________________
000000000000000000
117 ये केचन स्वयम्बुद्धास्तीर्थकरायास्तच्छिष्या वा बुद्धबोधिता गणधरादयो 'महाभागा' महापूजामाजो 'वीराः कर्मविदारण| सहिष्णवो ज्ञानादिभिर्वा गुणैर्विराजन्त इति वीराः, तथा 'सम्यक्त्वदर्शिन:' परमार्थतत्ववेदिनस्तेषां भगवतां यत्पराक्रान्तं| तपोऽध्ययनयमनियमादावनुष्ठितं तच्छुद्धम् -अवदातं निरुपरोधं सातगौरवशल्यकषायादिदोषाकलङ्कितं कर्मबन्धं प्रति | अफलं भवति--तनिरनुबन्धनिर्जरार्थमेव भवतीत्यर्थः, तथाहि-सम्यग्दृष्टीनां सर्वमपि संयमतपःप्रधानमनुष्ठानं भवति, | संयमस्य चानाश्रवरूपत्वात् तपसश्च निर्जराफलखादिति, तथा च पठ्यते--"संयमे अणण्यफले तवे बोदाणफले" इति |
॥ २३ ॥ किश्चान्यत्—महत्कुलम् ---इक्ष्वाकादिकं येषां ते महाकुला लोकविश्रुताः शौर्यादिभिर्गुणैर्विस्तीर्णयशसस्तेषामपि | पूजासत्काराद्यर्थमुत्कीर्त्तनेन वा यत्तपस्तदशुद्धं भवति, यच्च क्रियमाणमपि तपो नैवान्ये दानश्राद्धादयो जानन्ति तत्तथाभूतमात्मार्थिना विधेयम् , अतो नैवात्मश्लाघा 'प्रवेदयेत्' प्रकाशयेत् , तद्यथा-अहमुत्तमकुलीन इभ्यो वाऽऽसं साम्प्रतं का पुनस्तपोनिष्टप्तदेह इति, एवं स्वयमाविष्करणेन न खकीयमनुष्ठानं फल्गुतामापादयेदिति ॥ २४ ॥ अपिच-अल्पस्तोकं पिण्डमशितुं शीलमस्यासावल्पपिण्डाशी यत्किञ्चनाशीति भावः, एवं पानेऽप्यायोज्यं, तथा चागमः-"हे' जं व तं व आसीय जत्थ व तत्थ व सुहोवगयनिहो । जेण व तेण (व) संतुट्ट धीर! मुणिओऽसि ते अप्पा ॥१॥ तथा “अडकुकुडिअंड-18
१ महानागाः प्र० । २ संयमोऽनाश्रवफलः तपो व्यवदानफलमिति । ३ यद्वा तद्वा अशिखा यत्र तत्र वा मुखोपगतनिद्रः येन तेन वा सन्तुष्टः (असि) हे वीर!
लयात्मा ज्ञातोऽस्ति ॥१॥ ४ अष्टकुक्यण्डकप्रमाणान्कवलानाहारयनल्पाहारो द्वादशकवलरपार्धावमोदरिका षोडशभिर्द्विभागा प्राप्ता चतुर्विशल्या अवमोदेरिका सूचक्क. ३० | त्रिंशता कवलेः प्रमाणप्राप्तः द्वात्रिंशत्कवलाः सम्पूर्णाहार इति । सूत्रकृताङ्गं गमेनप्पमाणे कवले आहारेमाणे अप्पाहारे दुवालसकवलेहिं अवड्डोमोयरिया सोलसहिं दुभागे पत्ते चउवीसं ओमोदरिया तीस ४८वीयों शीलाङ्का
पमाणपत्ते बत्तीसं कवला संपुण्णाहारे" इति, अत एकैककवलहान्यादिनोनोदरता विधेया, एवं पाने उपकरणे चोनोदरतां विद- ध्ययनं. चाीयचियुतं
ध्यादिति, तथा चोक्तम्-"थोवाहोरो थोक्मणिओ अ जो होइ थोवनिदो अ । थोवोवहिउवकरणो तस्स हु देवाषि पणमंति
॥१॥" तथा 'सुव्रतः साधुः 'अल्पं परिमितं हितं च भाषेत, सर्वदा विकथारहितो भवेदित्यर्थः, भावावमौदर्यमधिक॥१७५॥ । त्याह-भावतः क्रोधाद्युपशमात् 'क्षान्तः शान्तिप्रधानः तथा 'अभिनिवृतो' लोभादिजयामिरातुरः, तथा इन्द्रियनोइन्द्रिर
दमनात् 'दान्तो' जितेन्द्रियः, तथा चोक्तम्-"कषाया यस्य नोच्छिन्ना, यस्य नात्मवशं मनः । इन्द्रियाणि न गुप्तानि, प्रव्रज्या तस्य जीवनम् ॥१॥" एवं विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धिः-आशंसादोषरहितः 'सदा' सर्वकालं संयमानुष्ठाने | 'यतेत' यत्नं कुर्यादिति ।। २५ ॥ अपिच-'झाणजोगम्' इत्यादि, ध्यान-चित्तनिरोधलक्षणं धर्मध्यानादिकं तत्र योगो विशिष्टमनोवाकायव्यापारस्तं ध्यानयोग 'समाहृत्य' सम्यगुपादाय 'कार्य' देहमकुशलयोगप्रवृत्तं 'व्युत्सृजेत् परित्यजेत् 'सर्वतः सर्वेणापि प्रकारेण, हस्तपादादिकमपि परपीडाकारि न व्यापारयेत् , तथा 'तितिक्षा' शान्ति परीपहोपसर्गसहनरूपां 'परमां' प्रधानां ज्ञाखा 'आमोक्षाय' अशेषकर्मक्षयं यावत् 'परिव्रजेरि'ति संयमानुष्ठानं कुर्यास्वमिति । इतिः परिसमाप्त्यर्थे । ब्रवीमी-18 ॥१७॥ ति पूर्ववत् ।। २६ ।। समाप्तं चाष्टमं वीर्याख्यमध्ययनमिति ।
eeseseseaceaeasreedeceaeoesreceioeceseseeeeeeesercerceleoeceneseseseekenedesesea
१ स्तोकाहारः स्तोकभणितः स्तोक निद्रश्च यो भवति । स्तोकोपधिकोपकरणस्तस्मै च देवा अपि प्रणमन्ति ॥१॥
अथ नवमं अध्ययनं प्रारभ्यते ॥
अष्टमानन्तरं नवमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने वालपण्डितभेदेन द्विरूपं वीर्य प्रतिपादितं, अत्रापि तदेव पण्डितवीर्य धर्म प्रति यदुधमं विधत्ते अतो धर्मः प्रतिपाद्यत इत्यनेन सम्बन्धेन धर्माध्ययनमायातं, अस्य चबार्यनु-18 | योगद्वाराणि उपक्रमादीनि प्राग्वत् व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-धर्मोऽत्र प्रतिपाद्यत इति तम-18| |धिकृत्य नियुक्तिकृदाह
धम्मो पुवुद्दिट्टो भावधम्मेण एत्थ अहिगारो। एसेव होइ धम्मे एसेव समाहिमग्गोत्ति ॥ ९९॥ प्र दुर्गतिगमनधरणलक्षणो धर्मः प्राक् दशवकालिकश्रुतस्कन्धषष्ठाध्ययने धर्मार्थकामाख्य उद्दिष्टः-प्रतिपादितः, इह तु | भावधर्मेणाधिकारः, एष एव च भावधर्मः परमार्थतो धर्मो भवति, अमुमेवार्थमुत्तरयोरप्यध्ययनयोरतिदिशमाह-एष एव च भावसमाधिर्भावमार्गश्च भवतीत्यवगन्तव्यमिति, यदिवैष एव च भावधर्मः एष एव च भावसमाधिरेष एव च तथा भावमार्गो भवति, न तेषां परमार्थतः कश्चिद्भेदः, तथाहि-धर्मः श्रुतचारित्राख्यःक्षान्त्यादिलक्षणो वा दशप्रकारो भवेत् , भावसमाधिरप्येवंभूत एव, | तथाहि-सम्यगाधानम्-आरोपणं गुणानां क्षान्त्यादीनामिति समाधिः, तदेवं मुक्तिमार्गोऽपि ज्ञानदर्शनचारित्राख्यो भावधर्मतया || | व्याख्यानयितव्य इति ।। साम्प्रतमतिदिष्टस्यापि स्थानाशून्यार्थ धर्मस्य नामादिनिक्षेपं दर्शयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org