________________
102
वीरस्तुत्य.
सूत्रकृतामः , लेशतस्त्विदं-क्रियैव परलोकसाधनायालमित्येवं वदितुं शीलं येषां ते क्रियावादिनः, तेषां हि दीक्षात एव क्रियारूपाया श्रीमहाशीला- मोक्ष इत्येवमभ्युपगमः, अक्रियावादिनस्तु ज्ञानवादिनः, तेषां हि यथावस्थितवस्तुपरिज्ञानादेव मोक्षः, तथा चोक्तम्-“पञ्चविंजारीय- शतितत्त्वज्ञो, यत्र तत्राश्रमे रतः । शिखी मुण्डी जटी वापि, सियते नात्र संशयः॥१॥" तथा विनयादेव मोक्ष इत्येवं गोत्रियुतं । शालकमतानुसारिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः, तथाऽज्ञानमेवैहिकामुष्मिकायालमित्येवमज्ञानिका व्यवस्थिताः,
इत्येवंरूपं तेषामभ्युपगमं परिच्छिद्य-स्वतः सम्यगवगम्य सम्यगवबोधेन, तथा स एव वीरवर्धमानखामी सर्वमन्यमपि बौद्धादिकं ॥१५२॥
|यं कश्चन वादमपरान् सत्त्वान् यथावस्थिततत्त्वोपदेशेन 'वेदयित्वा' परिज्ञाप्योपस्थितः सम्यगुत्थानेन संयमे व्यवस्थितो न तु 18| यथा अन्ये, तदुक्तम्-“यथा परेषां कथका विदग्धाः, शास्त्राणि कृता लघुतामुपेताः । शिष्यैरनुज्ञामलिनोपचारैर्वक्तृत्वदोषा
स्वयि ते न सन्ति ॥१॥" इति 'दीर्घरात्रम्' इति यावज्जीवं संयमोत्थानेनोत्थित इति ॥ २७ ॥ अपिच-स भगवान्
वारयित्वा-प्रतिषिध्य किं तदित्याह-'स्त्रियम्' इति स्त्रीपरिभोग मैथुनमित्यर्थः, सह रात्रिभक्तेन वर्तत इति सरात्रिभक्तं, उपलMA क्षणार्थवादस्यान्यदपि प्राणातिपातनिषेधादिक द्रष्टव्यं, तथा उपधानं तपस्तद्विद्यते यस्यासी उपधानवान-तपोनिष्टप्तदेहः, किम-1
र्थमिति दर्शयति-दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तस्य क्षयः-अपगमस्तदर्थ, किश्च-लोकं विदिखा 'आरम्' इहलो
काख्यं 'परं' परलोकाख्यं यदिवा-आरं-मनुष्यलोक पारमिति-नारकादिकं स्वरूपतस्तत्प्राप्तिहेतुतश्च विदिखा सर्वमेतत् ॥१५२॥ IS 'प्रभुः' भगवान 'सर्ववारं' बहुशो निवारितवान् , एतदुक्तं भवति-प्राणातिपातनिषेधादिकं खतोऽनुष्ठाय परांश्च स्थापितवान् , न |RI
हि खतोऽस्थितः परांश्च स्थापयितुमलमित्यर्थः, तदुक्तम्-"ब्रुवाणोऽपि न्याय्यं स्ववचनविरुद्धं व्यवहरन् , परानालं कश्चिद्दमयितुमदान्तः स्वयमिति । भवामिश्वित्यैवं मनसि जगदाधाय सकलं, खमात्मानं तावद्दमयितुमदान्तं ज्यवसितः ॥१॥" इति, तथा"तित्थंयरो चउनाणी सुरमहिओ सिज्ञियायधूयंमि । अणिहिमबलबिरओ सबत्थामेसु उञ्जमइ ॥ १ ॥ इत्यादि" ॥२८॥ साम्प्रतं सुधर्मखामी तीर्थकरगुणानाख्याय स्वशिष्यानाह-'सोचा य इत्यादि, थुला च दुर्गतिधारणाद्धर्म-श्रुतचारित्राख्यमईद्भिर्भापितं-सम्यगाख्यातमर्थपदानि-युक्तयो हेतपो वा तैरुपयुद्धर-अबदात सयुक्तिकं सहेतुकं वा यदिवा अथैः-अभिधेयैः पदैश्व-वाचकैः शब्दैः उप-सामीप्यन शुद्ध-निर्दोष, तमेवम्भूतमईनिर्भाषितं धर्म भदधानाः, तथाऽनुतिष्ठन्तो 'जना' लोका । 'अनायुषः' अपगतायुःकर्माणः सन्तः सिद्धाः, सायुषश्वेन्द्राधा देवाधिषा आगमिष्यन्तीति । इतिशब्दः परिसमाप्ती, अधीमीति पूर्ववत् ॥ २९ ॥ इति वीरस्तवाख्यं षष्ठमध्ययनं परिसमाप्तमिति ॥
SOPRAD9990099999Bossasses
१ तीर्थरचतुर्मानी मुरम हितः सेवयितव्ये सुवे, अनिहितबलवीर्यः सर्वस्थानोयच्छति ॥1॥
अथ सप्तमं अध्ययनं प्रारभ्यते ॥
७ कुशील परिभाषा
सूत्रकृताङ्गं शीलाताचार्गीयनसिपुते ॥१५३॥
उक्तं पष्टमध्ययनं, साम्प्रतं सप्तममारभ्यते, अस्स चायममिसम्बन्धः, हानन्तराध्ययने महापौरख गुणोत्कीर्तनतः सुशीलपरिभाषा कृता, तदनन्तरं तद्विपर्यस्ताः कुशीलाः परिभाष्यन्ते, तदनेन सम्बन्धेतायातस्यास्याध्ययनस्य चखार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-कुशीला:-परतीर्थिकाः पार्श्वस्थादयो वा खयुध्या अशीलाश्च गृहस्थाः परि-समन्तात् भाष्यन्ते-प्रतिपाद्यन्ते तदनुष्ठानतस्तद्विषाकदुर्गतिगमनतच निरूप्यन्त इति तथा तद्विपर्ययेण कचित्सुशीलाचेति, निक्षेपविधा ओघनाममत्रालापकभेदात, तत्रौषनिष्पमनिक्षपेऽध्ययनं,नामनिष्पने कुशीलपरिभाषेति, एतदधिकृत्य नियुक्तिकृदाह
सीले चक्क दन्वे पाउरणाभरणभोयणादीसु । भावे उ ओहसीलं अभिक्खमासेवणा चेव ॥८६॥ 'शोले' शीलविपय निक्षेपे क्रियमाणे 'चतुष्क'मिति नामादिश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णखादनादृत्य 'द्रव्यम्' इति द्रव्यशीलं प्रावरणाभरणभोजनादिपु द्रष्टव्यं, अस्थायमर्थः-यो हि फलनिरपेक्षस्तत्वभावादेव क्रियासु प्रवर्तते स तच्छीला, तत्रह प्रावरणशील इति प्रावरणप्रयोजनाभावेऽपि ताछील्यानित्यं प्रावरणखभावः प्रावरणे वा दत्तावधानः, एवमाभरणभोजनादिप्वपि द्रष्टव्यमिति, यो वा यस्स द्रव्यस्य चेतनाचेतनादेः स्वभावस्तद् द्रव्यशीलमित्युच्यते, भावशीलं तु द्विधा-ओघशीलमाभीक्ष्यसेवनाशीलं चेति ॥ तत्रौपशीलं व्याचिग्ख्यामुराह--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org