________________
५नरकविभक्यध्य. उदेशः २
रहंसि जुत्तं सरयंति बालं, आरुस्स विझंति तुदेण पिट्टे ॥३॥ अयंव तत्तं जलियं सजोइ, तऊवमं भूमिमणुकमंता ।
ते डज्झमाणा कलुणं थणंति, उसुचोइया तत्तजुगेसु जुत्ता ॥ ४ ॥ 'से तस्य नारकस्य तिसृषु नरकपृथिवीपु परमाधार्मिका अपरनारकाच अधस्तनचतसृषु चापरनारका एव मूलत आरभ्य बाहून् 'प्रकर्तयन्ति' छिन्दन्ति तथा 'मुखे' विकाशं कृला 'स्थूलं' बृहत्तप्तायोगोलादिकं प्रक्षिपन्त आ–समन्ताद्दहन्ति । तथा | 'रहसि' एकाकिनं 'युक्तम्' उपपत्रं युक्तियुक्तं खकृतवेदनानुरूपं तत्कृतजन्मान्तरानुष्ठानं तं 'बालम्' अझं नारकं सारयन्ति, | तद्यथा-तप्तत्रपुपानावसरे मद्यपस्खमासीस्तथा स्वमांसभक्षणावसरे पिशिताशी खमासीरित्येवं दुःखानुरूपमनुष्ठानं सारयन्तः 80 कदर्थयन्ति, तथा-निष्कारणमेव 'आरूष्य' कोपं कृला प्रतोदादिना पृष्ठदेशे तं नारकं परवशं विध्यन्तीति ॥ ३ ॥ तथा
तप्तायोगोलकसन्निभां ज्वलितज्योतिर्भूतां तदेवंरूपां तदुपमा वा भूमिम् 'अनुक्रामन्तः' तो ज्वलितां भूमि गच्छन्तस्ते दह्यमानाः 'करुणं' दीनं-विस्वरं 'स्तनंति' रारटन्ति तथा तप्तेषु युगेषु युक्ता गलिबलीवी इव इषुणा प्रतोदादिरूपेण विध्यमानाः स्तनन्तीति ।। ४॥ अन्यच्च
बाला बला भूमिमणुकमंता, पविजलं लोहपहं च तत्तं । सूत्रकृताङ्गं
जंसीऽभिदुग्गंसि पवजमाणा, पेसेव दंडेहिं पुराकरंति ॥५॥ शीलाङ्काचार्याय
ते संपगाढंसि पवजमाणा, सिलाहि हम्मति निपातिणीहि । चियुत
संतावणी नाम चिरद्वितीया, संतप्पती जत्थ असाहुकम्मा ॥ ६ ॥ ॥१३६॥
'बाला' निर्विवेकिनः प्रज्वलितलोहपथमिव तप्तां भुवं 'पविज्जलं'ति रुधिरपूयादिना पिच्छिला बलादनिच्छन्तः 'अनुक्रम्यमाणा' प्रेर्यमाणा विरसमारसन्ति, तथा 'यस्मिन् अमिदुर्गे कुम्भीशाल्मल्यादौ प्रपद्यमाना नरकपालचोदिता न सम्यग्गच्छन्ति, ततस्ते कुपिताः परमाधार्मिकाः 'प्रेष्यानिव' कर्मकरानिव बलीवर्दवद्वा दण्डैहला प्रतोदनेन प्रतुद्य 'पुरत:' अग्रतःकुर्वन्ति, न ते खेच्छया गन्तुं स्थातुं वा लभन्त इति ॥५॥ किश्च-'ते' नारकाः 'सम्प्रगाढ मिति बहुवेदनमसर्थ नरके मार्ग वा प्रपधमाना गन्तुं स्थातुं वा तत्राशनुवन्तोऽभिमुखपातिनीभिः शिलाभिरसुरैर्हन्यन्ते, तथा सन्तापयतीति सन्तापनी-कुम्भी सा च | चिरस्थितिका तद्गतोऽसुमान् प्रभूतं कालं यावदतिवेदनाग्रस्त आस्ते यत्र च 'सन्तप्यते' पीब्यतेऽत्यर्थम् 'असाधुकर्मा' जन्मान्तरकृताशुभानुष्ठान इति ॥६॥ तथा
कंदूसु पक्खिप्प पयंति बालं, ततोवि दहा पुण उप्पयंति। ते उडकाएहिं पखजमाणा, अवरोहिं खजंति सणप्फएहि ॥७॥ समूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं थणंति ।
अहोसिरं कटु विगत्तिऊणं, अयंव सत्थेहिं समोसवेंति ॥ ८॥ तं 'बालं' वराकं नारकं कन्दुषु प्रक्षिप्य नरकपालाः पचन्ति, ततः पाकस्थानात् ते दह्यमानाचणका इव भृज्यमाना ऊर्ध्व पतन्त्युत्पतन्ति, ते च ऊर्ध्वमुत्पतिताः 'उड्काएहिंति द्रोणैः काकैवक्रियैः 'प्रखाद्यमाना' भक्ष्यमाणा अन्यतो नष्टाः सन्तोऽपरैः 'सणप्फएहिंति सिंहव्याघ्रादिभिः 'खाद्यन्ते' भक्ष्यन्ते इति ॥७॥ किञ्च-सम्यगुच्छ्रितं-चितिकाकृति, नामशब्दः सम्भावनायां, सम्भाव्यन्ते एवंविधानि नरकेषु यातनास्थानानि, विधमस्य-अग्नेः स्थान विधुमस्थानं यत्प्राप्य शोकवितप्ताः | 'करुणं' दीनं 'स्तनन्ति' आक्रन्दन्तीति, तथा अधःशिरः कृता देहं च विकायोवत् 'शस्त्रः' तच्छेदनादिभिः 'समोसवेंति'त्ति खण्डशः खण्डयन्ति ।। ८॥ अपि च
समूसिया तत्थ विसूणियंगा, पक्खीहिं खजंति अओमुहेहिं । संजीवणी नाम चिरट्रितीया, जंसी पया हम्मइ पावचेया ॥९॥
तिक्खाहिं सूलाहि निवाययंति, वसोगयं सावययं व लद्धं । १ भितावयंति प्र०।
cिersesercedeceserseaseseselaeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeese
॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org