________________
सूत्रकृताङ्ग
शीलाङ्काचार्ययवृ
त्रियुतं
॥ १७६ ॥
सूत्रकृताङ्ग
शीलाङ्काचार्ययवृतियुतं
॥ १७७॥
sebes
118
णावणाधम्मो दव्वधम्मो य भावधम्मो य । सच्चित्तान्चित्तमी सग गिहत्थदाणे दवियधम्मे ॥ १०० ॥ नामस्थापनाद्रव्यभावभेदाच्चतुर्धा धर्मस्य निक्षेपः, तत्रापि नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यधर्मः सचिताचित्तमिश्रभेदात् त्रिधा, तत्रापि सचित्तस्य जीवच्छरीरस्योपयोगलक्षणो 'धर्मः' स्वभावः एवमचित्तानामपि धर्मास्तिकायादीनां यो यस्य स्वभावः स तस्य धर्म इति, तथाहि - " गहलक्खणओ धम्मो, अहम्मो ठाणलक्खणो । भायणं सङ्घदवाणं, नहं अवगाहलक्खणं ।। १ ।। " पुद्गलास्तिकायोऽपि ग्रहणलक्षण इति, मिश्रद्रव्याणां च क्षीरोदकादीनां यो यस्य स्वभावः स तद्धर्मतयाध्वग - न्तव्य इति, गृहस्थानां च यः कुलनगरग्रामादिधर्मो गृहस्थेभ्यो गृहस्थानां वा यो दानधर्मः स द्रव्यधर्मोऽवगन्तव्य इति तथा चोक्तम् - "अनं पानं च वस्त्रं च, आलयः शयनासनम् । शुश्रूषा चन्दनं तुष्टिः पुण्यं नवविधं स्मृतम् ॥ १ ॥" भावधर्मस्वरूपनिरूपणायाह-
| लोइयलोउत्तरिओ दुविहो पुण होति भावधम्मो उ । दुविहोवि दुविहनिविहो पंचविहो होति णायच्च ॥ १०१ ॥
भावधर्मो नोआगमतो द्विविधः, तद्यथा - लौकिको लोकोत्तरश्च तत्र लौकिको द्विविधः गृहस्थानां पाखण्डिकानां च, लोकोतरस्त्रिविधः - ज्ञानदर्शनचारित्रभेदात्, तत्राप्याभिनिबोधादिकं ज्ञानं पञ्चधा, दर्शनमप्योपशमिकसास्वादनक्षायोपशमिकवेद कक्षायिकभेदात् पञ्चविधं, चारित्रमपि सामायिकादिभेदात् पञ्चचैव । गाथाऽक्षराणि खेवं नेयानि तद्यथा - भावधर्मो लौकिकलोकोत्तरभेदाद्विधा, द्विविधोऽपि चायं यथासत्येन द्विविधस्त्रिविधः, तत्रैव लौकिको गृहस्थपाखण्डिकभेदात् द्विविधः, लोकोत्तरोऽपि ज्ञानदर्शनचारित्रभेदात् त्रिविधः, ज्ञानादीनि प्रत्येकं त्रीण्यपि पंचधवेति ॥ तत्र ज्ञानदर्शनचारित्रवतां साधूनां यो धर्मस्तं दर्शयितुमाह
पासत्थोसण्णकुसील संभवो ण किर वहती काउं । सूयगडे अज्झयणे धम्मंमि निकाइनं एयं ॥ १०२ ॥ साधुगुणानां पार्श्वे तिष्ठन्तीति पार्श्वस्थाः तथा संयमानुष्ठानेऽवसीदन्तीत्यवसन्नाः तथा कुत्सितं शीलं येषां ते कुशीलाः एतैः पार्श्वस्थादिभिः सह संस्तवः - परिचयः सहसंवासरूपो न किल यतीनां वर्त्तते कर्तुम्, अतः सूत्रकृतेऽङ्गे धर्माख्येऽध्ययने एतत् 'निकाचितं' नियमितमिति । गतो नामनिष्पन्नो निक्षेपः, अधुना मूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारयितव्यं तच्चेदम्| कयरे धम्मे अक्खाए, माहणेण मतीमता ? । अंजु धम्मं जहातचं जिणाणं तं सुणेह मे ॥ १ ॥ ग्रहणा खत्तिया वेस्सा, चंडाला अदु बोक्सा | एसिया वेसिया मुद्दा, जे य आरंभणिस्सिया ॥ २ ॥ | परिग्गहनिविद्वाणं, वेरं तेसिं पत्रडई | आरंभसंभिया कामा, न ते दुक्खविमोयगा ॥ ३ ॥ आघायकिच्च माहेउं, नाइओ विसएसिणो । अन्ने हरंति तं वित्तं, कम्मी कस्मेहिं किच्चती ॥ ४॥
जम्बूस्वामी सुधर्मस्वामिनमुद्दिश्येदमाह तद्यथा - 'कतरः' किम्भूतो दुर्गतिगमनधरणलक्षणो धर्मः 'आख्यातः' प्रतिपादितो 'माहणेणं' ति मा जन्तून् व्यापादयेत्येवं चिनेयेषु वाक्प्रवृत्तिर्यस्यासौ 'माहनो' भगवान् वीरवर्धमान स्वामी तेन ?, तमेव विशिनष्टि-मनुते - अवगच्छति जगत्रयं कालत्रयोपेतं यया सा केवलज्ञानाख्या मतिः सा अस्यास्तीति मतिमान् तेन उत्पन्नकेवलज्ञानेन भगवता इति पृष्टे सुधर्मस्वाम्याह - रागद्वेपजितो जिनास्तेषां सम्बन्धिनं धर्म 'अंजुम्' इति 'ऋजुं' मायाप्रपञ्चरहितत्वादवक्रं तथा - 'जहातचं मे' इति यथावस्थितं मम कथयतः शृणुत यूयं, न तु यथाऽन्यैस्तीर्थिकंर्दम्भप्रधानो धर्मोऽभिहितस्तथा भगवताऽपीति, पाठान्तरं वा 'जणगा तं सुणेह में' जायन्त इति जना लोकास्त एव जनकास्तेपामामन्त्रणं हे जनकाः ! तं धर्म शृणुत यूयमिति ॥ १ ॥ अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सूक्तो भवतीत्यतो यथोद्दिष्टधर्मप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावद्दर्शयितुमाहब्राह्मणाः क्षत्रिया वैश्यास्तथा चाण्डालाः अथ चोकसा - अवान्तरजातीयाः, तद्यथा— ब्राह्मणेन शूयां जातो निषादो ब्राह्मणेनैव | वैश्यायां जातोऽम्बष्ठः तथा निषादेनाम्बष्टयां जातो बोकसः, तथा एषितुं शीलमेपामिति एषिका - मृगलुब्धका हस्तितापसाच मांसहेतोर्मृगान् हस्तिनच एपन्ति, तथा कन्दमूलफलादिकं च, तथा ये चान्ये पाखण्डिका नानाविधैरुपायै भैक्ष्यमेपन्त्यन्यानि वा विषयसाधनानि ते सर्वेऽप्येषिका इत्युच्यन्ते, तथा 'वैशिका' वणिजो मायाप्रधानाः कलोपजीविनः, तथा 'शूद्राः' कृषीवलादयः आभीरजातीयाः कियन्तो वा वक्ष्यन्त इति दर्शयति-ये चान्ये वर्णापसदा नानारूपसावद्य 'आरम्भ (म्भे) निश्रिता' यत्र| पीडननिर्लाञ्छन कर्माङ्गारदाहादिभिः क्रियाविशेषैर्जीवोपमर्द्दकारिणः तेषां सर्वेषामेव जीवापकारिणां वैरमेव प्रवर्धत इत्युत्तरश्लोके क्रियेति ॥ २ ॥ किञ्च परि - समन्तात् गृह्यत इति परिग्रहो— द्विपदचतुष्पदधनधान्यहिरण्य सुवर्णादिषु ममीकारस्तत्र 'निविष्टानाम्' अभ्युपपन्नानां गा गतानां 'पापम्' असातावेदनीयादिकं 'तेषां' प्रागुक्तानामारम्भनिश्रितानां परिग्रहे निविटानां प्रकर्षेण 'वर्द्धने' वृद्धिमुपयाति जन्मान्तरशतेष्वपि दुर्मोचं भवति, कचित्पाठः 'वेरं तेसिं पवई'ति तत्र येन यस्य
Jain Education International
For Private Personal Use Only
९ धर्मा
ध्ययनं.
॥१७६॥
९ धर्माध्ययनं.
।।१७७।।
www.jainelibrary.org