________________
प्रस्तावना
४१
अपरे च पाठभेदा श्रीमहावीरजनविद्यालयेन प्रकाशिते सूत्रकृतांगे विस्तरेणास्माभिर्दशिताः, बौद्धादिग्रन्थान्तरैः सह विस्तरेण तुलनापि तत्र परिशिष्टादौ दशिता, अतो विस्तरेण जिज्ञासुभिस्तत्र विलोकनीयम् । पृ० 199 पं०४ मध्ये विद्यमानः पाठः सम्प्रति दिगम्बरेषु बहुमतस्य मूलाराधनाग्रन्थस्य अपराजितसूरिविरचितायां विजयोदयाटीकायां [पृ० ६१२] तथा सूत्रकृतस्य पुण्डरीकेऽध्याये कथितं 'ण कहेज्जा धम्मकहं वत्थपत्तादिहेतुं' इति पाठभेदेन दृश्यते, अतो दिगम्बराणामपि किञ्चिद् भिन्ना पाठपरम्परासीदिति प्रतीयते ।
सूत्रकृताङ्गस्य व्याख्याः
नियुक्तिः प्राकृतभाषायां श्रीभद्रबाहुस्वामिविरचिता, २०५ गाथात्मिका ।
चूणिः संस्कृतमिश्रितप्राकृतभाषायां विरचिता। अस्याः कर्तुर्नाम न ज्ञायते। "अरणतरणाणदंसणधरो, एतेण एकत्वं णाणदंसणाणं ख्यापितं भवति" (२।४।२२, पृ० ७६) इत्युल्लेखदर्शनादेते चूर्णिकृतः सिद्धसेन दिवाकराचार्यमतानुयायिनः संभाव्यन्ते । अत्र दूषगणिक्षमाश्रमणशिष्यभद्दियाचार्या ब्रुवते" इत्युल्लेखः, गुर्जरदेशवर्तिनः [चाणस्मासमीपस्थस्य] मोढेरगग्रामस्योल्लेखश्च द्वितीयश्रुतस्कन्धचूगौं वर्तते।
टीका शीलाचार्यविरचिता ३२ अक्षराणामेकः श्लोक इति गणनया १२८५० श्लोकप्रमिता। इयं चात्र मुद्रिता । इमामेव महतीं वृत्तिमुपजीव्यान्यः कालान्तरे संक्षिप्ता वृत्तयो विरचिताः । वृत्तिरियं बहूनां वादानां विचाराणां चाकरकल्पा। शीलाचार्याणां समयादिविषये प्राचाराङ्गवर्णने पूर्वमेव विचारितम् ।
(१) दीपिका हेमविमलसूरिशिष्यहर्षकुलगणिना विक्रमसंवत् १५८३ वर्षे विरचिता । (२) दीपिका विक्रमसंवत् १५९९ वर्षे भुवनसोमशिष्य-उपाध्यायसाधुरङ्गविरचिता।
वर्तमानं संस्करणम्
नमुपलब्धान् हस्तलिखित
। आगमोदयसमितिस्प रपादः संपादनं विहित
भद्रबाहुस्वामिसन्दुब्धनियुक्ति-शीलाचार्यविरचितवृत्तिसमन्वितयोराचाराङ्ग-सूत्रकृताङ्गसूत्रयोः तदानीमुपलब्धान् हस्तलिखितादर्शानवलम्ब्य महता प्रयासेन संशोधन विधाय आगमोद्धारकसागरानन्दसूरीश्वरपादैः संपादनं विहितम्, तच्च क्रमेण विक्रमसंवत् १९७२, १९७३ वर्षे च आगमोदयसमित्या प्रकाशितम् । आगमोदयसमितिप्रकाशितमिदं सटीक सूत्रद्वयं सम्प्रति अतिदुर्लभम् । किञ्चान्यत्, ततः परं स्व० आगमप्रभाकर मुनिराजश्री पुण्यविजयजीमहाभागः पत्तन-जेसलमेरदुर्ग-खंभात-प्रभृतिस्थानेषु विद्यमानाः प्राचीनतराः प्राचीनतमा वा बहवो हस्तलिखितादर्शाः सूत्राणां तट्टीकानां च महता प्रयासेन समुपलब्धाः। तत्र च स्थाने स्थाने बहवः पाठभेदाः सन्ति । एतेषां सर्वेषां पाठभेदानां संग्रहो मुद्रितप्रतिषु मुनिराजश्रीपुण्यविजयमहाभागः कृतः कारितो वा। तेषु बहवः पाठभेदा अत्युपयोगिनः । अत उपयोगिपाठभेदानां समावेशं विधाय सूत्राणां तट्टीकानां च पुनर्मुद्रणं सम्प्रति अत्यावश्यकम् । किन्तु संस्कृतमुद्रकास्तथाविधा मुद्रणालयाः सम्प्रति न सुलभाः, पुनर्मुद्रणेऽत्यन्तं कालविलम्बोऽपि जायते, अन्यदपि बहुविधं काठिन्यं पुनर्मुद्रणे वर्तते । अतः पुनर्मुद्रणक्लेशपरिहाराय प्रागमोदयसमित्या प्रकाशितमेवेदं ग्रन्थद्वयं प्रतिबिम्ब Photo-Copy रूपेणात्र मुद्यते, ये तत्र अत्यावश्यकाः शुद्धा विशिष्टा वा पाठभेदास्तेऽत्र ग्रन्थान्ते प्रथम-द्वितीयपरिशिष्टयोवृद्धिपत्रके शुद्धिपत्रके च संगृहीताः। ये तु अल्पमहत्त्वकाः पाठभेदास्ते उपेक्षिताः। अनयो प्रथम
१. पृ० 43 मध्येऽत्र (२।२।११) “महयं पलिगोव जाणिया जावि य वंदणपूयणा इहं । सुहुमे उसल्ले दुरुद्धरे. . . . .॥" इति गाथा वर्तते । बौद्धग्रन्थे सुत्तपिटके थेरगाथायां “पङ्को ति हि नं पवेदयु यायं वन्दन पूजना कुलेसु। सुखुमं सल्लं दुरुब्बहं सक्कारो कापुरिसेन दुज्जहो ।" इति गाथा वर्तते पृ० २६३, ३१४, ३७२ । पृ० 44 मध्येऽत्र (२।२।१७) "उवणीयतरस्स ताइणो भयमाणस्स विविक्कमासणं । सामाइयमाहु तस्स जं जो अप्पाण भए ण दंसए ॥” इति गाथा वर्तते । बौद्धग्रन्थे सुत्तपिटके सुत्तनिपाते (पृ० ३९४) “पतिलीनचरस्स भिक्खुनो भजमानस्स विवित्तमासनं । सामग्गियमाहु तस्स तं यो अत्तानं भवने न दस्सये ॥” इति दृश्यते । पृ० 143 मध्ये (१२१७) "णाइच्चो उएइ ण अत्थमेति ण चंदिमा वड्ढति हायती वा। सलिला ण संदंति ण वंति वाया वंझो णियतो कसिणो हु लोए ॥” इति गाथा वर्तते । बौद्धग्रन्थे सुत्तपिटके संयुत्तनिकाये (पृ०४१४) “न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, चन्दम-सूरिया उदेन्ति वा अपेन्ति वा, एसिक-ट्ठायि-ट्ठिता" इति पाठो वर्तते । “महावाता न वायन्ति न सन्दन्ति सवन्तियो। तानि अज्ज पदिस्सन्ति धुवं बुद्धो भविस्सति ।। ८३॥" इति सुत्तपिटके बुद्धवंसे पृ० ३११ विद्यते ।
२. "भद्दियापरिप्रोवएसेणं भिन्नरूवा एक्कका दससद्देण संगिहीया भवंति" इति अगस्त्यसिंहविरचितायां दशवकालिकचूणों पृ. ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org