________________
सूत्रकृताङ्गं
शीलाङ्काचार्ययष्टचियुतं
॥१३७॥
सूत्रकृताङ्गं शीलाङ्काचायचियुतं
॥१३८॥
92
तेलविद्धा कलणं थांति, एगंतदुक्खं दुहओ गिलाणा ॥ १० ॥
'त' नरके स्तम्भादी ऊर्ध्ववाहवोऽधः शिरसो वा श्वपाकैर्वस्तवलम्बिताः सन्तः 'विसूणियंग' चि उत्कृत्ताङ्गा अपगतत्त्रचः पक्षिभिः 'अयोमुखैः' वज्रचक्षुभिः काकगृधादिभिर्भक्ष्यन्ते, तदेवं ते नारका नरकपालापादितैः परस्परकृतैः स्वाभाविकैर्वा छिन्ना भिन्नाः कथिता मूच्छिताः सन्तो वेदनासमुद्घातगता अपि सन्तो न म्रियन्ते अतो व्यपदिश्यते सञ्जीवनीवत् सञ्जीवनीजीवितदात्री नरकभूमिः, न तत्र गतः खण्डशश्छिन्नोऽपि त्रियते स्वायुषि सतीति सा च चिरस्थितिकोत्कृष्टतस्त्रयस्त्रिंशत् यावत्सागरोपमाणि, यस्यां च प्राप्ताः प्रजायन्त इति प्रजाः - प्राणिनः पापचेतसो हन्यन्ते मुद्गरादिभिः, नरकानुभावाच्च मुमूर्षवोऽ| प्यत्यन्तपिष्टा अपि न म्रियन्ते, अपितु पारदवन्मिलन्तीति ॥ ९ ॥ अपिच - पूर्वदुष्कृतकारिणं तीक्ष्णाभिरयोमयीभिः शूलाभिः नरकपाला नारकमतिपातयन्ति, किमिव ? - वशमुपगतं श्वापदमिव कालपृष्ठेस्करादिकं स्वातभ्येण लब्ध्वा कदर्थयन्ति, ते नारकाः शूलादिभिर्विद्धा अपि न म्रियन्ते, केवलं 'करुणं' दीनं स्तनन्ति, न च तेषां कचित्राणायालं तथैकान्तेन 'उभयतः' अन्तहिच 'ग्लाना' अपगतप्रभोदाः सदा दुःखमनुभवन्तीति ॥ १० ॥ तथा
सया जलं नाम निहं महंतं, जंसी जलंतो अगणी अकट्ठो । चिट्ठति बद्धा बहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया ॥ ११ ॥
१ • मभितापयन्ति १० । २ कालपृष्ठो मृगभेदे (हैमः ) ।
चिया महंतीउ समारभित्ता, छुब्भंति ते तं कलणं रसंतं ।
आती तत्थ असाहुकम्मा, सप्पी जहा पडियं जोइमज्झे ॥ १२ ॥
'सदा' सर्वकालं 'ज्वलत्' देदीप्यमानमुष्णरूपखात् स्थानमस्ति निहन्यन्ते प्राणिनः कर्मवशगा यस्मिन् तन्निहम् - आघात - स्थानं तच्च 'महदू' विस्तीर्ण यत्राकाष्टोऽग्निर्ज्वलन्नास्ते, तत्रैवम्भूते स्थाने भवान्तरे बहुक्रूरकृतकर्माणस्त द्विपाकापादितेन पापेन बद्धास्तिष्ठन्तीति किम्भूता: :- 'अरहखरा' बृहदाकन्दशब्दा: 'चिरस्थितिकाः' प्रभूतकालस्थितय इति ॥ ११ ॥ तथा - महंतीश्चिताः समारभ्य नरकपालाः 'तं' नारकं विरसं 'करुणं' दीनमारसन्तं तत्र क्षिपन्ति, स चासाधुकर्मा 'तत्र' तस्यां चितायां गतः सन् 'आवर्तते' विलीयते, यथा-'सर्पिः' घृतं ज्योतिर्मध्ये पतितं द्रवीभवत्येवमसावपि विलीयते, न च तथापि भवानुभावात्प्राणैर्विमुच्यते ।। १२ ।। अयमपरो नरकयातनाप्रकार इत्याह
सदा कसिणं पुण धम्मठाणं, गाढोवणीयं अइदुक्खधम्मं ।
Jain Education International
हत्थेहिं पाहि य बंधिऊणं, सत्तुव डंडेहिं समारभंति ॥ १३ ॥ जति बालस्स व पुट्टी, सीसंपि भिंदंति अओघणेहिं । ते भिन्नदेहा फलगंव तच्छा, तत्ताहिं आराहिं नियोजयंति ॥ १४ ॥
'सदा' सर्वकालं 'कृत्स्नं' सम्पूर्ण पुनरपरं 'धर्मस्थानं' उष्णस्थानं दृढैर्निधत्त निकाचितावस्यैः कर्मभिः 'उपनीतं' ढौकितमतीव दुःखरूपो धर्मः स्वभावो यस्मिंस्तदतिदुःखधर्मं तदेवम्भूते यातनास्थाने तमत्राणं नारकं हस्तेषु पादेषु च बद्धा तत्र प्रक्षिपन्ति, तथा तदवस्थमेव शत्रुमिव दण्डैः 'समारभन्ते' ताडयन्ति इति ॥ १३ ॥ किश्व - 'बालस्य' वराकस्य नारकस्य व्यथयतीति व्यथो-लकुटादिप्रहारस्तेन पृष्ठं 'भञ्जयन्ति' मोटयन्ति, तथा शिरोऽप्ययोमयेन घनेन 'भिन्दन्ति' चूर्णयन्ति, अपिशब्दादन्यान्यप्यङ्गोपाङ्गानि दुषणघांतैवर्णयन्ति 'ते' नारका 'भिन्नदेहाः' चूर्णिताङ्गोपाङ्गाः फलकमिवोभाभ्यां पार्श्वभ्यां क्रकचादिना 'अवतष्टाः' तनूकृताः सन्तस्तप्ताभिराराभिः प्रतुद्यमानास्तप्तत्रपुपानादिके कर्मणि 'विनियोज्यन्ते' व्यापार्यन्त इति ।। १४ ।। किञ्च
अभिजुंजिया रुद्द असाहुकम्मा, उसुचोइया हत्थिवहं वर्हति ।
एगं दुरूहितु दुवे ततो वा, आरुस्स विज्झति ककाणओ से ॥ १५ ॥ बाला बला भूमिमणुक्कमंता, पविज्जलं कंटइलं महंतं । विवद्धतप्पेहिं विवण्णचित्ते, समीरिया कोट्टबलिं करिंति ॥ १६ ॥
१ ० पाते० प्र० ।
For Private Personal Use Only
५ नरके भक्त्य
उद्देशः
॥१३७॥
५ नरकविभक्तयध्य.
उद्देशः २
॥१३८॥
www.jainelibrary.org