________________
प्रस्तावना
द्वितीयपरिशिष्टयोरुपयोग विधायव ग्रन्थोऽयमध्येतव्य इत्यभ्यर्थ्यते । अवशिष्टेषु परिशिष्टेषु टीकायामुद्धतानां पाठानां सूत्राणां नियुक्तिगाथानां चाकारादिक्रम उपन्यस्तः ।
- इदं पुनरत्नावधेयम्-टीकागताः पाठभेदा एवात्र परिशिष्टयोः प्रामुख्येन संगृहीताः । ये तु मूलसूत्रगताः पाठभेदास्तेऽतिबहव इति पत्र प्रायो न संगृहीताः । किन्तु श्रीमहावीरजन विद्यालय-बम्बई-प्रकाशितयोराचाराङ्ग-सूत्रकृताङ्गसूत्रयोः सूत्रगता पाठभेदा महता विस्तरेणास्माभिर्दशिता इति जिज्ञासुभिस्तत्रैव विलोकनीयाः । प्रतिबिम्ब (Photocopy) रूपेणाऽस्मिन् ग्रन्थे येऽक्षरमात्रादयो न सम्यक् प्रकटीभूतास्ते तत्र तत्न सुधीभिः स्वयमेवाभ्यू ह्याः।
धन्यवादा:
सटीकयोराचाराङ्गसूत्र ताङ्गयोः संशोधनं सम्पादनं च प्रागमोद्धारकः स्व०श्रीसागरानन्दसूरीश्वरपादैर्महता महता परिश्रमेण विहितम्, तदेव चात्र प्रतिबिम्ब (Photo) रूपेण प्रकाश्यते, अतस्ते सहस्रशो धन्यवादमर्हन्ति ।
आगमप्रभाकरैराजीवनश्रुतोपासकैः स्व० मुनिराजश्रीपुण्यविजयमहाभागैर्महता परिश्रमेण संगृहीताः पाठभेदा एवात्र प्रथमद्वितीयपरिशिष्टनिर्माणेऽत्यन्तमुपयोगिनः सञ्जाता इति तेऽप्यनेकशो धन्यवादमर्हन्ति ।
देहली (Delhi) प्रभृतिनगरेषु विद्यमानस्य 'मोतीलाल बनारसीदास' इति पुस्तकापणस्याधिपतयो जिनागमभक्ता लाला श्री सुंदरलालजी महोदया आगमानां सटीकानां पुनर्मुद्रणे नितान्तं स्वरसमावहन्ति । मुद्रण-प्रकाशनादिव्यवस्था सर्वापि तैरेव स्वीकृता । तेषामेव प्रेरणया उत्साहेन च द्वादशाङ ग्यामादिमे इमे सटीके प्राचाराङ्ग-सूत्रकृताङ्गसूत्रे प्राकाश्यमाप्नुतः अग्रेतनानपि स्थानाङ्गसूत्रादीनागमग्रन्थाननयव रीत्या शीघ्र प्रकाशयितुं ते समीहन्त इति तेऽपि भूयसो धन्यवादानहन्ति ।
परिशिष्ट-विषयानुक्रमादिसर्वपरिष्कारेषु विविधेषु चान्यकार्येषु विनेयाः मुनिराज श्रीधर्मचन्द्रविजयमहोदया नितान्तं साहायकमनुतिष्ठन्ति स्म । परमात्मा सद्गुरुदेवाश्च तं परमश्रेयसा युजीरन्निति प्रार्थ्यन्ते ।
परमकृपालोरनन्तोपकारिणः श्रीशङ्केश्वरपार्श्वनाथप्रभोः परमोपकारिणां परमपूज्यानां प्रातःस्मरणीयानां सद्गुरुदेवानां पितृचरणानां मुनिराजश्रीभुवनविजयजीमहाराजानां च परमकृपया साहाय्याच्चैव कार्यमिदं सम्पन्नमिति तेषां चरणेष्वनन्तशः प्रणिपातं विधाय प्रभुमहावीरस्वामिनिर्वाण कल्याणकपवित्रितेऽद्य दीपालिकापर्वदिने
प्रणम्य श्रीमहावीरं मयाम्यतेन कुसुमेन । विक्रमसंवत् २०३३ श्रीमहावीरस्वामिनिर्वाणकल्याणकदिनम्
पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकार१०-११-७७
पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यवाव (जिला बनासकांठा)
पूज्यपादमुनिराजश्रीभुवनविजयान्तेवासी उत्तर गुजरात
मुनिः जम्बूविजय :
with Best Compliments,
from: refe, Resi........... ... office. 90396
35795 Smt. Visi N. Trumani.
A/3, Sl: : : Society, Ashram kund, fert i liyapill,
AHMEDABAD-13.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org