________________
सत्रकृता
शीलाङ्काचायापवृ
तियुतं
1124411
सूत्रकृताङ्ग शीलाङ्का
चायायवृ
त्तियुतं
॥१५६॥
104
सामीप्येन यान्ति - व्रजन्ति तेष्वेव पृथिव्यादिकायेषु विविधमनेकप्रकारं भूयो भूयः समुत्पद्यन्त इत्यर्थः, यदिवा - विपर्यासोव्यत्ययः, सुखार्थिभिः कायसमारम्भः क्रियते तत्समारम्भेण च दुःखमेवावाप्यते न सुखमिति, यदिवा कृतीर्थिका मोक्षार्थमतः कायैर्या क्रियां कुर्वन्ति तथा संसार एव भवतीति ॥ २ ॥ यथा नामावायतदण्डो मोक्षार्थी तान् कायान् समारभ्य तद्विपर्ययात् संसारमाप्नोति तथा दर्शयति---
जाईप अणुपरिमाणे, तसथावरेहिं विणिघायमेति ।
से जाति जातिं बहुकूरकम्मे, जं कुवती मिज्जति तेण वाले ॥ ३ ॥ अस्सि च लोए अदुवा परत्था, सयग्गसो वा तह अन्ना वा । संसारमावन्न परं परं ते, बंधंति वेदंति य दुन्नियाणि ॥ ४ ॥
जातीनाम् एकेन्द्रियादीनां पन्था जातिपथः, यदिवा - जातिः - उत्पत्तिर्वधो-मरणं जातिश्व वधश्च जातिवधं तद् 'अनुपरिवर्तमानः' एकेन्द्रियादिषु पर्यटन् जन्मजरामरणानि वा बहुशोऽनुभवन् 'श्रसेषु' तेजोवायुद्धीन्द्रियादिषु 'स्थावरेषु' च पृथिव्य|म्बुवनस्पतिषु समुत्पन्नः सन् कायदण्डविपाकजेन कर्मणा बहुशो 'विनिधातं' विनाशमेति - अवाप्नोति 'स' आयतदण्डोऽसुमान् 'जातिं जातिम्' उत्पत्तिमुत्पत्तिमवाप्य बहूनि क्रूराणि - दारुणान्यनुष्ठानानि यस्य स भवति बहुक्रूरकर्मा, स एवम्भूतो निर्वि | वेकः सदसद्विवेकशून्यत्वात् बाल इव बालो यस्यामेकेन्द्रियादिकायां जातौ यत्प्राण्युपमर्दकारि कर्म कुरुते स तेनैव कर्मणा 'मी
यते' श्रियते पूर्यते यदिवा 'मी हिंसायां' मीयते हिंस्यते अथवा बहुक्रूरकर्मेति चौरोऽयं पारदारिक इति वा इत्येवं तेनैव | कर्मणा मीयते - परिच्छिद्यत इति ॥ ३ ॥ ॥ क पुनरसौ तैः कर्मभिमयते इति दर्शयति- यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव | जन्मनि विपाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ तस्य कर्म विपाकं ददति, एकस्मिन्नेव जन्मनि विपाकं तीव्रं ददति 'शताग्रशो वे 'ति बहुषु जन्मसु येनैव प्रकारेण तदनुभमाचरन्ति तथैवोदीर्यते तथा - 'अन्यथा वेति, इदमुक्तं भवति| किञ्चित्कर्म तद्भव एव विपाकं ददाति किञ्चिच जन्मान्तरे, यथा--मृगापुत्रस्य दुःखचिपाकाख्ये विपाकथुताङ्गश्रुतस्कन्धे | कथितमिति, दीर्घकालस्थितिकं लपरजन्मान्तरितं बेद्यते, येन प्रकारेण सकृत्तथैवानेकशो वा यदिवाऽन्येन प्रकारेण सकृत्सहस्रशो वा शिरश्छेदादिकं हस्तपादच्छेदारिकं चानुभूयत इति, तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारमापन्ना अरहट्टघटीयत्रन्यायेन संसारं पर्यटन्तः परं परं प्रकृष्टं प्रकृष्टं दुःखमनुभवन्ति, जन्मान्तरकृतं कर्मानुभवन्तश्चैकमार्तध्यानोपहता अपरं बभन्ति वेदयन्ति च दुष्टं नीतानि दुर्नीतानि - दुष्कृतानि, न हि स्वकृतस्य कर्मणो विनाशोऽस्तीतिभावः, तदुक्तम् - " मा होहि रे विसनो जीव ! तुमं विमणदुम्मणो दीणो । गहु चिंतिएण फिट्टह तं दुक्खं जं पुरा रइयं ॥ १ ॥ जैइ पविससि पायालं अडवि व दरिं गुहं समुदं वा । पुल्वकयाउ न चुक्कसि अप्पाणं घायसे जइवि || २ || " ॥ ४ ॥ एवं तावदोघतः कुशीलाः प्रतिपादिताः, तदधुना पाषण्डिकानधिकृत्याह
१ मा भव रे विषण्णो जीव ! त्वं विमना दुर्मना दीनः । नैव चिन्तितेन स्फेटते तदुःखं यत्पुरा रचितं ॥ १ ॥ २ यदि प्रविशति पाताल अटवीं वा दरी गुद्दां समुद्रं वा पूर्वकृताचैव भ्रश्यसि आत्मानं घातयसि यद्यपि ॥ १ ॥
Jain Education International
जे मायरं वा पियरं च हिच्चा, समणवए अगणिं समारभिजा ।
अहाहु से लोए कुसीलधम्मे, भूताइं जे हिंसति आयसाते ॥ ५ ॥ उज्जालओ पाण निवातएजा, निघावओ अगणि निवायवेजा ।
तम्हा उ मेहावि समिक्ख धम्मं, ण पंडिए अगणि समारभिजा ॥ ६ ॥
'ये' केचनाविदितपरमार्था धर्मार्थमुत्थिता मातरं पितरं च त्यक्त्वा, मातापित्रोर्दुस्त्यजखात् तदुपादानमन्यथा भ्रातृपुत्रादिकमपि त्यक्त्वेति द्रष्टव्यं श्रमणव्रते किल वयं समुपस्थिता इत्येवमभ्युपगम्याग्निकार्य समारभन्ते, पचनपाचनादिप्रकारेण कृतकारितानुमत्यौद्देशिकादि परिभोगाच्चाग्निकायसमारम्भं कुर्युरित्यर्थः, अथेति वाक्योपन्यासार्थः, 'आहु' रिति तीर्थकुद्गणधरादय एवमुक्तवन्तः यथा सोऽयं पापण्डिको लोको गृहस्थलोको वाऽग्निकायसमारम्भात् कुशीलः - कुत्सितशीलो धर्मो यस्य स कुशीलधर्मा, अयं किम्भूत इति दर्शयति-अभूवन् भवन्ति भविष्यन्तीति भूतानि प्राणिनस्तान्यात्मसुखार्थं 'हिनस्ति' व्यापादयति, तथाहि-पश्चाभितपसा निष्टतदेहास्तथाऽग्निहोत्रादिकया च क्रियया पाषण्डिकाः स्वर्गावाप्तिमिच्छन्तीति, तथा लौकिकाः पचनपाचनादिप्रकारेणाग्रिकार्य समारभमाणाः सुखमभिलषन्तीति ॥ ५ ॥ अग्निकार्यसमारम्भे च यथा प्राणातिपातो भवति तथा दर्शयितुमाह - तपनतापन प्रकाशादिहेतुं काष्ठादिसमारम्भेण योऽग्निकार्यं समारभते सोऽग्निकायमपरांश्च पृथिव्याद्याश्रितान् स्थावरनिसांच प्राणिनो निपातयेत्, त्रिभ्यो वा मनोवाक्कायेभ्य आयुर्बलेन्द्रियेभ्यो वा पातयेन्निपातयेत् ( त्रिपातयेत् ), तथाऽग्नि कायमुदकादिना
For Private & Personal Use Only
७ कुशीलपरिभाषा.
।। १५५ ।।
७ कुशीलपरिभाषा.
॥१५६॥
www.jainelibrary.org