________________
सूत्रकृताङ्ग शीलाङ्काचार्यीयत्तियुतं
॥ १७० ॥
सूत्र कृताङ्ग शीलाङ्कावार्यांयष्ट
तियुत
॥ १७१ ॥
114
दaिr बंधमुके, सवओ छिन्नबंधणे । पणोल पात्रकं कम्मं स कंतरि अंतसो ॥ १० ॥
'एतत्' यत् प्राक् प्रदर्शितं, तद्यथा प्राणिनामतिपानार्थ शस्त्रं शास्त्रं वा केचन शिक्षन्ते तथा परे विद्यामत्रान् प्राणिबाधकानधीयन्ते तथाऽन्ये मायाविनो नानाप्रकारां मायां कृत्वा कामभोगार्थमारम्भान् कुर्वते केचन पुनरपरे वैरिणस्तत्कुर्वन्ति येन वैरैरनुबध्यन्ते (ते) तथाहि-- जमदग्निना स्वभार्याऽकार्य व्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण त कार्तवीर्येण पुनर्जमदग्निः, जर्मदेनिसुतेन परशुरामेण सप्त वारान् निःक्षत्रा पृथिवी कृता, पुनः कार्तवीर्यमुतेन तु सुभूमेन त्रिःसप्ततो ब्राह्मणा व्यापादिताः, तथा चोक्तम्- "अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान्। अधिकां कुरु वै (ते) रियातनां द्विपतां जातमुद्धरेत् ॥ १ ॥ |” तदेवं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौत्रादिष्वपि वैरानुबन्धो भवति, तदेतत्सकर्मणां बालानां वीर्ये तुशब्दात्प्रमादवतां च प्रकर्षेण वेदितं प्रवेदितं प्रतिपादितमितियावत्, अत ऊर्ध्वमकर्मणां पण्डितानां यद्वीर्यं तन्मे-मम कथयतः शृणुत यूयमिति ॥ ९ ॥ यथाप्रतिज्ञातमेवाह- 'द्रव्यो' भव्यो मुक्तिगमनयोग्यः द्रव्यं च भव्य' इति वचनात् रागद्वेपविरहाद्वा द्रव्यभूतोऽकपायीत्यर्थः, यदिवा वीतराग इव वीतरागोऽल्पकपाय इत्यर्थः, तथा चोक्तम्- "किं सका वोतुं जे सरागधम्मंमि को अकसायी। संतेवि जो कसाए निगिण्हइ सोऽवि तत्तुल्लो ||१||" स च किम्भूतो भवतीति दर्शयति-बन्धनाद- कपायात्मकान्मुक्तो बन्ध
१ किं शक्या वक्तुं यत्सरागथम् कोऽप्यकपायः सतोऽपि यः कषायान्निगृहाति सोऽपि तत्तव्यः ॥ १ ।।
नोन्मुक्तः, बन्धनत्वं तु कपायाणां कर्मस्थितिहेतुत्वात्, तथा चोक्तम्- "बंधेहिई कसायवसा" कपायवशात् इति, यदिवा - बन्धनोन्मुक्त इव बन्धनोन्मुक्तः, तथाऽपरः 'सर्वतः' सर्वप्रकारेण सूक्ष्मवादररूपं 'छिन्नम्' अपनीतं 'बन्धन' कपायात्मकं येन स छिनबन्धनः, तथा 'प्रणुद्य' प्रेर्य 'पाप' कर्म कारणभूतान्वाऽथवानपनीय शल्यवच्छत्यं शेपकं कर्म तत् कृन्तति - अपनयति अन्तशो-निरवशेषतो विघटयति, पाठान्तरं वा 'सलं कंतर अप्पणो' ति शल्यभूतं यदष्टप्रकारं कर्म तदात्मनः सम्बन्धि कृन्तति - छिनत्तीत्यर्थः ॥ १० ॥ यदुपादाय शल्य मपनयति तद्दर्शयितुमाह
नेयायं सुक्खायं, उवादाय समीहए। भुज्जो भुज्जो दुहावासं, असुहत्तं तहा तहा ॥ ११ ॥ ठाणी विविहठाणाणि, चइस्संति ण संसओ । अणियते अयं वासे, णायएहि सुहीहि य ॥ १२ ॥ नयनशीलो नेता, नयतेस्ताच्छीलिकस्तृन् स चात्र सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मो मोक्षनयनशीलखात् गृह्यते, तँ मार्ग धर्म वा मोक्षं प्रति नेतारं सुष्ठु तीर्थकरादिभिराख्यातं वाख्यातं तम् 'उपादाय' गृहीत्वा 'सम्यक' मोक्षाय ईहते चेष्टते ध्यानाध्ययनादावुद्यमं विधत्ते धर्मध्यानारोहणालम्बनायाह - 'भूयो भूयः' पौनःपुन्येन यद्वालवीर्य तदतीतानागतानन्तभवग्रहणे - ( ग्र० ५००० ) पु दुःखमावास्यतीति दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु दुःखावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायित्वादशुभमेव प्रवर्धते इत्येवं संसारस्वरूप मनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत इति
१] बन्धस्थिती कपायवशात् ॥ २ अनिइए य संवासे इति पाठो व्याख्याकृन्मतः एवं च चकारावित्यादेर्ना संगतिर्व्याख्यापाठस्य ।
॥ ११ ॥ साम्प्रतमनित्यभावनामधिकृत्याह - स्थानानि विद्यन्ते येषां ते स्थानिनः, तद्यथा - देवलोके इन्द्रस्तत्सामानि कत्रायत्रिंशत्यार्षद्यादीनि मनुष्येष्वपि चक्रवर्तिबलदेववासुदेवमहामण्डलिकादीनि तिर्यक्ष्वपि यानि कानिचिदिष्टानि भोगभूम्यादौ स्थानानि तानि सर्वाण्यपि विविधानि - नानाप्रकाराण्युत्तमाधममध्यमानि ते स्थानिनस्त्यक्ष्यन्ति, नात्र संशयो विधेय इति, तथा चोक्तम् - " अशाश्वतानि स्थानानि सर्वाणि दिवि चेह च । देवासुरमनुष्याणामृद्धयश्च सुखानि च ।। १ ।। " तथाऽयं 'ज्ञातिभिः ' बन्धुभिः सार्धं सहायैश्व मित्रैः सुहृद्भिर्यः संवासः सोऽनित्योऽशाश्वत इति, तथा चोक्तम् - " सुचिरतरमुषित्वा बान्धवैर्विप्रयोगः, सुचिरमपि हि रन्खा नास्ति भोगेषु तृप्तिः । सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एकः सहायः ॥ १ ॥” इति चकारी धनधान्यद्विपद चतुष्पदशरीराद्यनित्यतभावनार्थों (र्थ ) अशरणाद्यशेषभावनार्थ चानुक्तसमुच्चयार्थमुपात्ताविति ।। १२ ।। अपिच-
1
एवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे । आरियं उवसंपज्जे, सवधम्ममकोवि ( ५०० ) यं ॥१३॥ सह संमइए णच्चा, धम्मसारं सुणेत्तु वा । समुवट्टिए उ अणगारे, पञ्चक्खायपाव ॥ १४ ॥ अनित्यानि सर्वाण्यपि स्थानानीत्येवम् 'आदाय' अवधार्य 'मेधावी' मर्यादाव्यवस्थितः सदसद्विवेकी व आत्मनः सम्बन्धिनीं 'मृद्धि' गा ममत्वम् 'उद्धरेद्' अपनयेत् ममेदमहमस्य स्वामीत्येवं ममलं कचिदपि न कुर्यात्, तथा आराद्यातः सर्व
१ सुगुप्तं । २ नेदं प्र०
Jain Education International
For Private Personal Use Only
८ वीर्याध्ययनं .
॥ १७० ॥
८ वीर्याध्ययनं.
॥ १७१ ॥
www.jainelibrary.org