________________
सूत्रकृ. २८
सूत्रकृता
शीलाङ्काचार्ययवृ
तियुतं
॥१६३॥
109
अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे । पासत्थयं चेत्र कुसीलयं च, निस्मारए होइ जहा पुलाए ॥ २६ ॥
ये केचनापरिणतसम्यग्धर्माणस्त्यक्त्वा मातरं च पितरं च मातापित्रोर्दुस्त्यजत्वादुपादानं, अतो आवदुहित्रादिकमपि त्यक्लेत्येतदपि द्रष्टव्यं तथा 'अगारं' गृहं 'पुत्रम्' अपत्यं 'पशुं' हस्त्यश्वरथगोमहिष्यादिकं धनं च त्यक्त्वा सम्यक् प्रव्रज्योत्थानेनोत्थाय - पश्ञ्च महाव्रतभारस्य स्कन्धं दध्या पुनहनिसच्यतया रससातादिगौरवगृद्धो यः 'कुलानि' गृहाणि 'खादुकानि' स्वादुभोजनवन्ति 'धावति' गच्छति, अयासी 'श्रामण्यस्य' श्रमणभावस्य दूरे वर्त्तते एवमाहुस्तीर्थकरगणधरादय इति ।। २३ ।। एतदेव विशेषेण दर्शयितुमाह - [ ग्रन्थाग्रम् ४७५० ] यः कुलानि स्वादुभोजनवन्ति 'धावति' इयर्ति तथा गला धर्ममाख्याति भिक्षार्थ वा प्रविष्टो यद्य मैं रोचते कथानकसम्बन्धं तत्तस्याख्याति, किम्भूत इति दर्शयति – उदरेऽनुगृद्ध उदरानुगृद्धः - उदरभरणव्यग्रस्तुन्दपरिमृज इत्यर्थः, इदमुक्तं भवति यो दरगृद्ध आहारादिनिमित्तं दानश्रद्धकाख्यानि कुलानि गलाख्यायिकाः कथयति स कुशील इति, अथासावाचार्यगुणानामार्यगुणानां वा शतांशे वर्तते शतग्रहणमुपलक्षणं सहस्रांशादेरप्यधो वर्त्तते इति यो झन्नस्य हेतुं भोजन निमित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणानपरेण 'आलापयेत्' भाणयेत् असावप्यार्यगुणानां सहस्रांशे वर्त - ते किमङ्ग पुनर्यः स्वत एवाऽऽत्मप्रशंसां विदधातीति ॥ २४ ॥ किश्च -यो झात्मीयं धनधान्यहिरण्यादिकं त्यक्त्वा निष्कान्तो निष्क्रम्प च 'परभोजने' पराहारविषये 'दीनो' दैन्यमुपगतो जिहेन्द्रियवशार्तो बन्दिवत् 'मुखमाङ्गलिको' भवति
मुखेन मङ्गलानि - प्रशंसावाक्यानि ईदृशस्तादृशस्त्वमित्येवं दैन्यभावमुपगतो वक्ति, उक्तं च- " सो ऐसो जस्स गुणा वियरंतनिवारिया दसदिसासु । इहरा कहासु सुच्चसि पच्चक्खं अज्ज दिट्ठोऽसि ॥ १ ॥" इत्येवमौदर्य प्रति गृद्धः अध्युपपन्नः किमिव १'नीवारः' सूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध-आसक्तमना गृहीला च स्वयूथं 'महावराहो' महाकायः सुकरः स चाहारमागृद्धोऽति संकटे प्रविष्टः सन् 'अदूर एव' शीघ्रमेव 'घातं' विनाशम् 'एष्यति' प्राप्स्यति, एवकारोऽवधारणे, अवश्यं तस्य विनाश एव नापरा गतिरस्तीति, एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेवैति ||२५|| किंचान्यत्, स कुशीलोsन्नस्य पानस्य वा कृतेऽन्यस्य वैहिकार्थस्य वस्त्रादेः कृते 'अनुप्रियं भाषते' यद्यस्य प्रियं तत्तस्य वदतोऽनु- पश्चाद्भापते अनुभाषते, प्रतिशब्दकचत् सेवकवढा राजाद्युक्तमनुवदतीत्यर्थः, तमेव दातारमनुसेवमान आहारमात्रगृद्धः सर्वमेतत्करोतीत्यर्थः, स चैवम्भूतः सदाचारभ्रष्टः पार्श्वस्थभावमेव व्रजति कुशीलतां च गच्छति, तथा निर्गतः- अपगतः सारः - चारित्राख्यो यस्य स निःसारः, यदिवानिर्गतः सारो निःसारः स विद्यते यस्यासौ निःसारवान्, पुलाक इव निष्कणो भवति यथा - एवमसौ संयमानुष्ठानं निःसारीकरोति, एवंभूतश्वासी लिङ्गमात्रावशेषो बहूनां स्वयूथ्यानां तिरस्कारपदवीमवाप्नोति, परलोके च निकृष्टानि यातना स्थानान्यवाशोति ।। २६ ।। उक्ताः कुशीलाः, तत्प्रतिपक्षभूतान् सुशीलान् प्रतिपादयितुमाह
अण्णातपिंडेणऽहियास एज्जा, णो पूयणं तवसा आवहेजा । सदेहिं रूवेहिं असज्जमाणं, सवेहि
१ स एष यस्य गुणाः चिचरन्त्यनिवारिता वृशदिशासु इतरथा कथासु श्रूयते प्रत्यक्षं अद्य दृष्टोऽसि ॥ १ ॥
कामेहि विणीय गेहिं ॥ २७ ॥ सब्वाई संगाई अइच्च धीरे, सवाई दुक्खाई तितिक्खमाणे । अखिले अगिद्धे अणिएयचारी, अभयंकरे भिक्खु अणाविलप्पा ॥ २८ ॥ भारस्स जाता मुणि भुंजजा, कंखेज पावस्स विवेग भिक्खू । दुक्खेण पुट्ठे धुयमाइएज्जा, संगामसीसे व परं दमेजा ॥ २९ ॥ अवि हम्ममाणे फलगावतट्ठी, समागमं कंखति अंतकस्स । णिधूय कम्मं ण पवंचुवेद, अक्खक्खए वा सगडं तिबेमि ॥ ३० ॥ इति श्रीकुसीलपरिभासिय सत्तममज्झयणं समत्तं ॥ ( गाथाग्र० ४०२ )
अज्ञातश्वासौ पिण्डश्चाज्ञातपिण्ड : अन्तप्रान्त इत्यर्थः, अज्ञातेभ्यो वा - पूर्वापरा संस्तुतेभ्यो वा पिण्डोऽज्ञातपिण्डोऽज्ञातोऽछ| वृक्ष्या लब्धस्तेनात्मानम् 'अधिसहेत्' वर्तयेत् -- पालयेत् एतदुक्तं भवति - अन्तप्रान्तेन लब्धेनालब्धेन वा न दैन्यं कुर्यात्, | नाप्युत्कृष्टेन लब्धेन मदं विदध्यात् नापि तपसा पूजनसत्कारमावहेत्, न पूजनसत्कारनिमित्तं तपः कुर्यादित्यर्थः, यदिवा पूजा| सत्कारनिमित्तखेन तथाविधार्थिवेन वा महतापि केनचित्तपो मुक्तिहेतुकं न निःसारं कुर्यात्, तदुक्तम् - " परं लोकाधिकं धाम, | तपः श्रुतमिति द्वयम् । तदेवार्थिखनिर्लुप्तसारं तृणलवायते ॥ १ ॥ " ॥ यथा च रसेषु गृद्धिं न कुर्यात् एवं शब्दादिष्वपीति दर्शयति- 'शब्द' वेणघीणादिभिराक्षिप्तः संस्तेषु 'असजन' आसक्तिमकुर्वन् कर्कशेषु च द्वेपमगच्छन् तथा रूपैरपि मनोज्ञेतरै
Jain Education International
For Private Personal Use Only
७ कुशीलपरिभाषा.
॥ १६३॥
www.jainelibrary.org