________________
110
भूत्रकृताएं
caet
Pawan
शीलाङ्काचायीयचियुतं ॥१६॥
रागद्वेषमकुर्वन् एवं सर्वैरपि 'कामैः इच्छामदनरूपैः सर्वेभ्यो वा कामेभ्यो गृद्धि 'विनीय' अपनीय संयममनुपालयेदिति, सर्व- ७कुशीलथा मनोज्ञेतरेषु विषयेषु रागद्वेषं न कुर्यात् , तथा चोक्तम्-"सद्देसु य भद्दयपावएसु, सोयविसयमुवगएस । तुट्टेण व रुटेण व, परिभाषा. समणेण सया ण होयत्वं ॥१॥ संवेसु य भद्दयपावएसु, चक्खुविसयमुवगएसु । तुट्टेण व रुद्रेण व समणेण सया ण होयचं | ॥२॥ गंधेसु य भद्दयपावएसु, घाणविसयमुवगएसु । तुटेण ॥३॥ भक्खेसु य भद्दयपावएसु, रसण विसयमुवगएसु । तुट्टेण व रुटेण व, समणेण सया ण होयत्वं ॥४॥ फासेसु य भयपावएसु, फासविसयमुवगएसु । तुडेण व रुटेण व, समणेण सयाण होयत्वं ॥५॥" ॥ २७ ॥ यथा चेन्द्रियनिरोधो विधेय एवमपरसङ्गनिरोधोऽपि कार्य इति दर्शयति-सर्वान् 'सङ्गान्' संबन्धान |आन्तरान् स्नेहलक्षणान् बाह्यांश्च द्रव्यपरिग्रहलक्षणान् 'अतीत्य' त्यक्ता 'धीरो' विवेकी सर्वाणि 'दुःखानि' शारीरमानसानि || त्यक्सा परीषहोपसर्गजनितानि 'तितिक्षमाणः' अधिसहन् 'अखिलो ज्ञानदर्शनचारित्रैः सम्पूर्णः तथा कामेष्वगृद्धस्तथा 'अ-2 नियतचारी' अप्रतिबद्धविहारी तथा जीवानामभयंकरो भिक्षणशीलो भिक्षुः-साधुः एवम् 'अनाविलो विषयकपायैरनाकुल आत्मा यस्यासावनाविलात्मा संयममनुवर्तत इति ॥ २८ ॥ किश्चान्यत्-संयमभारस्य यात्रार्थ-पञ्चमहाव्रतभारनिर्वाहणार्थ 'मुनि:' कालत्रयवेत्ता 'भुञ्जीत' आहारग्रहणं कुर्वीत, तथा 'पापस्य कर्मणः पूर्वाचरितस्य 'विवेक' पृथग्भावं विनाशमाकात् 'भिक्षु' साधुरिति, तथा-दुःखयतीति दुःख-परीषहोपसर्गजनिता पीडा तेन 'स्पृष्टो' व्याप्तः सन् 'धूतं संयम मोक्षं वा ॥१६४॥
शन्देषु च भत्रकपापकेषु श्रोत्रविषयमपगतेषु तुष्टेन वा कष्टेन वा श्रमणेन सदा न भवितव्यं । २ रूपेषु. बधुः। ३ गंधयु• प्राण । ४ भक्ष्येषु रसना । ५ स्पर्शेष स्पर्शन। 'आददीत' गृहीयात् , यथा सुभटः कश्चित् सत्रामशिरसि शत्रुभिरभिद्रुतः 'परं' शत्रु दमयति एवं परं-कर्मशत्रु परीपहोपसर्गाभिद्रुतोऽपि दमयेदिति ॥ अपि च-परीषहोपसगैईन्यमानोऽपि-पीड्यमानोऽपि सम्यक् सहते, किमिव ?-फलकवदपकृष्टः यथा फलकमुभाभ्यामपि पार्वाभ्यां तष्टं-घट्टितं सत्तनु भवति अरक्तद्विष्टं वा संभवत्येवमसावपि साधुः सबाह्याभ्यन्तरेण तपसा निष्टप्सदेहस्तनुः-दुर्बलशरीरोरक्तद्विष्टश्च, अन्तकस्य-मृत्योः 'समागम' प्राप्तिम् 'आकाङ्कति' अभिलपति, एवं चारप्रकार कर्म 'निर्धूय' अपनीय न पुनः 'प्रपञ्च' जातिजरामरणरोगशोकादिकं प्रपश्यते बहुधा नटवद्यमिन् स प्रपञ्चः-संसारस्तं 'नोपैति' न याति, दृष्टान्तमाह-यथा अक्षस्य 'क्षये विनाशे सति 'शकटं' गब्यादिकं समविषमपथरूपं प्रपञ्चमुपष्टम्भकारणाभावानो-18| पयाति, एवमसावपि साधुरष्टप्रकारस्य कर्मणः क्षये संसारप्रपञ्चं नोपयातीति, गतोऽनुगमो, नयाः पूर्ववद् , इतिशब्दः परिसमाप्त्यर्थे ब्रवीमीति पूर्ववत् ॥ ३० ॥ समाप्तं च कुशीलपरिभाषाख्यं सप्तममध्ययनं ।।
सूत्रकृता शीलाकाचाीयचियुत
८वीर्या| ध्ययनं.
॥१६५॥
अथ अष्टमं श्रीवीर्याध्ययनं प्रारभ्यते ॥ उक्तं सप्तममध्ययनं, साम्प्रतमष्टममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने कुशीलास्तत्प्रतिपक्षभूताश्च सुशीला प्रतिपादिताः, तेषां च कुशीललं सुशीलसं च संयमवीर्यान्तरायोदयात्तत्क्षयोपशमाच्च भवतीत्यतो वीर्यप्रतिपादनायेदमध्ययनमुपदिश्यते, तदनेन संबंधेनायातस्यास्याध्ययनस्य चखायनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-बालबालपण्डितपण्डितवीर्यभेदात्रिविधमपि वीर्य परिज्ञाय पण्डितषीर्ये यतितव्यमिति, नामनिष्पमे तु निक्षेप बीर्याध्ययनं, वीर्यनिक्षेपाय नियुक्तिकृदाह
विरिए छकं दव्वे सञ्चित्ताचित्तमीसगं चेव । दुपयचउप्पयअपयं एवं तिविहं तु सचिसं ॥ ९१ ॥ वीर्ये नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवीर्य द्विधा आगमतो नोआगमतच, | आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्रिधा वीर्य, सचित्तमपि || द्विपदचतुष्पदापदभेदात् त्रिविधमेव, तत्र द्विपदानां अर्हचक्रवर्तिबलटेवादीनां यद्वीर्य स्त्रीरलस्य वा यस्य वा यवीर्य तदिह | द्रव्यवीर्यवेन ग्राह्यं, तथा चतुष्पदानामथहस्तिरनादीनां सिंहव्याघ्रशरभादीनां वा परस्य वा यद्वोढव्ये धावने वा वीर्य तदिति,18||१६५॥ तथाऽपदानां गोशीर्षचन्दनप्रभृतीनां शीतोष्णकालयोरुष्णशीतवीर्यपरिणाम इति ।। अचित्तवीर्यप्रतिपादनायाह
अचित्तं पुण विरियं आहारावरणपहरणादीसु । जह ओसहीण भणियं विरियं रसवीरियविवागो ॥ ९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org