SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग शीलाङ्का चाय चियुतं ॥१३०॥ 87 तश्चि नारकानत्यन्तक्षारोष्णेन दुर्गन्धेन वैतरणीज लेनाभितप्तानायस कीलाकुलां नावमुपगच्छतः पूर्वारूढा 'असाधुकर्माणः ' परमाधार्मिकाः 'कीलेषु' कण्ठेषु विध्यन्ति, ते च विध्यमानाः कलकलायमानेन सर्वस्रोतोऽनुयायिना वैतरणीजलेन नष्टसंज्ञा अपि सुतरां ' स्मृत्या विप्रहीणा' अपगत कर्तव्यविवेका भवन्ति, अन्ये पुनर्नरकपाला नारकैः क्रीडतस्तान्नष्टांस्त्रिशूलिकाभिः श | लाभिः 'दीर्घिकाभिः' आयताभिर्विध्वा अधोभूमौ कुर्वन्तीति ॥ ९ ।। अपिच - केषांचिन्नारकाणां परमाधार्मिका महतीं शिलां गले बद्धा महत्युदके 'बोलंति'त्ति निमज्जयन्ति, पुनस्ततः समाकृष्य वैतरणीनद्याः कलम्बुकावालुकायां मुर्मुरानौ च 'लोलयन्ति' अतितप्तवालुकायां चणकानिव समन्ततो घोलयन्ति, तथा अन्ये 'तत्र' नरकावासे स्वकर्मपाशावपाशितान्नारकान् सुण्ठके प्रोतकमपिपेशीवत् 'पचन्ति' भर्जयन्तीति ॥ १० ॥ तथा सूरियं नाम महाभितावं, अंधतमं दुप्पतरं महंतं । उड्डुं अहेअं तिरियं दिसासु, समाहिओ जत्थऽगणी झियाई ॥ ११ ॥ जं गुहाए जतिउट्टे, अविजाणओ डज्झइ लुत्तपणो । सायकलणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं ॥ १२ ॥ न विद्यते सूर्यो यस्मिन् सः असूर्यो - नरको बहलान्धकारः कुम्भिकाकृतिः सर्व एव वा नरकावासोsसूर्य इति व्यपदिश्यते, १] कर्तव्याकर्तव्य प्र० । २ इयत्त० प्र० । ३ प्रोतमां० प्र० ४ असूरियं प्र० । तमेवम्भूतं महाभितापम् अन्धतमसं 'दुष्प्रतरं ' दुरुत्तरं 'महान्तं' विशालं नरकं महापापोदयाद्रजन्ति, तत्र च नरके ऊर्ध्वमधस्तिर्यक्र सर्वतः 'समाहितः' सम्यगाहितो व्यवस्थापितोऽग्निर्ज्वलतीति, पठ्यते च 'समूसिओ जत्थऽगणी झियाई' यत्र नरके सम्यगूर्ध्व श्रितः - समुच्छ्रितोऽग्निः प्रज्वलति तं तथाभूतं नरकं वराका व्रजन्ति इति ॥ ११ ॥ किञ्चान्यत् – ' यस्मिन्' नरकेऽतिगतोऽसुमान् 'गुहाया' मित्युष्ट्रिकाकृतौ नरके प्रवेशितो 'ज्वलने' अग्नौ 'अतिवृत्तः' अतिगतो वेदनाभिभूतत्वात्स्वकृतं दुश्चरितमजानन् 'लुप्तप्रज्ञः' अपगतावधिविवेको दन्दह्यते, तथा 'सदा' सर्वकालं पुनः करुणप्रायं कृत्स्त्रं वा 'धर्मस्थानम्' उष्णस्थानं तापस्थानमित्यर्थः, 'गाढं 'ति अत्यर्थम् 'उपनीतं' ढौकितं दुष्कृतकर्मकारिणां यत् स्थानं तत्ते व्रजन्ति, पुनरपि तदेव विशिनष्टि- अतिदुःखरूपो धर्मः - स्वभावो यस्मिन्निति, इदमुक्तं भवति - अक्षिनिमेषमात्रमपि कालं न तत्र दुःखस्य विश्राम इति, तदुक्तम् - "अच्छिणिमीलणमेत्तं णत्थि सुहं दुक्खमेव पडिबद्धं । णिरए णेरइयाणं अहोणिसं पञ्चमाणाणं ॥ १ ॥ " ॥ १२ ॥ अपि चचत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितविंति बालं । तत्थ चिभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता ॥ १३ ॥ संतच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा । हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ॥ १४ ॥ १ जाज्वल० प्र० । २ पच्यते प्र० । ३ अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेव प्रतिबद्धं निरये नैरयिकाणां अहर्निशं पच्यमानानाम् ॥ १ ॥ चतसृष्वपि दिक्षु चतुरोऽश्रीन् 'समारभ्य' प्रज्वाल्य 'यत्र' यस्मिन्नरकावासे 'क्रूरकर्माणों' नरकपाला आभिमुख्येनात्यर्थ तापयन्ति - भटित्रवत्पचन्ति 'बालम्' अज्ञं नारकं पूर्वकृतदुश्चरितं ते तु नारकजीवा एवम् 'अभितप्यमानाः कदर्थ्यमानाः स्वकर्मनिगडितास्तत्रैव प्रभूतं कालं महादुःखाकुले नरके तिष्ठन्ति, दृष्टान्तमाह-यथा जीवन्तो 'मत्स्या' मीना 'उपज्योतिः' अझे: समीपे प्राप्ताः परवशत्वादन्यत्र गन्तुमसमर्थास्तत्रैव तिष्ठन्ति, एवं नारका अपि, मत्स्यानां तापासहिष्णुवादनावत्यन्तं दुःखमुत्पद्यत इत्यतस्तग्रहणमिति || १३ || किश्चान्यत्-सम् - एकीभावेन तक्षणं सन्तक्षणं, नामशब्दः सम्भावनायां यदेतत्संतक्षणं तत्सर्वेषां प्राणिनां 'महाभितापं' महादुःखोत्पादकमित्येवं सम्भाव्यते, यद्येवं ततः किमित्याह ते 'नारका' नरकपाला 'यत्र' नरकावासे स्वभवनादागताः 'असाधुकर्माणः' क्रूरकर्माणो निरनुकम्पाः 'कुठारहस्ताः' परशुपाणयस्ता नारकानत्राणान् हस्तैः पादैश्व 'बद्धा' संयम्य 'फलकमिव' काष्ठशकलमिव 'तक्ष्णुवन्ति' तनुकुर्वन्ति छिन्दन्तीत्यर्थः ॥ १४ ॥ अपिच Jain Education International रुहिरे पुणो वच्चसमुसिअंगे, भिन्नुत्तमंगे वरिवत्तयंता । पयंति णं णेरइए फुरंते, सजीवमच्छे व अयोकवले ॥ १५ ॥ नो चेव ते तत्थ मसीभवंति, ण मिज्जती तिव्वभिवेयणाए । तमाणुभा अणुवेदयंता, दुक्खंति दुक्खी इह दुक्कडेणं ॥ १६ ॥ For Private Personal Use Only ५ नरकवि भक्तयध्य. उद्देशः १ ॥१३०॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy