________________
शीलाङ्का
चाय
चियुर्व
॥१७३॥
सूत्रकृताङ्गं शीलाङ्काचार्ययतियुतं ॥१७४॥
116
वर्जित इत्यपि द्रष्टव्यं स चैवम्भूतः संयमानुष्ठानं 'चरेत्' कुर्यादिति, तदेवं मरणकालेऽन्यदा वा पण्डितवीर्यवान् महाव्रतेषूद्यतः स्यात् । तत्रापि प्राणातिपातविरतिरेव गरीयसीतिकला तत्प्रतिपादनार्थमाह- "उडमहे तिरियं वा जे पाणा तस्थावरा । सवत्थ विरतिं कृज्जा, संति निवाणमाहियं ॥ १ ॥" अयं च श्लोको न सूत्रादर्शेषु दृष्टः, टीकायां तु दृष्ट इतिकृला लिखितः, उत्तानार्थश्चेति ॥ १८ ॥ किश्व
पाणे य णाइवाएज्जा, अदिन्नंपिय णादए । सादियं ण मुसं बूया, एस धम्मे वसीमओ ॥ १९ ॥ अतिक्कम्मंति वायाए, मणसा वि न पत्थए । सबओ संबुडे दंते, आयाणं सुसमाहरे ॥ २० ॥
प्राणप्रियाणां प्राणिनां प्राणान्नातिपातयेत्, तथा परेणादतं दन्तशोधनमात्रमपि 'नाददीत' न गृहीयात्, तथा-सहादिना-मायया वर्त्तत इति सादिकं – समायं मृषावादं न ब्रूयात्, तथाहि परवञ्चनार्थं मृषावादोऽधिक्रियते, स च न माया| मन्तरेण भवतीत्यतो मृषावादस्य माया आदिभूता वर्त्तते, इदमुक्तं भवति — यो हि परवश्चनार्थ समायो मृषावादः स परिहियते, यस्तु संयमगुप्यर्थ न मया मृगा उपलब्धा इत्यादिकः स न दोषायेति, एष यः प्राक् निर्दिष्टो धर्मः - श्रुतचारित्राख्यः स्वभावो वा 'बुसीमउ'ति छान्दसत्वात्, निर्देशार्थस्वयं-वस्तूनि ज्ञानादीनि तद्वतो ज्ञानादिमत इत्यर्थः, यदिवा - वुसीमउत्ति वश्यस्य - आत्मवशगस्य -वश्येन्द्रियस्येत्यर्थः ॥ १९ ॥ अपिच प्राणिनामतिक्रमं - पीडात्मकं महाव्रतातिक्रमं वा मनोऽवष्टन्धतया परतिरस्कारं वा इत्येवम्भूतमतिक्रमं वाचा मनसाऽपि च न प्रार्थयेत्, एतद्वयनिषेधे च कायातिक्रमो दूरत एव निषिद्धो भवति, तदेवं
१ अ० ३ उ० ४ गाथा० २० नवरं जे केईसि ।
| मनोवाक्कादेः कृतकारितानुमतिभिश्व नवकेन भेदेनातिक्रमं न कुर्यात्, तथा सर्वतः - सबाह्याभ्यन्तरतः संवृतो- गुप्तः तथा इन्द्रि यदमेन तपसा वा दान्तः सन् मोक्षस्य 'आदानम्' उपादानं सम्यग्दर्शनादिकं सुश्रूयुक्तः सम्यग्विस्रोतसिकारहितः 'आहरेत्' आददीत -गृह्णीयादित्यर्थः ॥ २० ॥ किश्चान्यत् -
| कडं च कज्जमाणं न, आगमिस्सं च पावगं । सवं तं णाणुजाणंति, आयगुत्ता जिइंदिया ॥ २१ ॥ जे याबुद्धा महाभागा, वीरा असमत्तदंसिणो । असुद्धं तेसि परकंतं, सफलं होई सङ्घसो ॥ २२ ॥
साधुद्देशेन यदपरैरनार्यकल्पैः कृतमनुष्ठितं पापकं कर्म तथा वर्त्तमाने च काले क्रियमाणं तथाऽऽगामिनि च काले यत्करिष्यते तत्सर्व मनोवाक्कायकर्मभिः 'नानुजानन्ति' नानुमोदन्ते, तदुपभोगपरिहारेणेति भावः, यदप्यात्मार्थं पापकं कर्म परैः कृतं क्रियते करिष्यते वा तद्यथा-शत्रोः शिरश्छिनं छिद्यते छेत्स्यते वा तथा चौरो हतो हन्यते हनिष्यते वा इत्यादिकं परानुष्ठानं 'नानुजानन्ति' न च बहु मन्यन्ते, तथा यदि परः कश्चिदशुद्धेनाहारेणोपनिमश्रयेत्तमपि नानुमन्यन्त इति, क एवम्भूता भवन्तीति दर्शयति - आत्माऽकुशलमनोवाक्कायनिरोधेन गुप्तो येषां ते तथा, जितानि - वशीकृतानि इन्द्रियाणि श्रोत्रादीनि यैस्ते तथा, एवम्भूताः पापकर्म नानुजानन्तीति स्थितम् ॥ २१ ॥ अन्यच्च ये केचन 'अबुद्धा' धर्म प्रत्यविज्ञातपरमार्था व्याकरणशुष्कतर्का| दिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपि परमार्थवस्तुतत्त्वानवबोधादबुद्धा इत्युक्तं न च व्याकरणपरिज्ञानमात्रेण सम्यक्लव्यतिरेकेण तत्त्वावबोधो भवतीति, तथा चोक्तम्- "शाखावगाह परिघट्टनतत्परोऽपि नैवाबुधः समभिगच्छति वस्तुतच्चम् ।
नानाप्रकाररसभावगताऽपि दव, खादं रसस्य सुचिरादपि नैव वेति ॥ १ ॥" यदिवाऽबुद्धा इव बालवीर्यवन्तः, तथा महान्तेश्व | ते भागाश्व महाभागाः, भागशब्दः पूजावचनः, ततश्च महापूज्या इत्यर्थः, लोकविश्रुता इति, तथा 'वीराः' परानीकमेदिनः सुभटा इति इदमुक्तं भवति - पण्डिता अपि त्यागादिभिर्गुणैर्लोकपूज्या अपि तथा सुभटवादं वहन्तोऽपि सम्यक्तस्वपरिज्ञानविकलाः केचन भवन्तीति दर्शयति न सम्यगसम्यक तद्भावोऽसम्यक्लं तद्रष्टुं शीलं येषां ते तथा, मिथ्यादृष्टय इत्यर्थः तेषां च बालानां यत्किमपि तपोदानाध्ययनयम नियमादिषु पराक्रान्तमुद्यमकृतं तदशुद्धं अविशुद्धिकारि प्रत्युत कर्मबन्धाय भावोपहतत्वात् सनिदानखाद्वेति कुवैद्यचिकित्सावद्विपरीतानुबन्धीति, तच्च तेषां पराक्रान्तं सह फलेन- कर्मबन्धेन वर्तत इति सफलं 'सर्वश' इति सर्वाऽपि तत्क्रिया तपोऽनुष्ठानादिका कर्मबन्धौयेवति ॥ २२ ॥ साम्प्रतं पण्डित वीर्विणोऽधिकृत्याह
जे य बुद्धा महाभागा, वीरा सम्मत्तदंसिणो । सुद्धं तेर्सि परकंतं, अफलं होइ सबसो ॥ २३ ॥ तेसिंपि तवो ण सुद्धो, निक्खंता जे महाकुला । जन्ने वन्ने वियाणंति, न सिलोगं पवेज्जए ॥ २४ ॥ अप्पपिंडासि पाणासि, अप्पं भासेज सुवए । खंतेऽभिनिडुडे दंते, वीतगिद्धी सदा जप ॥ २५ ॥ झाणजोगं समाहद्दु, कायं विउसेज्ज सवसो । तितिक्खं परमं णच्चा, आमोक्खाए परिवएजासि ॥२६॥ ( गाथाग्रं० ४४६ ) तिबेमि इति श्रीवीरियनाममट्टममज्झयणं समत्तं ॥
१ महान्तवेति नागाथ महान्तव ते नागाश्च प्र० । २ मुद्यमः कृतस्त० ।
Jain Education International
For Private Personal Use Only
८ वर्षाध्ययनं.
॥१७३॥
८ पी ध्ययन.
॥१७४॥
www.jainelibrary.org