SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतानं शीलाइनचार्ययवृचियुतं ॥१३९॥ 93 रौद्रकर्मण्यपरनार कहननादिके 'अभियुज्य' व्यापार्य यदिवा - जन्मान्तरकृतं 'रौद्रं' सत्त्वोपघातकार्यम् 'अभियुज्य' स्मारयिखा असाधूनि - अशोभनानि जन्मान्तरकृतानि कर्माणि-अनुष्ठानानि येषां ते तथा तान् 'इषुचोदितान' शराभिघातप्रेरितान् हस्तिवाहं वाहयन्ति नरकपालाः, यथा हस्ती वाह्यते समारुह्य एवं तमपि वाहयन्ति, यदिवा-यथा हस्ती महान्तं भारं वहत्येवं तमपि नारकं वाहयन्ति, उपलक्षणार्थवादस्योष्ट्रवाहं वाहयन्तीत्याद्यप्यायोज्यं कथं वाहयन्तीति दर्शयति--तस्य नारकस्योपर्येकं द्वौ त्रीन् वा 'समारुह्य' समारोप्य ततस्तं वाहयन्ति, अतिभारारोपणेनावहन्तम् ' आरुष्य' क्रोधं कृत्वा प्रतोदादिना 'विध्यन्ति' तुदन्ति, 'से' तस्य नारकस्य 'ककाणओ'त्ति मर्माणि विध्यन्तीत्यर्थः ।। १५ ।। अपिच - बाला इव बालाः परतन्त्राः, पिच्छिलां रुधिरादिना तथा कण्टकाकुलां भूमिमनुक्रामन्तो मन्दगतयो बलात्प्रेर्यन्ते, तथा अन्यान् 'विषण्णचित्तान्' मूर्च्छितांस्तर्पकाकारान् 'विविधम्' अनेकधा बद्धा ते नरकपालाः 'समीरिताः पापेन कर्मणा चोदितास्तान्नारकान् 'कुयित्वा' खण्डशः कृला 'बलिं करिंति'त्ति नगरबलिवदितश्चेतश्च क्षिपन्तीत्यर्थः, यदिवा कोट्टबलिं कुर्वन्तीति ।। १६ ।। किश्च - वेतालिए नाम महाभितावे, एगायते पवय मंतलिक्खे | हम्मंति तत्था बहुकूरकम्मा, परं सहस्साण मुहुत्तगाणं ॥ १७ ॥ संवाहिया दुकडिणो णंति, अहो य राओ परितप्यमाणा । १ मर्मणि प्र० । २ बलिं कुर्वति इतचेतश्च क्षिपंतीत्यर्थः, यदिवा कोट्टबलिं कुर्वतीति, कुर्वति नगरबलि प्र० । रगतकूडे नरए महंते, कूडेण तत्था विसमे हता उ ॥ १८ ॥ नामशब्दः सम्भावनायां, सम्भाव्यते एतन्नरकेषु यथाऽन्तरिक्षे 'महाभितापे' महादुःखैककार्ये एकशिलाघटितो दीर्घः 'वेयालिए त्ति वैक्रियः परमाधार्मिकनिष्पादितः पर्वतः तत्र तमोरूपलान्नरकाणामतो हस्तस्पर्शिकया समारुहन्तो नारका 'हन्यन्ते' पीड्यन्ते, बहूनि क्रूराणि जन्मान्तरोपात्तानि कर्माणि येषां ते तथा, सहस्रसंख्यानां मुहूर्तानां परं प्रकृष्टं कालं, सहस्रशब्दस्योपलक्षणार्थलात्प्रभूतं कालं हन्यन्त इतियावत् ॥ १७॥ तथा सम्- एकीभावेन वाधिताः पीडिता दुष्कृतं पापं विद्यते येषां ते दुष्कृतिनो महापापा: 'अहो' अहनि तथा रात्रौ च 'परितप्यमाना' अतिदुःखेन पीड्यमानाः सन्तः करुणं-दीनं 'स्तनन्ति' आक्रन्दन्ति, तथैकान्तेन 'कूटानि' दुःखोत्पत्तिस्थानानि यस्मिन् स तथा तस्मिन् एवम्भूते नरके 'महति' विस्तीर्णे पतिताः प्राणिनः तेन च कूटेन गलयत्रपाशादिना पाषाणसमूहलक्षणेन वा 'तत्र' तस्मिन्विषमे हताः तुशब्दस्यावधारणार्थलात् स्तनन्त्येव केवलमिति ॥ १८ ॥ अपिच भजंति णं पुवमरी सरोलं, समुग्गरे ते मुसले गहेतुं । ते भिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पडंति ॥ १९ ॥ अणासिया नाम महासियाला, पागब्भिणो तत्थ सयायकोवा । खजंति तत्था बहुकूरकम्मा, अदूरगा संकलियाहि बद्धा ॥ २० ॥ 'णम्' इति वाक्यालङ्कारे पूर्वमरय इवारयो जन्मान्तरखैरिण इव परमाधार्मिका यदिवा-जन्मान्तरापकारिणो नारका अपरेपामङ्गानि 'सरोषं' सकोपं समुद्गराणि मुसलानि गृहीला 'भञ्जन्ति' गाढप्रहारैरामदयन्ति, ते च नारकास्त्राणरहिताः शस्त्रप्रहारैर्भिन्नदेहा रुधिरमुद्वमन्तोऽधोमुखा धरणितले पतन्तीति ॥ १९ ॥ किञ्च - महादेहप्रमाणा महान्तः शृगाला नरकपालविकचिंता 'अनशिता' बुभुक्षिताः, नामशब्दः सम्भावनायां सम्भाव्यत एतन्नरकेषु, 'अतिप्रगल्भिता' अतिधृष्टा रौद्ररूपा निर्भयाः 'तत्र' तेषु नरकेषु सम्भवन्ति 'सदावकोपा' नित्यकुपिताः तैरेवम्भूतैः शृगालादिभिस्तत्र व्यवस्थिता जन्मान्तरकृतबहुरकर्माणः शृङ्खलादिभिर्बद्धा अयोमयनिगडनिगडिता 'अदूरगाः' परस्परसमीपवर्तिनो 'भक्ष्यन्ते' खण्डशः खाद्यन्त इति ॥ ।। २० ।। अपिच Jain Education International सयाजला नाम नदी भिदुग्गा, पविज्जलं लोहविलीणतत्ता । जंसी भिदुग्गंसि पवजमाणा, एगायऽताणुकमणं करेंति ॥ २१ ॥ एयाई फासाई फुसंति बालं, निरंतरं तत्थ चिरद्वितीयं । ण हम्ममाणस्स उ होइ ताणं, एगो सयं पच्चणुहोइ दुक्खं ॥ २२ ॥ १ त्रोटयन्ते प्र० । For Private Personal Use Only ५ नरकवि भक्त्यध्य. उद्देशः २ ॥१३९॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy