तकापर्याप्तकभेदभिमाः तथाऽप्रकायिका अग्निकायिका वायुकायिकाचैवम्भूता एव, वनस्पतिकायिकान् लेशतः समेदानाह-'तृणानि' कुशवैच्चकादीनि 'वृक्षाः' चूताशोकादिकाः सह बीजैवर्तन्त इति सबीजाः, बीजानि तु शालिगोधूमयवादीनि, एते एकेन्द्रियाः पञ्चापि । कायाः षष्ठत्रसकायनिरूपणायाह-अण्डाजाता अण्डजा:-शकुनिगृहकोकिलकसरीसृपादयः तथा पोता एव जाता: पोतजा-हस्तिशरभादयः तथा जरायुजा ये जम्बालवेष्टिताः समुत्पद्यन्ते गोमनुष्यादयः तथा रसात्-दधिसौवीरकादेजोता रसजास्तथा संखेदाजाताः संखेदजा-यूकामत्कुणादयः 'उद्भिजा' खञ्जरीटकदर्दुरादय इति, अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यास इति ।। ८॥
१ छलिता अपेक्षमाणा निरपेक्षमाणा गता अविन्नेन तस्मात्प्रवचनसारे ( ज्ञाते) निरपेक्षेण भवितव्यम् ॥१॥ २ भोगानपेक्षमाणाः पतन्ति संसारसागरे |घोरे । भोगेषु निरपेक्षास्तरन्ति संसारकान्तारं ॥१॥३ बन्धका प्र.।
eacoesel
Xesterocesesectrotatoestedeotisecseeeeeeeeeeeeeeeee
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org