________________
प्रस्तावना
एषु केचिद् वादाः पालित्रिपिटकान्तर्गतेषु दीघनिकाय-मज्झिमनिकायादिबौद्धग्रन्थेषु मनुस्मृत्यादिषु च वैदिकग्रन्थेष्वपि वर्णिता विलोक्यन्ते । विस्तरेण जिज्ञासुभिः श्री महावीरजनविद्यालयप्रकाशितसूत्रकृताङ्गस्य तृतीये परिशिष्टे विलोकनीयम्।
तृतीयेऽध्ययने चतुर्थे उद्देशके नमिविदेहि-रामगुप्त-बाहुक-तारागण-आसिलदेविल-द्वीपायन-पाराशरादय ऋषयो यथा स्वेन स्वेनाचारेण मुक्तिं गतास्तथा वर्णितम् । एते च केचिदृषय इसिभासियाइं (ऋषिभाषितानि) इति ग्रन्थे जैनानामपि सम्मताः । 'सुखेन सुखं लभ्यते' इति बौद्धमतमपि वणितमस्मिन्नध्ययने। विस्तरेण जिज्ञासुभिः श्रीमहावीरजैनविद्यालयप्रकाशितस्य सूत्रकृताङ्गस्य तृतीये परिशिष्टे प्रस्तावनायां च विलोकनीयम् ।।
द्वादशेऽध्ययने समोसरणे (समवसरणे) १ क्रियावादिनाम्, २ अक्रियावादिनां, ३ विनयवादिनाम्, ४ अज्ञानवादिनां च स्वरूपं वणितम् । सापेक्षः क्रियावादश्च सम्यग्वादत्वेन दर्शितः ।
सप्तदशेऽध्ययने पौण्डरीके तज्जीव-तच्छरीरवादिना पञ्चमहाभूतवादिनाम् पात्मषष्ठपञ्चमहाभूतवादिनाम् ईश्वरकारणिकानां नियतिवादिनां च मतानि किञ्चिद्विस्तरेण वणितानि ।
द्वाविशेऽध्ययने आर्द्रकुमारस्य गोशालकादिभिः सह वादो वणितः, अस्मिंश्च प्रसंगे गोशालक-बौद्ध भिक्षु-ब्रह्मवति-त्रिदण्डि-हस्तितापसानां मतानि वर्णितानि ।
त्रयोविशेऽध्ययने भगवतो गौतमस्वामिनः पार्श्वनाथसन्तानीयेन उदकेन पेढालपुत्रेण सह जातस्य पालापस्य वर्णनम् । इत्येवं विविधाः स्व-परसमयविचाराः सूत्रकृताङ्गे दृश्यन्ते ।
पाठपरम्पराविषयक इतिहास आचाराङ्गवदवगन्तव्यः। सूत्रकृताङ्गचूणिकृद्भिस्तेषां समक्षं यः सूत्रकृताङ्गस्य पाठ आसीत् तदनुसारेण चूणिविरचिता, वृत्तिकृद्भिः शीलाचार्यस्तु तेषां समक्षं यः पाठ आसीत् तदनुसारेण टीका विरचिता। अत उभयोः पाठयोः प्रथमे श्रुतस्कन्धे क्वचित् क्वचिद् भेदः, द्वितीयश्रुतस्कन्धे तु भूयान् पाठभेदः । सम्प्रति या सूत्रकृताङ्गस्य पाठपरम्परा हस्तलिखितादर्शेषूपलभ्यते सा टीकाकृदनुसृतया पाठपरम्परया प्रायशः संवदति । चूर्णिकृदनुसृता अपि केचन पाठाः क्वचिद्धस्तलिखितादर्श दृश्यन्ते । एते च चूर्णिगता
पि ता समारंभ पाहारेज्ज असंजए। भुंजमाणो वि मेहावी कम्मुणा नोवलिप्पते ॥” इति गाथायां दृश्यते। (अत्र "पुत्तं पिया समारंभ.... भुजमाणो य....नोवलिप्पइ ॥” इति वृत्तिसम्मतः पाठः, दृश्यतां पृ. 26)। अस्य चूर्णी वृत्ती च व्याख्या
"पुत्रमपि तावत् समारभ्य, समारम्भो नाम विक्रीय मारयित्वा तन्मांसेन वा द्रव्येण वा, किमंग पुणरपुर्व शूकरं वा छागलं वा, आहारार्थं कुर्याद् भक्तं भिक्खूणं, अस्संजतो नाम भिक्खुव्यतिरिक्तः, स पुनरुपासकोऽन्यो वा, तं च भिक्षुः त्रिकोटिशुद्धं भुजानोऽपि मेधावी कम्मुणा णोवलिप्पते"---सूत्रकृताङ्गचूर्णिपृ० ३८। “पुत्तं पिता इत्यादि। पुत्रमपत्यं पिता जनकः समारभ्य व्यापाद्य आहारार्थ कस्याञ्चित् तथाविधायामापदि तदुद्धरणार्थमरक्तद्विष्ट: असंयतो गृहस्थ: तत्पिशितं भुजानोऽपि, चशब्दस्य अपिशब्दार्थत्वादिति, तथा मेधाव्यपि संयतोऽपीत्यर्थः; तदेव गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि कर्मणा पापेन नोपलिप्यते नाश्लिष्यते"--सूत्रकृताङ्गवृत्ति शीलाचार्यविरचिता पृ० ३९।
१. “समवसरंति जेसु दरिसणाणि दिट्ठीयो वा ताणि समोसरणाणि।"--चूणि पृ० २०७। “सम्यग् एकीभावेनावसरणम् एकत्र मेलापकः समवसरणम्"--वृत्ति पृ० २०७, “वादिनां सम्यगवसरणं मेलापक:"--वृत्ति पु० २१०, “समवसरणानि परतीथिकाभ्युपगमसमूहरूपाणि"--वृत्ति पृ० २१२ । असियसयं किरियाणं अक्किरियाणं च होइ चुलसीती ।अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥११९॥ --सूत्रकृतांगनियुक्ति । तुलना-“यानि च तीणि यानि च सट्टि समणप्पवादसितानि भूरिपञ। साक्खरसञ्जनिस्सितानि प्रोसरणानि विनेय्य प्रोद्यतमगा ॥” इति बौद्धानां सुत्तपिटके सुत्तनिपाते पृ० ३५१ । “प्रोसरणानीति प्रोगहणानि तित्थानि, दिट्ठियो ति अत्थो, तानि यस्मा सक्कायदिट्ठिया सह ब्रह्मजाले वुत्तद्वासट्ठिदिट्ठिगतानि गहेत्वा तेसट्टि होन्ति । यस्मा च तानि अञतित्थिय समणाणं पवादभूतानि सत्थानि सितानि उपदिसित ब्बसेन, न उप्पत्तिवसेन" इति बुद्धघोषाचार्यविरचितायां सुत्तनिपात-अट्ठकथायाम् पृ० २६५-२६६ ॥
२. “सम्मट्ठिी किरियावादी मिच्छा य सेसगा वाई। जहिऊण मिच्छवायं सेवह वायं इमं सच्चं ॥१२१॥"--सूत्रकृताङ्गनियुक्ति । "सम्यग्दृष्टि . . . .क्रियाम् 'अस्ति' इत्येवम्भूतां वदितुं शीलमस्येति क्रियावादी . . . 'सर्वानपि कालादीन् कारणत्वेनाभ्युपगच्छन् तथात्मपुण्य-पाप-परलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाभ्युपगन्तव्यः । शेषकास्तु वादा प्रक्रियावादा-ज्ञानवाद-वैनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः"--वृत्ति पृ० २१० । “क्रियावादित्वेऽपि सति सम्मद्दिट्रिणो चेव एगे सम्मावादी, अवसेसा चत्तारि वि समोसरणा मिच्छावादिणो"-चूणि पृ० २०७।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org